भारतकोश
मुद्गल पुराण (अष्टावतार चरितम्)

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

महर्षि मुद्गल द्वारा

स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)

DevanagariSanskritpublished1,023 पृष्ठ

पृष्ठ 211, कुल 1023 में से

संदर्भ में पढ़ें
पृष्ठ 211

खं. २ अ. ४० पान ८५


गजाननः । बोधयन् हेतुगर्भाभिर्वाग्भिः सर्वार्थकोविदः ॥१९॥ विप्र उवाच । स्वानंदवासिनं विद्धि विनायकमनामयम् । सर्वेषां नायकं पूर्णं नायकैर्वर्जितं परम् ॥२०॥ शांतियोगेन शांतिज्ञास्तं भजंते द्विजोत्तमाः । तं योगं तेऽभिधास्यामि शृणुष्वैकमनाः प्रभो ॥२१॥ एकानेकादिभेदैश्च संयुक्तः प्रणवः स्मृतः । संप्रज्ञातसमाधिं तं विद्धि वह्ने महाद्युते ॥२२॥ संयोगायोगभेदैश्च संयुक्तं ब्रह्म यत् स्मृतम् । असंप्रज्ञातरूपस्थं विद्धि तयोर्गसेवया ॥ २३ ॥ संप्रज्ञातासंप्रज्ञातयोगे वै शांतिदायकः । शांतियोगः समाख्यातो गाणेशो हव्यवाहन ॥२४॥ गणाः समूहरूपाश्च तेषां स्वामी गजाननः । तं भजस्व महातेजो वह्ने भक्तिसमन्वितः ॥२५॥ एवमुक्त्वा ददौ तस्मै मंत्रमेकाक्षरं परम् । विधियुक्तं स दैत्येंद्र गाणेशं सर्वसिद्धिदम् ॥२६॥ दर्शयामास रूपं स्वं त्यक्त्वा ब्राह्मणरूपकम्। गजाननादि चिह्नैश्च चिह्नितं भक्तपालकम् ॥२७॥ तं दृष्ट्वा निपपातोर्व्यां वह्निर्हर्ष- समन्वितः । तावदंतर्हितं रूपं ततः खिन्नोऽभवच्छुचिः ॥२८॥ स्वर्गं त्यक्त्वा वनं वह्निर्ययौ योगविधित्सया । समाधिना तपस्तेपे गणेशप्राप्तिहेतवे ॥२९॥ दिव्यवर्षशतेनैव तं ययौ भक्तवत्सलः । गजाननः प्रसन्नात्मा परमात्मा परात्परः ॥३०॥ दृष्ट्वाग्निं तपसा युक्तं स्वभक्तं प्रत्युवाच ह । वरं वृणु महाभाग तुष्टोऽहं तपसा च ते ॥३१॥ गृत्समद उवाच । गणेशवचनं रम्यं श्रुत्वा हर्षसमन्वितः । ननाम दंडवद्भूमौ भावयुक्तेन चेतसा ॥३२॥ पूजयित्वा यथान्यायं तुष्टाव स कृतांजलिः । हव्यवाहः प्रसन्नात्मा गणेशं योगशांतिदम् ॥३३॥ अग्निरुवाच । नमस्ते विघ्ननाशाय भक्तानां हितकारक । नमस्ते विघ्नकर्त्रे वै ह्यभक्तानां विनायक ॥३४॥ नमो मूषकवाहाय गजवक्त्राय धीमते । आदिमध्यांतहीनायादिमध्यांतस्वरूपिणे ॥३५॥ चतुर्भुजधरायैव चतुर्वर्गप्रदायिने । एकदंताय वै तुभ्यं हेरंबाय नमो नमः ॥३६॥ लंबोदराय देवाय गजकर्णाय ढुंढये । योगशांतिस्वरूपाय योगशांतिप्रदायिने ॥३७॥ योगिभ्यो योगदात्रे च योगिनां पतये नमः । चराचरमयायैव प्रणवाकृति- धारिणे ॥३८॥ सिद्धिवुद्धिमयायैव सिद्धिवुद्धिप्रदायक । सिद्धिवुद्धिपते तुभ्यं नमो भक्तप्रियाय च ॥३९॥ अनंतानन देवेश प्रसीद करुणानिधे । दासोऽहं ते गणाध्यक्ष मां पालय विशेषतः ॥४०॥ धन्योऽहं सर्वदेवेषु दृष्ट्वा पादं विनायक । कृतकृत्यो महायोगी ब्रह्मभूतो न संशयः ॥४१॥ यदि प्रसन्नभावेन वरदोऽसि गजानन । तदा मां शापहीनं त्वं कुरु देवेंद्रसत्तम ॥४२॥ तव भक्तिं दृढां देहि यया मोहो विनश्यति । तव भक्तैः सहावासो ममास्तु गणनायक ॥४३॥ यदा संकटसंयुक्तस्तदा स्मरणतस्तव । निःसंकटोऽहमत्यंतं भवामि त्वत्प्रसादतः ॥४४॥ एवमुक्त्वा गणाधीशं प्रणतो भक्तिसंयुतः । तमुवाच