भारतकोश
संग्रह पर लौटें

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

महर्षि मुद्गल द्वारा

स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)

DevanagariSanskritpublished1,023 पृष्ठ

गणाध्यक्षो भक्तवत्सलभावतः ॥४५॥ गणेश उवाच। त्वया कृतमिदं स्तोत्रं मम प्रीतिविवर्धनम्। भविष्यति नृणां चैव शृण्वतां पठतां सदा ॥४६॥ यं यं चिंतयसे कामं तं तं दास्यामि शाश्वतम्। भक्तिभावेन संतुष्टो भृशं स्तोत्रेण संस्थितः ॥४७॥ मदीया भक्तिरचला भविष्यति सदाऽनघ। संकटं स्मरणेनैव मदीयेन विनश्यति ॥४८॥ भृगुर्मम विशेषेण भक्तोऽसौ शांतियोगधृक्। तस्यापि वचनं मिथ्या न करोमि कदाचन ॥४९॥ यद्यपि त्वं सर्वभक्षः पवित्रो भविता सदा। पूर्ववत् सर्वमान्यं त्वां करिष्यंति द्विजादयः ॥५०॥ सर्वभक्षे च ते दुःखं हरामि शृणु मे वचः। प्राप्तं शुभाशुभं तत्रामृतभुक्त्वं भविष्यसि ॥५१॥ सर्वभक्षणरूपा ये विकारा न भवंति ते। अमृताशी मया तत्र त्वं कृतोऽसि न संशयः ॥५२॥ एवमुक्त्वा गणाधीशोंऽतर्धानमगमत् स्वयम्। वह्निर्हर्षसमायुक्तः स्वगृहं प्रत्यपद्यत ॥५३॥ तदह्याद्दहनो दैत्य सर्वभक्षो बभूव ह। शुचिश्चामृतभुग् देवो योगशांतिधरः स्वयम् ॥५४॥ गाणपत्यस्वभावेनाभजत्तं गणनायकम्। गणेशभक्तसंगेषु निरतः सोऽसुरेश्वर ॥५५॥ एतदग्नेश्च माहात्म्यं यः शृणोति नरोत्तमः। पठेद्वा भविता तस्य कामोप्यत्यंतदुर्लभः ॥५६॥ ॥ ओमिति श्रीमद्दांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खंडे एकदंतचरिते अग्निमाहात्म्यं नाम चत्वारिंशोऽध्यायः ॥

॥ श्रीगणेशाय नमः ॥ गृत्समद उवाच। भृगोः पुत्रश्च योगीशं भृगुं नत्वा ययौ वनम्। तताप तप उग्रं वै प्रयागे स जले स्थितः ॥१॥ दशवर्षसहस्राणि गतानि तपतो मुनेः। तस्यैव तेजसा सर्वं व्याप्तं ब्रह्मांडमंडलम् ॥२॥ एकदा धीवरैस्तत्र जले जालैर्महामते। गृहीता मत्स्यकाद्याश्च दैवात् सोऽपि समागतः ॥३॥ दृष्ट्वा मुनिवरं सर्वे भयभीता ययुर्नृपम्। धीवरा नहुषं सर्वमूचुर्वृत्तांतमादरात् ॥४॥ भयभीतो नृपस्तत्र प्रधानैर्ब्राह्मणैर्वृतः। मुनिं ययौ महाभागं प्रणम्य स पुरःस्थितः ॥५॥ मत्स्या जलवियोगेन व्याकुला मरणोन्मुखाः। तान् स्वर्गे स्थापयामास सांसर्गिकसुभावतः ॥६॥ कृतांजलिपुटं दृष्ट्वा नहुषं मुनिसत्तमः। उवाच मोचय प्राज्ञ धृतं धीवरतोऽधुना ॥७॥ मदीयदेहमौल्येन धीवरांस्त्वं प्रसादय। श्रुत्वा तस्य वचः सर्वमूचे वै धीवरान्नृपः ॥८॥ शतं सौवर्णमुद्राणां गृहीत्वा मुच्यतां मुनिः। भवद्भिश्च

