मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 212, कुल 1023 में से
संदर्भ में पढ़ेंगणाध्यक्षो भक्तवत्सलभावतः ॥४५॥ गणेश उवाच। त्वया कृतमिदं स्तोत्रं मम प्रीतिविवर्धनम्। भविष्यति नृणां चैव शृण्वतां पठतां सदा ॥४६॥ यं यं चिंतयसे कामं तं तं दास्यामि शाश्वतम्। भक्तिभावेन संतुष्टो भृशं स्तोत्रेण संस्थितः ॥४७॥ मदीया भक्तिरचला भविष्यति सदाऽनघ। संकटं स्मरणेनैव मदीयेन विनश्यति ॥४८॥ भृगुर्मम विशेषेण भक्तोऽसौ शांतियोगधृक्। तस्यापि वचनं मिथ्या न करोमि कदाचन ॥४९॥ यद्यपि त्वं सर्वभक्षः पवित्रो भविता सदा। पूर्ववत् सर्वमान्यं त्वां करिष्यंति द्विजादयः ॥५०॥ सर्वभक्षे च ते दुःखं हरामि शृणु मे वचः। प्राप्तं शुभाशुभं तत्रामृतभुक्त्वं भविष्यसि ॥५१॥ सर्वभक्षणरूपा ये विकारा न भवंति ते। अमृताशी मया तत्र त्वं कृतोऽसि न संशयः ॥५२॥ एवमुक्त्वा गणाधीशोंऽतर्धानमगमत् स्वयम्। वह्निर्हर्षसमायुक्तः स्वगृहं प्रत्यपद्यत ॥५३॥ तदह्याद्दहनो दैत्य सर्वभक्षो बभूव ह। शुचिश्चामृतभुग् देवो योगशांतिधरः स्वयम् ॥५४॥ गाणपत्यस्वभावेनाभजत्तं गणनायकम्। गणेशभक्तसंगेषु निरतः सोऽसुरेश्वर ॥५५॥ एतदग्नेश्च माहात्म्यं यः शृणोति नरोत्तमः। पठेद्वा भविता तस्य कामोप्यत्यंतदुर्लभः ॥५६॥ ॥ ओमिति श्रीमद्दांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खंडे एकदंतचरिते अग्निमाहात्म्यं नाम चत्वारिंशोऽध्यायः ॥
॥ श्रीगणेशाय नमः ॥ गृत्समद उवाच। भृगोः पुत्रश्च योगीशं भृगुं नत्वा ययौ वनम्। तताप तप उग्रं वै प्रयागे स जले स्थितः ॥१॥ दशवर्षसहस्राणि गतानि तपतो मुनेः। तस्यैव तेजसा सर्वं व्याप्तं ब्रह्मांडमंडलम् ॥२॥ एकदा धीवरैस्तत्र जले जालैर्महामते। गृहीता मत्स्यकाद्याश्च दैवात् सोऽपि समागतः ॥३॥ दृष्ट्वा मुनिवरं सर्वे भयभीता ययुर्नृपम्। धीवरा नहुषं सर्वमूचुर्वृत्तांतमादरात् ॥४॥ भयभीतो नृपस्तत्र प्रधानैर्ब्राह्मणैर्वृतः। मुनिं ययौ महाभागं प्रणम्य स पुरःस्थितः ॥५॥ मत्स्या जलवियोगेन व्याकुला मरणोन्मुखाः। तान् स्वर्गे स्थापयामास सांसर्गिकसुभावतः ॥६॥ कृतांजलिपुटं दृष्ट्वा नहुषं मुनिसत्तमः। उवाच मोचय प्राज्ञ धृतं धीवरतोऽधुना ॥७॥ मदीयदेहमौल्येन धीवरांस्त्वं प्रसादय। श्रुत्वा तस्य वचः सर्वमूचे वै धीवरान्नृपः ॥८॥ शतं सौवर्णमुद्राणां गृहीत्वा मुच्यतां मुनिः। भवद्भिश्च