भारतकोश
मुद्गल पुराण (अष्टावतार चरितम्)

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

महर्षि मुद्गल द्वारा

स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)

DevanagariSanskritpublished1,023 पृष्ठ

पृष्ठ 208, कुल 1023 में से

संदर्भ में पढ़ें
पृष्ठ 208

शीर्षक (Header): खं. २ अ. ३९ | पान ८२


॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । ततो दैत्यपदे राजा प्रह्लादो वैष्णवोऽभवत् । स तु वैरं समुत्सृज्य देवैः संमानितो बभौ ॥१॥ गते कियति काले च गृहे तस्य महात्मनः । विधाता दैत्यराजस्याययौ प्रीत्या प्रजापते ॥२॥ स तु दुष्टैर्महादैत्यैः क्रमेण अंशितोऽसुरः । संसर्गदोषयुक्तोऽभून्न तं मेने पितामहम् ॥ ३॥ क्रोधेन विधिना तत्र शप्तोऽसौ वैष्णवाधमः । ज्ञानं प्रह्लाद नष्टं च त्वदीयं प्रहविष्यति ॥ ४ ॥ प्रह्लादमेवं शप्त्वा स ययौ स्थानं निजं विधिः । प्रह्लादश्च तथा दैत्यैर्देवानां हनने रतः ॥५॥ न मेने मनसा विष्णुं शंभुं वामरनायकम् । जित्वा देवान् समस्तान् स राज्यं चक्रेऽसुराधिपः ॥६॥ प्रह्लादः स ततो देवैर्मित्रभावेन धारितः । सहनं कृतमत्यंतं तद्दौरात्म्यस्य चादरात् ॥७॥ देवैर्विष्णुसहायैश्च कालेन विजिता बलात् । दैत्याः प्रह्लादमत्यंतं संरक्ष्य सुरनायकैः ॥ ८ ॥ स्वराज्ये संस्थितं दैत्यं प्रह्लादं च महामुनिः । भ्रमन् समाययौ द्रष्टुं शक्तो गृत्समदो महान् ॥९॥ तं दृष्ट्वा दैत्यराजः स प्रणनाम महायशाः । स्वासने तं समावेश्य पूजयामास भक्तितः ॥१०॥ भक्तो मुनिवरं दैत्यः पादसंवाहने स्थितः । उवाच मधुरं वाक्यं प्रह्लादो हर्षसंयुतः ॥११॥ प्रह्लाद उवाच। धन्यं मेऽद्य कुलं ज्ञानं विद्या दानादिकं च यत् । तवांघ्रियुगलं दृष्ट्वा पवित्रो नात्र संशयः ॥१२॥ मुने योगींद्रमुख्यस्त्वं तव दर्शनमुत्तमम् । न भवेत् पापकाराणां भुक्तिमुक्तिक्रमप्रदम् ॥ १३ ॥ अहं शप्तश्च योगींद्र विधिना तेन मोहितः । असुरैः संवृतोऽत्यंतं दुष्टकर्मरतोऽभवम् ॥१४॥ स्त्रीमद्यादिरतो नित्यं ज्ञानहीनो निरंतरम् । देवानां द्वेषबुद्ध्या वै छेदने प्रयतोऽभवम् ॥१५॥ अधुना पादपद्मस्य दर्शनेन महामुने । ज्ञानस्य स्फूर्तिरल्पा मे संजाता नात्र संशयः ॥ १६ ॥ पूर्वपुण्यबलेनैव जातं ते दर्शनं महत् । आसुरी प्रकृतिर्मेऽद्य गता तेन महामुने ॥१७॥ वद ज्ञानं महायोगिंस्तारयस्व भवार्णवात् । मां वै शरणार्थिनं विप्र शिष्यं ते च जगद्गुरो ॥१८॥ मुद्गल उवाच । एवं संप्राार्थितो दक्ष मुनिर्गुत्समदो महान् । कृपया परयाऽऽविष्टस्तमुवाच विशेषतः ॥१९॥ गृत्समद उवाच । शृणु प्रह्लाद वक्ष्यामि ज्ञानं शांतिसुखप्रदम् । गणनांथं भजस्व त्वं विघ्नहीनो भविष्यसि ॥२०॥ मदासुरश्च दैत्येशो हृदये ते प्रतापवान् । आसुरेण स्वभावेन संस्थितो ज्ञानखंडकः ॥२१॥ अतस्तमेकदंतस्य भजनेन जहि प्रभो । तदा ज्ञानं दृढं ते वै हृदये संस्थितं भवेत् ॥२२॥ इति तस्य वचः श्रुत्वा प्रह्लादस्तं पुनर्जगौ । कोऽसौ मदासुरः पापी हृदये तिष्ठति प्रभो ॥२३॥ एकदंतस्य भजनं कीदृशं वद सांप्रतम् । मदासुरस्य हंताऽसौ कथं जातो गजाननः ॥२४॥ एतत्सर्वं सुविस्तार्य वद मह्यं प्रयाचते । शिष्याय सकलं विप्र