मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 209, कुल 1023 में से
संदर्भ में पढ़ेंखं. २ अ. ३९ पान ८३
येन ज्ञानं दृढं भवेत् ॥२५॥ मुद्गल उवाच । प्रह्लादस्य वचः श्रुत्वा मुनिर्गृत्समदोऽब्रवीत् । मदासुरस्य माहात्म्यमेकदंताश्रितं प्रभो ॥२६॥ गृत्समद उवाच । शृणु प्रह्लाद यत् पृष्टं तत्सर्वं कथयामि ते । चरित्रमेकदंतस्य सर्वसिद्धिप्रदायकम् ॥२७॥ एकदा राक्षसः कश्चिद्ययौ भृग्वाश्रमं महान् । महाखलश्छिद्रदर्शी समिदर्थं गते मुनौ ॥२८॥ स तत्रैकाकिनीं वीक्ष्य भृगुपत्नीं वचोऽब्रवीत् । सुलोमा किं भृगोः पत्नी त्वं हि मां वद सांप्रतम् ॥२९॥ मह्यं कन्यां महीपालो दातुं स ह्युद्यतोऽभवत् । एतस्मिन्नंतरे कन्या याचिता भृगुणाऽभवत् ॥३०॥ मां त्यक्त्वा भृगवे कन्या दत्ता तेन महीभृता । तस्माद्गोर्हरिष्यामि भार्यां चाऽहं न संशयः ॥३१॥ तस्य तद्वचनं क्रूरं श्रुत्वा तूष्णीं बभूव ह । सुलोमा सा भृगोः पत्नी ततः सोऽप्यग्निमब्रवीत् ॥३२॥ राक्षस उवाच । अग्ने वद महाभाग त्वं साक्षी सर्वसंमतः । इयं पत्नी भृगोः किं वान्यस्य सत्यं महाद्युते ॥३३॥ राक्षसस्य वचः श्रुत्वा न किंचित्तं वचोऽब्रवीत् । उत्तरं शापभीतोऽसौ हव्यवाहः प्रतापवान् ॥ ३४॥ पुनस्तेन च संपृष्टोऽग्निर्नोवाच सुदुर्मतिम् । पुनः पृष्टस्तथाग्निस्तमुवाच भयसंकुलः ॥३५॥ अजानता नरः पृष्टः संशये प्रसमुच्यते । कथयेत्तं न पापीयान् भवेद्वै सोऽपि निश्चितम् ॥३६॥ अतोऽहं कथयिष्यामि सत्यं तुभ्यं न संशयः । आदौ राज्ञा च संदातुं कथिता राक्षसाय सा ॥३७॥ अतस्त्वं राक्षसो भागी मतः शास्त्रे न संशयः । तवाग्रे कथितं चेन्मे पापं न स्यात् कदाचन ॥३८॥ अतः कन्यां प्रदातुं वै नराय दृढनिश्चयः । न कर्तव्योऽसुरेश त्वं विचारय महामते ॥३९॥ यदि दातुं कृता कन्या कस्मैचिन्निश्चिता भवेत् । तस्मै सा वै प्रदातव्याऽन्यथा दोषी भवेन्नरः ॥४०॥ आशाभंगमयं पापं संप्राप्तं तस्य दैत्यप । न कन्या दूष्यते तत्रान्यस्मै दत्ता नराय चेत् ॥४१॥ ततस्तं राक्षसं क्रूरमूचे वै हव्यवाहनः । पत्नी भृगोरियं साधो मा गृहीष्व परस्त्रियम् ॥४२॥ अग्नेर्वचनमाकर्ण्य गृहीत्वा राक्षसो ययौ । अंतर्वत्नीं रुदंतीं च मूर्च्छितां स विहायसा ॥४३॥ तस्यामुदरवासी च भृगोस्तेजोधरो मुनिः । कुपितो राक्षसं हंतुं च्युतो वै जठरात् स्वयम् ॥४४॥ तस्य क्रोधानलेनैव भस्मसाद्भवत्क्षणात् । राक्षसः सोऽपि संगृह्य पुत्रं स्वगृहमाययौ ॥४५॥ दुःखिता रुदती देवी सुलोमा भयविह्वला । वनाद् भृगुः समायात- स्तस्मिन् काले प्रतापवान् ॥४६॥ रुदंत्या कथितस्तस्मै वृत्तांतो मुनिभार्यया । तं श्रुत्वा कुपितो योगी साक्षाद्रुद्र इवाऽपरः ॥ ४७॥ उवाच कोपरक्ताक्षोऽग्ने त्वं शप्तो मयाऽधुना । सर्वभक्षो भवाऽज्ञानी दुष्टकर्मपरायण ॥४८॥ एवं शप्त्वा महादेवं भृगुरग्निं स्वयं मुनिः । सुलोमां सांत्वयामास पुत्रं स्वं प्रशशंस ह ॥४९॥ उदरात्तु च्युतः क्रोधाच्च्यवनो