खं. २ अ. ४१ पान ८७ महाभागैस्ततस्तं मुनिरब्रवीत् ॥९॥ शतं सौवर्णमुद्राणां मौल्यं किं मे त्वया कृतम् । ततो राजा धनं लक्षं मौल्यं च कृतवान् मुनेः ॥१०॥ न योग्यं मुनिना तत्र कथितं स ततो नृपः । ग्राममेकं मुनेर्मौल्यं चकार भयसंयुतः ॥११॥ मुनिना तन्न योग्यं वै कृतं तत्र नृपः पुनः । नगरं देशसंयुक्तं मौल्यं स कृतवान् मुनेः ॥१२॥ तथाऽपि मुनिना मान्यं न कृतं तत्ततो नृपः । राज्यमर्धं ततौ मौल्यं धीवरान् दातुमुद्यतः ॥१३॥ मुनिना कथितं तत्र मम योग्यं न मूल्यकम् । ततो राज्यं स संपूर्णं मौल्यं तस्य चकार ह ॥१४॥ ततोऽपि मुनिना दैत्य न मान्यं तत्कृतं ततः । भयभीतो नृपोऽमात्यैः कर्तव्यं नाभ्यपद्यत ॥१५॥ अधुना कोपसंयुक्तश्च्यवनः शापयिष्यति । मां तत्र नैव संदेहो मदैवेन प्रचोदितः ॥१६॥ ततस्तं व्याकुलं दृष्ट्वा च्यवनो मुनिरब्रवीत् । ब्राह्मणैः सह राजेंद्र देहि मौल्यं विचार्य च ॥१७॥ ततस्तत्रायायौ योगी गाणपत्यो महायशाः । भरद्वाजः स तं दृष्ट्वा नहुषः प्रणनाम ह ॥१८॥ भरद्वाजेन वृत्तांतो ज्ञातः सर्वो ह्यशेषतः । उवाच नृपशार्दूलं चिंतां मा कुरु भूमिप ॥१९॥ ब्राह्मणानां गवां राजन् कुलमेकं द्विधा कृतम् । कर्मसंसिद्धये धात्रा पूज्यं च द्विविधं समम् ॥२०॥ हविष्यं गोभिरत्यंतं घृतं वै यज्ञसिद्धये । मंत्राश्च ब्राह्मणैस्तत्र धृतास्तन्न संशयः ॥२१॥ गां दत्वा धीवरेभ्यस्त्वं बंधहीनं मुनिं कुरु । एवमुक्त्वा भरद्वाजो ययौ स्वेच्छाचरो मुनिः ॥२२॥ तथा नहुषभूपेन कृतं दृष्ट्वा प्रहर्षितः । च्यवनो मुनिशार्दूल आशिषं विविधां ददौ ॥२३॥ तं नृपं मानयित्वा स ययौ वनमनुत्तमम् । सुच्छायं सुफलं रम्यं सुजलं मुनिसत्तमः ॥२४॥ तत्र स्थित्वा तपस्तेपे महोग्रं तेजसा युतः । निराहारेण संयुक्तो वर्षाणां च सहस्त्रकम् ॥२५॥ एतस्मिन्नंतरे तत्र शर्यातिश्च नृपो ययौ । मृगयाभिरतो दैवात् मुदा युक्तस्तदाऽऽश्रमे ॥२६॥ तत्र तस्य शरीरे च वल्मीकस्तृणसंयुतः । जातस्तदपि घोरं वै तताप स तपो महत् ॥२७॥ नरान् सर्वांन्निवार्यैव संस्थितस्तत्र भूमिपः । मा कुरुध्वं प्रवेशं सच्यवनाश्रममंडले ॥ २८ ॥ एतस्मिन्नंतरे तत्र सुकन्या ससखी ययौ । वनं क्रीडार्थमुग्रेण तपसा संयुतं मुनेः ॥ २९ ॥ भ्रमंत्या चालिभिस्तत्र दृष्टो वल्मीक उत्तमः । तत्र ज्योतिर्मये नेत्रे दृष्ट्वा सा विस्मिताऽभवत् ॥३०॥ अज्ञानेन तथा मुग्धभावाद्धै कंटकेन च । कन्यया चक्षुषी भिन्ने ज्योतीरूपे महामुनेः ॥३१॥ ताभ्यां रक्तं प्रसुस्राव दृष्ट्वा सा भयसंकुला । स्वनिवासं ययौ शीघ्रं सखीभिरसुरेश्वर ॥३२॥ ततः पुरीषमूत्रे वै सैन्यानां बंधमागते । भूपस्य तेन शर्यातिर्भयभीतो बभूव ह ॥३३॥ पप्रच्छ सर्वलोकान् स मुनेराश्रममंडले । छिद्रं केन कृतं घोरं

