मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 34, कुल 1023 में से
संदर्भ में पढ़ें[हेडर] खं. १ अ. १३ | पान २४
किमर्थं मे स्मरणं वदतं कृतम् ॥२५॥ तत्रोचतुर्हरिर्ब्रह्मा शृणु शंकर मे वचः । तवैश्वर्यं कियन्मात्रं दर्शयस्व सदाशिव ॥२६॥ तयोर्वचनमाकर्ण्य गर्वयुक्तः सदाशिवः । उवाच क्रोधसंयुक्तो वचनं विस्मयन्निव ॥२७॥ शिव उवाच । अहं हर्ता च सर्वेषां युवयोर्नात्र संशयः । मत्तः परं न किंचिद्वै ज्ञातव्यं सर्वभावतः ॥२८॥ इत्युक्त्वा स स्वयं शंभुर्दर्शयामास तौ वपुः । ज्योतीरूपं महालिंगं परं सर्वत्र संस्थितम् ॥२९॥ तत्तौ दृष्ट्वा महाश्चर्यं विस्मितौ विधिमाधवौ । अध ऊर्ध्वं पुरः पश्चाद्वाम- दक्षिणसंततम् ॥३०॥ तत्र ब्रह्मा स्वयं विष्णुमुवाच मधुरं वचः । अधस्त्वं गच्छ देवेश ऊर्ध्वं गच्छामि भावतः ॥३१॥ शिवस्यांतं प्रपश्यावः कीदृशोऽयं महेश्वरः । अतस्त्वं त्वरितो भूत्वा कुरु शीघ्रमिदं वचः ॥३२॥ इत्युक्तो ब्रह्मणा विष्णुस्तं प्रत्यूचे प्रभावतः । ब्रह्मन्मह्यं वरं देहि पश्चादंतं समुत्सहे ॥३३॥ भ्रांतो ब्रह्माऽभवत्तत्र वरं ब्रूहीति सोऽब्रवीत् । दास्यामि नात्र संदेहः प्रीतस्त्वं वरयाशु च ॥३४॥ विष्णुरुवाच । त्वं मे पुत्रो भव ब्रह्मन्नेष एव वरो मतः । तस्य तद्वचनं श्रुत्वा विस्मितो विधिरब्रवीत् ॥३५॥ वंचितोऽहं त्वया नूनं संभ्रमेऽस्मिन् समुत्थिते । दत्तो वरो यतस्तेन तव पुत्रो भवाम्यहम् ॥३६॥ सृष्टिकाले च संप्राप्ते त्वन्नाभिकमलात् स्वयम् । देहं सृजामि योगेन पद्मजोऽहं तवात्मजः ॥३७॥ इत्युक्तः स हरिस्तत्र तं प्रणम्य तथेति च । प्रविष्टोधः शिवस्यापि द्रष्टुं पारं महात्मनः ॥३८॥ ब्रह्माऽपि त्वरितो भूत्वोर्ध्वं ययौ पारलिप्सया । न तत्र पारमीशस्य प्राप्तवान् स पितामहः ॥३९॥ विष्णुश्च शंकरस्याधो न पारं दृष्टवान् ततः । बहुकालेन तौ तत्राऽऽगतौ तौ खिन्नमानसौ ॥४०॥ परस्परविचारेण शंकरं स्तोतुमुद्यतौ । बद्धांजलिपुटावेतौ स्तोत्रं चक्रतुरुत्तमम् ॥४१॥ ब्रह्मविष्णू ऊचतुः । नमस्ते शंकरायैव नमस्ते शूलपाणये । रुद्राय कालरूपाय त्र्यंबकाय नमो नमः ॥४२॥ उमापते नमस्तुभ्यं वृषभेश्वरवाहन । आदिदेवाय देवाय महादेवाय ते नमः ॥४३॥ प्रसीद भगवन् शंभो नांतं पश्यावहे विभो । किंरूपं किंस्वभावं त्वां न जानीवः कथंचन ॥४४॥ दर्शय स्वात्मरूपं भो महेश्वर नमोऽस्तु ते । येन ते भजनं देव जनाः कुर्वंति निर्भयाः ॥४५॥ तयोर्वचनमाकर्ण्य शंभुः प्राकट्यमास्थितः । ततस्तं तौ ददृशतुर्हरिश्च भगवान् विधिः ॥४६॥ वामभागे स्थितं विष्णुं दक्षिणांगे पितामहम् । विश्वं चराचरं सर्वं लिंगे तत्रास्य संस्थितम् ॥४७॥ अपारमहिमानं तं दृष्ट्वा नेमतुरादरात् । उपसंहर रूपं तत्त्वमेव परमेश्वरः ॥४८॥ तयोर्वचनमाकर्ण्य हृष्टः सन् शंकरः प्रभुः । भगवान् पूर्वरूपेण संतस्थौ वृषभध्वजः ॥४९॥ उवाच तौ महादेवो वृणुतं वरमीप्सितम् । दास्यामि भवतोर्भावात् स्तोत्र-