भारतकोश
मुद्गल पुराण (अष्टावतार चरितम्)

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

महर्षि मुद्गल द्वारा

स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)

DevanagariSanskritpublished1,023 पृष्ठ

पृष्ठ 210, कुल 1023 में से

संदर्भ में पढ़ें
पृष्ठ 210

नाम सत्तमः । तेनाऽयं भविता पुत्रो मदीयो मातृपालकः ॥ ५० ॥ सुखेन स्वाश्रमे योगी भृगुः परमतत्त्ववित् । पत्न्या पुत्रेण संयुक्तः स्थितो गणपतिं स्मरन् ॥ ५१ ॥ ॥ ओमिति श्रीमदान्ते पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदंतचरिते च्यवनोत्पत्तिकथनं नामैकोनचत्वारिंशोऽध्यायः ॥ ॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । शापितो भृगुणाग्निश्च ययौ स्थानं निजं ततः । अंतर्धाय स्वमात्मानं स्थितः परमदुःखितः ॥१॥ अग्निं विना च सर्वत्र हाहाकारो महानभूत् । मुनयः सहिता देवैर्ब्रह्माणं शरणं ययुः ॥२॥ मुनय ऊचुः । शप्तोऽग्निर्भृगुणा स्वामिन्नंतर्धाय ययौ स्वयम् । कर्महीना वयं नाथ वह्निहीना भवामहे ॥३॥ शरणं त्वां प्रपन्नाः स्मो रक्ष रक्ष पितामह । नोचेच्चराचरं सर्वं नश्यत्यत्र न संशयः ॥४॥ श्रुत्वा स वचनं तेषां तैः सहाऽग्निं ययौ विधिः । सांत्वयामास तं वाक्यै- र्वेदानां परमाद्भुतैः ॥५॥ ब्रह्मोवाच । अग्ने शृणु महाभाग वेदेषु कथितं महत् । सर्वभक्षः शुचिष्मान् वै तव नाम विनिश्चितम् ॥६॥ भृगोर्नैवापराधोऽस्ति भावि जातं न संशयः । मा कुरुष्व वृथा चिंतां भव सौम्यो महामते ॥७॥ अतस्त्वं सर्वभक्षोऽपि पवित्रः परमो मतः । भक्षदोषविहीनस्त्वं भविताऽसि न संशयः ॥८॥ वचः श्रुत्वा चुकोपाऽग्निः प्रलयं कर्तुमुद्यतः । ज्वालाः सांवर्तिकाः क्रोधाच्चिक्षेप स चराचरे ॥९॥ ज्वालाभिर्दह्यमानास्ते ब्रह्माद्याः प्रययुस्ततः । गणेशं मनसा ध्यात्वा स्थिताऽभयसमन्विताः ॥१०॥ एतस्मिन्नंतरे तत्रैकदंतो ब्राह्मणोऽभवत् । आययावग्निसान्निध्ये तमुवाच हितं वचः ॥११॥ ब्राह्मण उवाच । अग्ने किं क्षुभितोऽत्यंतं हरसि त्वं कथं जगत् । अकाले क्रोधसंयुक्तो न स्मृतस्ते विनायकः ॥१२॥ स्वातंत्र्यं पश्य यत्रास्ति मा गर्वं कुरु देवप । विनायकं परित्यज्य स्वातंत्र्यं न भवेद्यतः ॥१३॥ एवमुक्तोऽपि तं विप्रं ददाह स्वीयतेजसा । प्रहस्य स मुनींद्रोऽसावुवाच गणनायकः ॥१४॥ शलाकां चेन् महावह्ने दहसि त्वं स्वसत्तया । मया दत्तां स्वसामर्थ्यात्तदैवं सचराचरम् ॥१५॥ एवमुक्त्वा शलाकां स तत्र चिक्षेप भूसुरः । न तां शक्तो दाहयितुं जातो वह्निः स्वसत्तया ॥१६॥ ततस्तं प्रणनामाथ गतगर्वो हुताशनः । को विनायकनामा वै सर्वेषां नायकः स्मृतः ॥ १७ ॥ वद मे करुणासिंधो तं भजामि विशेषतः । त्वं कोऽसि विप्ररूपेण प्रमोहयसि मां प्रभो ॥१८॥ शांतमग्निमुवाचाऽथ विप्ररूपी