येन संकुपितो मुनिः ॥३४॥ ततः सा राजकन्या तं पितरं प्राह लज्जिता । क्षुभिता भयभीता वै सुकन्या रचितांजलिः ॥३५॥ वने क्रीडनभावेन वल्मीके कंटकेन च । विद्धे मया महाराज ज्योतिषी नात्र संशयः ॥३६॥ ततो राजा वनं गत्वा वल्मीके संस्थितं मुनिम् । स्तुत्वा प्रसादयामास विनयेन समन्वितः ॥३७॥ ततस्तं राजशार्दूलमुवाच भृगुनंदनः । अज्ञानेन कृतं कर्म तव पुत्र्या नृपालक ॥३८॥ अतो मदीयसेवार्थं कन्यां देहि महामते । तदा सुखयुतं सर्वं भविष्यति न संशयः ॥३९॥ ततो राजा स्वयं भीतो ददौ कन्यां सुलोचनम् । तस्मै ससैन्यमादाय स्वपुरं प्रययौ मुदा ॥४०॥ सुकन्या राजपुत्री सा पतिं प्राप्य महामुनिम् । च्यवनं सेवने सक्ता त्यक्त्वा देहभ्रमं बभौ ॥४१॥ ततः कदाचित्तत्रैवाऽश्विनौ तौ भिषजां वरौ । आगतौ मुनिशार्दूलं प्रणम्य च पुरः स्थितौ ॥४२॥ मुनिः प्रोवाच तौ तत्र मां च यौवनशालिनम् । कुरुतं भिषजां श्रेष्ठौ सनेत्रं परमाद्भुतम् ॥ ४३ ॥ ततस्तं मुनिशार्दूलमूचतुश्चाश्विनौ वचः । देवैः साकं यज्ञभाजौ कुर्वावां तपसो बलात् ॥४४॥ तथेति मुनिना प्रोक्तं सभार्यं मुनिसत्तमम् । गृहीत्वा चाश्विनौ कुंडं ययतू रूपदं परम् ॥४५॥ तत्र स्नानं त्रयः कृत्वा पुनस्ते निःसृता बहिः । रूपलावण्यसंयुक्ताः कामदेवोपमा बभुः ॥४६॥ एकरूपधरान् दृष्ट्वा सुकन्या विस्मिताऽभवत् । नमोश्विभ्यां च मे भर्ता दातव्यो देवसत्तमौ ॥४७॥ तस्याः सतीस्वभावेन संतुष्टौ ददतुर्मुनिम् । च्यवनं तौ गतौ स्थानं मुनिश्च स्वस्थलं ययौ ॥४८॥ कदाचिन्नृपवर्यं तं शर्यातिं स्वाश्रमागतम् । सुकन्या तं पुरो दृष्ट्वा पितरं सस्वजे सती ॥४९॥ दृष्ट्वा मुनिवरं राजा यौवनस्थं महाद्युतिम् । पप्रच्छ तनयां वृत्तं तया सर्वं प्रकाशितम् ॥५०॥ ततस्तं प्रणनामाथ नृपस्तेनाऽपि मानितः । यज्ञार्थं सहितं पुत्र्या गृहीत्वा च्यवनं ययौ ॥५१॥ शर्यातिर्यज्ञसंभारांश्चक्रे वै हर्षितो भृशम् । आरेभे मुनिभिर्यज्ञं सर्वसंपद्विराजितः ॥५२॥ तत्र देवा मुदा सर्वे ययुरप्सरसां गणाः । मुनयश्च महाभागा नानादिग्भ्यः समाययुः ॥५३॥ वर्णाः सर्वे तथा तत्र मानवानां समाययुः । द्रष्टुं प्रह्लादयज्ञं तमानंदेन समन्विताः ॥ ५४ ॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदंतचरिते च्यवनतपोवर्णनं नामैकचत्वारिंशोऽध्यायः ॥

शीर्षक (Header): खं. २ अ. ४२ | पान ८९


॥ श्रीगणेशाय नमः ॥ गृत्समद उवाच । च्यवनेन तथा यज्ञेऽश्विनौ तौ भागसंयुतौ । कृत्वा चावाहितौ तत्र तत इंद्रोऽब्रवीद्वचः ॥१॥ इंद्र उवाच । अश्विनौ भिषजौ प्रोक्तौ मुने तस्मान्न योग्यता । यज्ञभागे तयोः स्वामिन् माहेयति वदाम्यहम् ॥२॥ अभवन् मुनि- मुख्यो सौ त्यक्त्वेंद्रवचनं ततः । समुद्युक्तश्च तौ तत्राव्हयितुं त्वसुरेश्वर ॥३॥ तत इंद्रोऽब्रवीद्विप्रं च्यवनं क्रोधसंयुतः । वज्रेणैव हनिष्यामि यद्यायातौ मुनेऽश्विनौ ॥४॥ च्यवनेन सहायेनाश्विनौ तत्रागतौ मखे । अश्विनौ तौ तदा दृष्ट्वा वज्रं दध्रे पुरंदरः ॥५॥ च्यवनेन सवज्रस्तु तस्य प्रस्तंभितो भुजः । तपसा स्वप्रभावेण मदं संससृजे मुनिः ॥६॥ ग्रसितुं स ययाविंदुं च्यवनेन प्रचोदितः । विस्मिता मुनयो देवा दृष्ट्वा वीर्यं महामुनेः ॥७॥ विकरालमुखं वीरं लेलिहानं नभस्तलम् । अंजनाद्रिसमं श्यामं ददृशुस्तं मदं मखे ॥८॥ भयभीतास्ततो देवसेना मुनिगणा जनाः । अन्ये प्रदुद्रुवुस्तत्र त्यक्त्वा यज्ञं दिशो दश ॥९॥ मदस्तु ग्रसितुं तत्रेंद्रसांनिध्यं समाययौ । तं दृष्ट्वा भयभीतः स च्यवनं शरणं ययौ ॥१०॥ इंद्र उवाच । अश्विनौ भागसंयुक्तौ मया मान्यौ कृतौ मुने । मदान् मां रक्ष विप्रेश ग्रसिष्यति न संशयः ॥११॥ ततस्तेनाभयं दत्तमिंद्राय शरणार्थिने । मदं च तपसा स्वेन वारयामास भार्गवः ॥१२॥ समाप्य च्यवनो यज्ञं ययौ पितृगृहे मुनिः । प्रणाम सभार्थ्यस्तं भृगुं योगविदांवरम् ॥१३॥ तेन संमानितः पुत्रस्तपःसिद्धश्च संनिधौ । च्यवनश्च कियत्कालमवसत् सेवनोत्सुकः ॥१४॥ कदाचिच्च्यवनं विप्रं भृगुः परमतत्त्ववित् । उवाच ज्ञानसिद्ध्यर्थं स्वसुतं कृपया युतः ॥१५॥ भृगुरुवाच । शृणु पुत्र प्रवक्ष्यामि किं कृतं दुःखदं त्वया । मदः स्वतपसा सृष्टो देवेंद्रस्य भयावहः ॥१६॥ तपोबलमदेनैवं कुरुषे कर्म तापस । मदयुक्तोसि पुत्र त्वं त्यज तं योगसेवया ॥१७॥ शृणु वृत्तांतमादौ त्वं मदीयं कथयामि ते । मया तन्मदयुक्तेन तपोवीर्येण यत्कृतम् ॥१८॥ सततं तपसा युक्तो प्रतपामि तपो महत् । मध्ये मुनीनां सर्वेषां श्रेष्ठोऽहं तपसाऽभवम् ॥१९॥ एकदा मुनयः सर्वे मिलिता गौतमीतटे । सिंहस्थे च गुरौ पुत्र तत्र वादो भवनमहान् ॥२०॥ पितामहं परं श्रेष्ठं जानामि सगुणं सुत । ब्रह्मरूपं महात्मानं सर्वस्रष्टारमंजसा ॥२१॥ सगुणं केचिदूचुश्च भिन्नदेहधरं शिवम् । केचिद्विष्णुं तथा ब्रह्मन् केचिद्ब्रह्माणमंजसा ॥२२॥ तत्र सर्वैरहं पुत्र प्रेषितः कार्यसिद्धये । परीक्षार्थं तपःसिद्ध- स्त्रिष्वेवं निश्चयार्थिभिः ॥२३॥ अहं पितामहं श्रेष्ठं जानाम्यत्र न संशयः । तं ययौ पितरं सिद्धं परीक्षार्थं महामुने ॥२४॥ तमप्रणम्य विश्वेशं समासीनो महासने । मां दृष्ट्वा दुर्विनीतं स कुपितश्च पितामहः ॥२५॥ उवाच मां सुरश्रेष्ठः

खं. २ अ. ४२ पान ९० किं मदेन समन्वितः । समागतोऽसि दुर्बुद्धे गच्छ त्वं स्वगृहेऽधुना ॥२६॥ ततोऽवदं सुता चाऽऽदौ पत्नीभावेन संधृता । त्वया तत् किं मया तात दुर्बुद्धित्वं कृतं वद ॥२७॥ तातस्तु क्षुभितोऽत्यंतं स च मां शप्तुमुद्यतः । तातं तं दंडवद्भूमौ नतोऽहं भक्तिसंयुतः ॥२८॥ अवदं तं महाभागं मां क्षमस्व महागसम् । परीक्षार्थं महाविप्रैः प्रेषितोऽहं पितामह ॥२९॥ क्षमस्वेदं कृतं कर्म त्वं श्रेष्ठः सर्वभावतः । स्तुत्वा तं विविधैर्वाक्यैस्ततः कैलासमागमम् ॥३०॥ दृष्ट्वा मां तापसं पुत्र भ्रातरं सहसा शिवः । आलिं- गितुं समायातो निजभक्तसुखप्रदः ॥३१॥ अवदन् महदत्यंतं दुर्वचस्तं परीक्षितुम् । मा मां स्पृश पिशाचेश वर्णाश्रमविवर्जित ॥३२॥ नरमस्तकमात्रादिचिह्नयुक्तोऽशुचिः सदा । नाम्ना शिवोऽशिवस्त्वं वै ज्ञातं ते चेष्टितं मया ॥३३॥ इति मद्गिरमाकर्ण्य क्रोधयुक्तः सदाशिवः । तृतीयं नेत्रमुद्घाट्य ज्वालितुं चोद्यतोऽभवत् ॥३४॥ ततस्तं स्तुतवान् पुत्र प्रणतो दंडवत् क्षितौ । परीक्षार्थमिदं कर्म कृतं त्वं क्षंतुमर्हसि ॥३५॥ ब्राह्मणं मां विदित्वा स क्रोधं संहृत्य शंकरः । संस्थितस्तत्र कैलासे वैकुंठे गतवानहम् ॥३६॥ लक्ष्म्या सह समासीनं विष्णुं दृष्ट्वा प्रहर्षितः । सोऽपि लक्ष्म्या नतः सद्यः पादयोर्मम पुत्रक ॥३७॥ मया निर्भत्सितोऽत्यंतं पादं मा स्पृश दुर्मते । स्त्रीवेषधारी जातोऽसि त्वं तेन मलिनो मतः ॥३८॥ मदीया स्त्री त्वया दुष्ट वर्धिता गर्हितं कृतम् । इत्याद्यैर्विविधैर्वाक्यैर्मयाऽसौ निंदितो भृशम् ॥३९॥ ततो विष्णुः स्वयं पुत्र कृतांजलिपुटः स्थितः । मया क्रोधेन पादेन हृदि संताडितस्तदा ॥४०॥ तथाऽपि न चुकोपाऽसौ पादं धृत्वा मदीयकम् । ताडनश्रमयुक्तं संवाहितं तं चकार ह ॥४१॥ तदैव हृदये तेन ब्राह्मणप्रियकाम्यया । पुत्र लाञ्छनमेवेदं भृगुपादांकितं धृतम् ॥४२॥ अहं च निश्चयं कृत्वा गतो ब्राह्मणसंसदि । कथितः सर्ववृत्तांतः श्रेष्ठो नारायणः स्मृतः ॥४३॥ क्षमा यत्र भवेद्विप्रास्तत्र सर्वं प्रतिष्ठितम् । क्रमेण प्राप्यते ब्रह्म क्षमायुक्तेन चेतसा ॥४४॥ ततोऽहं वैष्णवो जातो यदा विष्णुपरायणः । कदाचिद्दक्षयज्ञे वै विष्णुर्मुख्यो बभूव ह ॥४५॥ शंभुं त्यक्त्वा हरिं मुख्यं दृष्ट्वाऽहं यज्ञकर्मणि । मुख्यत्वमास्थितः पुत्र यज्ञकर्मप्रवर्तकः ॥४६॥ पार्वती तत्र दग्धातः शंभुः कोपसमन्वितः । मृतां सतीं स विज्ञाय्याययौ गणसमावृतः ॥४७॥ विष्णुं निर्जित्य दक्षं तं हत्वा यज्ञः प्रणाशितः । मदीयं चिबुकं तत्र वीरभद्रेण पातितम् ॥४८॥ ब्रह्मणा सांत्वितः शंभुर्दक्षं संजीव्य तं मखम् । चकार स्वयमेवेशः संपूर्ण भागसंयुतः ॥४९॥ आजं च चिबुकं मे च कृतं तेन महात्मना । नंदिना शापितस्तत्र वारुणिर्ह्यभवं किल ॥५०॥ ततोऽहं मानसे पुत्र विस्मितः शंकरं स्मरन् । कालरूपी स्वयं शंभुः कालाधीनमिदं जगत् ॥५१॥ ईश्वरोऽयं शिवः प्रोक्तः

[Header] खं. २ अ. ४२ | पान ९१


परं तस्मान्न विद्यते। विचार्य शंकरं चित्ते धृत्वाऽहं भजने रतः ॥५२॥ शैवो जातोऽहमत्यंतं भस्मांगालेपने रतः। नानापाशु- पतैर्मार्गैरभजं शंकरं सदा ॥५३॥ एकदा यज्ञमारेभे क्षेत्रे नाम्ना महाबले। शैवे देवगणैर्ब्रह्मा मुनिभिश्च समन्वितः ॥५४॥ तत्रास्मृतिर्गणेशस्य जाता तेषां महामखे। उषःकाले ततो ज्येष्ठां त्यक्त्वा यज्ञं वितेनिरे ॥५५॥ गायत्रीं मुख्यभावां वै प्राप्तां वीक्ष्य महासती। सावित्री कोपसंयुक्ता शशाप सकलाम्रान् ॥५६॥ जलरूपा भवंतो वै भविष्यंति न संशयः। ज्येष्ठां संत्यज्य यज्ञोऽयमारब्धस्तेन भोः सुराः ॥५७॥ जलरूपास्ततो देवाः शंभुमुख्या बभूविरे। देवस्त्रीभिर्गणेशस्य तपः कृत्वा विमोचिताः ॥५८॥ पुनश्च देवरूपास्ते जातास्तस्य प्रसादतः। गणेशस्य न संदेहोऽंशरूपेण जले स्थितः ॥५९॥ तदा मया च विज्ञातो गणेशो विघ्ननायकः। सर्वसत्ताधरः पुत्र स्वभावाच्च निरंकुशः ॥६०॥ नामतो गणपस्तत्र स्वयमेव मखो महान्। ध्वंसितोऽनेन देवाश्च जलरूपाः कृताः सुत ॥६१॥ पुनश्च भक्तिभावेन संतुष्टो यज्ञमाययौ। देवरूपांश्चकाराऽसौ देवानेवाऽकरोन् मखम् ॥६२॥ सर्वत्र संस्थितोऽयं वै तेनेदृक् च चकार ह। इति मत्वा गणेशस्य भजने तत्परोऽभवम् ॥६३॥ ततः कदाचिद्व्यासस्य संगतिर्मे महामते। जाता भाग्यवशेनैव मया पृष्टो महामुनिः ॥६४॥ व्यास त्वं वेदशाखानां मुने कर्ता न संशयः। पुराणानां विभागस्य भारतस्य महामते ॥६५॥ वेदेषु च पुराणेषु किं सारं सर्वसंमतम्। वद मां त्वं दयासिंधो येन शांतिं लभेन्नरः ॥६६॥ अवदत् स महाभागो गाणेशं पदमुत्तमम्। पुराणं गणनाथस्य श्रावयामास मां सुत ॥६७॥ ततोऽहं योगमार्गेण साधयित्वा गणेश्वरम्। मदादिं सर्वमुत्सृज्य शांतिं प्राप्तो न संशयः ॥६८॥ मदेनाऽहं परिभ्रष्टः परीक्षां कर्तुमुद्यतः। सर्वज्ञोऽहं परीक्षायां समर्थः शृणु पुत्रक ॥६९॥ अतस्त्वं भज विघ्नेशं मम पुत्र कृताज्ञया। शांतिं प्राप्स्यसि सर्वत्र गाणपत्यो भविष्यसि ॥७०॥ सर्वत्र व्यापकत्वेन मदोयं संस्थितोऽभवत्। त्वया सृष्टोऽधुना पापी पीडयिष्यति निश्चितम् ॥७१॥ तपसा मदयुक्तेन किं कृतं पुत्र दुःखदम्। अधुना गणपं भक्त्या भज योगस्य सेवया ॥७२॥ इत्युक्त्वा विररामाऽथ भृगुः सर्वार्थकोविदः। शांतिं योगप्रदः साक्षाद्गाणपत्यो महायशाः ॥७३॥ इदं भृगोश्चरित्रं यः शृणुयाद्वा पठेन्नरः। स लभेदीप्सितं सर्वं प्रह्लादाऽत्र न संशयः ॥७४॥

॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदंतचरिते भृगुचरितं नाम द्विचत्वारिंशोऽध्यायः ॥

पान ९२

॥ श्रीगणेशाय नमः ॥ गृत्समद उवाच । भृगोर्वचनमाकर्ण्य लज्जितश्च्यवनोऽभवत् । तं प्रणम्य महाभक्त्या प्रपच्छ स कृतांजलिः ॥१॥ च्यवन उवाच । क्षमस्व मेऽपराधं च यत्कृतं सर्जनं मया । मदस्य भागहीनौ तावश्विनौ भागसंयुक्तौ ॥२॥ अधुना गणनाथस्य ज्ञानं मे वद शांतिदम् । मदादिकं समुत्सृज्य येन शांतो भवाम्यहम् ॥३॥ गृत्समद उवाच । तदीयं वाक्यमाकर्ण्य भृगुस्तं प्राह सिद्धिदम् । योगं पूर्णं गणेशाख्यं तं शृणुष्व वदाम्यहम् ॥ ४ ॥ भृगुरुवाच । गणेशो ब्रह्मरूपोऽयं पूर्णशांतिमयः स्मृतः । भेदाभेदादियोगेन गणेशः प्राप्यते नरैः ॥५॥ मायामयमिदं सर्वं भेदाभेदमयं सुत । त्यक्त्वा गणेश्वरत्वेन न चित्तं संभवेत् कदा ॥६॥ तदा चित्तस्य वृत्तीनां पंचानां नाश एव च । जायते नाऽत्र संदेहो योगशांतिमयो भवेत् ॥७॥ अतस्त्वं गणराजं तं भज योगस्य सेवया । मयोक्तेन विधानेन शांतियुक्तो भविष्यसि ॥८॥ इत्युक्त्वा विररामाऽथ भृगुः शांतिसम- न्वितः । तं प्रणम्य ययौ सोऽपि च्यवनः परामाहृतः ॥९॥ वने गत्वा तपस्तप्तं तेन योगप्रदायकम् । क्रमेण चित्तभूमीनां शोधनं च कृतं बलात् ॥१०॥ शमश्चैव दमस्तेन सेवितौ भूमिनाशनात् । सर्वं सुसुलभं प्राप्तं ततो ब्रह्मविचारतः ॥११॥ शांतियोगं समासाद्य तदाकारेण संस्थितः । गणेशमभजन्नित्यं गाणपत्यस्वभावतः ॥१२॥ तं गणेशो ययौ दैत्य मूषकोपरि संस्थितः । गजाननश्चतुर्बाहुः प्रतापी च महोदरः ॥१३॥ तं दृष्ट्वा दंडवद्भूभौ पतितश्च्यवनो मुनिः । पूजयित्वा विधानेन ततः स्तोतुं प्रचक्रमे ॥१४॥ हेरंबस्योपनिषदा संस्तुतो गणनायकः । ततः प्रसन्नतां यातः प्रददौ वरमुत्तमम् ॥ १५ ॥ गणेश उवाच । यद्यदिच्छसि विप्रेन्द्र तत्तत्ते सफलं भवेत् । योगशांतिस्वभावेन सदा तिष्ठसि मानद ॥१६॥ भक्तिर्मदीयपादे वै दृढा तव भविष्यति । स्मृतोऽहं पुरतो विप्र तुभ्यं दास्यामि दर्शनम् ॥१७॥ एवमुक्त्वा गणाधीशोंतर्धानमगमत् प्रभुः । तेनाऽपि स्थापिता मूर्तिर्गणेशस्य चतुर्भुजा ॥१८॥ च्यवनाश्रमवासी स तद्दहात् गणपोऽभवत् । दर्शनात् स्मरणात् सद्यो मुक्ति- र्मुक्तिश्च जायते ॥१९॥ एतत्ते कथितं पुण्यं च्यवनस्य महात्मनः । आख्यानं सर्वदोषघ्नं नानासिद्धिप्रदम् ॥२०॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदंतचरिते च्यवनमाहात्म्यं नाम त्रिचत्वारिंशोऽध्यायः ॥

खं. २ अ. ४४ पान ९३ ॥ श्रीगणेशाय नमः ॥ प्रह्लाद उवाच । श्रुतं च्यवनमाहात्म्यं विश्रांतं मे च मानसम् । मदस्य चरितं ब्रूहि किं चकार महामुने ॥१॥ मुद्गल उवाच । एवं पृष्टो गृत्समदो महायोगी प्रतापवान् । गाणपत्यवरिष्ठश्चोवाच तच्छृणु सादरम् ॥२॥ गृत्समद उवाच । शृणु प्रह्लाद माहात्म्यं मदस्य क्रमसंयुतम् । च्यवनेन स संसृष्टो मदः पातालमाययौ ॥३॥ विचार्य बलवान् दैत्यैर्ययौ शुक्रं महामुनिम् । तं प्रणम्य स्थितो दूरं बद्धांजलिपुटो मदः ॥४॥ विनयेन समायुक्तं मदं दृष्ट्वा स भार्गवः । काव्यस्तं मानयामास कुतः कोऽसि वदस्व माम् ॥५॥ ततः स हर्षितो भूत्वा जगाद मुनिसत्तमम् । च्यवनाच्च समुत्पन्नं भार्गवं विद्धि मां मुने ॥६॥ तव भ्रातृसुतोऽहं वै शरणं त्वामुपागतः । शिष्यं मां कुरु योगीश येनाऽहं मानितो भुवि ॥७॥ ब्रह्मांडस्य महद्राज्यं कर्तुमिच्छामि भार्गव । मदोऽहं मदरूपेण जेष्यामि त्वत्प्रसादतः ॥८॥ इति तस्य वचः श्रुत्वा नातिहृष्टेन चेतसा । मदं तं शिष्यभावेन जग्राह मुनिसत्तमः ॥९॥ शक्तिमंत्रं ददौ तस्मै कविः सर्वार्थकोविदः । एकाक्षरविधानेन सहितं भार्गवाग्रणीः ॥१०॥ स ययौ तं नमस्कृत्य वनं तपसि संस्थितः । निराहारयुतो दैत्यः शक्तिध्यानपरायणः ॥११॥ तस्य देहे समुत्पन्नो वल्मीको बहुकालतः । लतातरुसमायुक्तस्तथाऽपि तपसि स्थितः ॥१२॥ अस्थिमात्रावशिष्टोऽभू- दजपन् मनुमादरात् । ध्यानं सांगं चकाराऽसौ स्थिरचित्तेन तापसः ॥१३॥ दिव्यवर्षसहस्राणि पंच वै तपतः किल । गतानि दैत्यराजेंद्रश्चातुरं सर्व तदाऽभवत् ॥१४॥ ततः शक्तिर्ययौ तस्याऽश्रमे भक्तिप्रभाविता । सिंहारूढा महाभागा शक्तिभिः संवृता परा ॥१५॥ पुरुषाकृतिसंस्था तु तदधीनाश्चरंति ताः । पुरतो भक्तिसंयुक्ताः प्रकृतीनां महाबलाः ॥१६॥ बोधयामास सा शक्तिरादिमाया मदं ततः । स्वभक्तं तापसं नैव स बुबोध मदासुरः ॥१७॥ ततस्तया जलेनैव मार्जितांगो महामदः । सावधानोऽभवत्तत्र दृष्ट्वा शक्तिं समुत्थितः ॥१८॥ तां प्रणम्य महाभक्त्याऽपूजयन् भक्तिसंयुतः । कृत्वा करपुटं देवीं तुष्टाव च यथामति ॥१९॥ मद उवाच । नमामि त्वां महामाये सर्वशक्तिसमन्विताम् । त्वदाधारमिदं सर्वं शक्तियुक्तं प्रवर्तते ॥२०॥ अनादिमप्रमेयां त्वां न जानंति महर्षयः । वेदांतेवेद्यरूपां वै नमामि परमेश्वरीम् ॥२१॥ नानाभेदकरीं देवीं नानाभेदविवर्जिताम् । भेदाभेदमयीं त्वाऽहं नमामि सकलेश्वरीम् ॥२२॥ पार्वतीं दक्षपुत्रीं च हिमाचलसुतां तथा । समुद्रतनयां लक्ष्मीं सावित्रीं त्वां नमाम्यहम् ॥२३॥ त्वां स्वाहां त्वां स्वधां चैव वषट्कारात्मिकां शिवाम् । बुद्धिरूपां देवमयीं ज्ञानरूपां नमाम्यहम् ॥२४॥ सिद्धिदां सर्वकार्येषु सिद्धिरूपां तपस्विनीम् । योगिनीं योगदात्रीं वै योगेशीं

खं. २ अ. ४४ | पान ९४ त्वां नमाम्यहम् ॥२५॥ त्वां स्तोतुं न समर्था ये मुनयो वेदवादिनः । देवाः स्कंदश्च शेषश्च तत्राऽहं स्तौमि किं पराम् ॥२६॥ धन्यौ मे पितरौ ज्ञानं तपो विद्यादिकं च यत् । यत्तवांघ्रियुगं दृष्टं सर्वदुःखविमोचनम् ॥२७॥ इत्युक्त्वा संस्थितस्तूष्णीं भावेन स मदासुरः । तमुवाच महाशक्तिर्भक्तिभावेन यंत्रिता ॥२८॥ शक्तिरुवाच । त्वया कृतमिदं स्तोत्रं मम प्रीतिविवर्धनम् । भविष्यति महाभाग सर्वकामफलप्रदम् ॥२९॥ धर्मार्थकाममोक्षाणां साधनं प्रभविष्यति । पठतां शृण्वतां सर्वं सुखदं च महासुर ॥३०॥ वरान् वरय दास्यामि त्वया स्तोत्रेण तोषिता । तपसोग्रेण दैत्येंद्र दुर्लभान् मनसि स्थितान् ॥३१॥ गृत्समद उवाच । देव्या वचनमाकर्ण्य हर्षितः स मदासुरः । तां प्रणम्य जगादाऽथ वरान् परसुदुर्लभान् ॥३२॥ मदासुर उवाच । यदि देवि प्रसन्ना त्वं यदि देया वराः पराः । तर्हि मे मरणं कुत्र न भवेत्त्वं तथा कुरु ॥३३॥ देहि मे सकलं राज्यं त्रैलोक्यस्य जगन्मयि । यद्यदिच्छामि तत्तद्वै प्रसिद्ध्यतु सदाशिवे ॥३४॥ त्वं च प्रकृतिरूपा वै त्वत्तः सर्वं समुद्भवम् । पंचधा तन्ममाधीनं जननि त्वं सदा कुरु ॥३५॥ ततस्तं जगदंबा सोवाच विस्मितमानसा । यदुत्पन्नं महादैत्य तस्मात्ते मरणं न हि ॥३६॥ पंचधा यद्विभक्तं तत्तवाधीनं भविष्यति । यद्यदिच्छसि तत्तद्वै सफलं सर्वदा भवेत् ॥३७॥ आरोग्यमचलं राज्यं ब्रह्मांडस्य भविष्यति । न समस्ते च दैत्येंद्र युद्धे कश्चिद्भवेदिह ॥३८॥ इत्युक्त्वांतर्दधे देवी जगन्माताऽसुरेश्वर । मदश्च हर्षितोऽत्यंतं स्वगृहं प्रत्यपद्यत ॥३९॥ प्रमादासुरकन्यां वै सालसां रूपशालिनीम् । उपयेमे विधानेन दैत्यैः संमानितो भृशम् ॥४०॥ विलासदं ततस्तेन नगरं वासितं बभौ । तत्राययुश्च वासार्थं दिग्भ्यो दैत्या महासुराः ॥४१॥ अमात्यास्तस्य चत्वारः संजाता लोकविश्रुताः । बाणस्त्रिपुरनामा वै तारकः शंखसंज्ञकः ॥४२॥ दैत्यैस्तत्र समानीतः कविः परमयोगवित् । ब्राह्मणैः सह तं राज्ये सिषेच स मदासुरम् ॥४३॥ दैत्यानां राक्षसानां चासुराणां पतिरादरात् । जातो मदासुरस्तत्र हर्षिता दैत्यपा बभुः ॥४४॥ पुत्रास्त्रयः समुत्पन्नाः सालसायां मदासुरत् । विलासी लोलुपश्चैव धनप्रिय इति स्मृताः ॥४५॥ एवं राज्यं चकाराऽसौ दैत्यानामसुरेश्वरः । गर्वेण तेन वा को वै न दग्धे बलसंयुतः ॥४६॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदंतचरिते मदासुरस्य राज्याभिषेको नाम चतुश्चत्वारिंशोऽध्यायः ॥

खं. २ अ. ४५ पान ९५


॥ श्रीगणेशाय नमः ॥ गृत्समद उवाच । ततः कदाचिद्दैत्येंद्रैर्बोधितोऽभून् मदासुरः । विजयाय समुद्युक्तस्त्रैलोक्यस्य मदान्वितः ॥१॥ स शुक्रमुपसंगम्य तं प्रणम्य विशेषतः । संगृह्य मुनिमुख्यं वै विजयायाऽकरोन् मतिम् ॥२॥ नानादिग्भ्यः समायाता असुरा दैत्यपास्ततः । संनद्धास्त्वरमाणाश्च राक्षसाः प्रययुर्मदम् ॥३॥ चतुरंगबलैर्युक्तः संख्यातीतैर्मदासुरः । निर्ययौ दिग्विजयर्थं स संस्तुतो बंदिभिर्नृपः ॥४॥ दैत्याः केऽपि महाघोरा निःसृतास्तत्पुरो बभुः । मेरुमंदरसंकाशा यमाय भयदायकाः ॥५॥ नानास्त्रास्त्रसंयुक्ताः कवचादिसमावृताः । नानावाहनगास्ते वै कंपयंतो वसुंधराम् ॥६॥ केचित्पाषाण- हस्ताश्च केचिद् वृक्षधरास्तथा । पर्वतस्य धराः केचिन् महाबलपराक्रमाः ॥७॥ नानाभयंकराकारा बभुः सैन्ये समंततः । तदा संशयिताः सर्वे ब्रह्मांड लोकासंकुले ॥८॥ पृथिवीजयने सक्ता दैत्याः परमदारुणाः । आदौ तत्रासुरेशानमदासुर- सुचोदिताः ॥९॥ केचित् कृत्वा मृता युद्धं केचित्तान् शरणं ययुः । राजानो भयसंयुक्ताः केचिच्च्यवनमाश्रिताः ॥१०॥ प्रलयं मेनिरे लोका भूमिस्थाः सर्वशस्तदा । दैत्या भूमंडलं जित्वाऽभवंस्ते हर्षसंयुताः ॥११॥ सप्तद्वीपवतीं पृथिवीं जित्वा दैत्या महासुराः । देवानां जयने बुद्धिं चक्रुः परमदारुणाः ॥१२॥ वायुवेगसमाः सर्वे गताः स्वर्गं क्षणार्धतः । वनानि ते बभंजुश्च देवोद्यानानि दैत्यप ॥१३॥ देवैः संज्ञापितस्तत्र सुरेंद्रः क्रोधसंयुतः । युद्धाय शस्त्रसंयुक्तैर्देवैर्वै तत्परोऽभवत् ॥१४॥ बृहस्पतिं समागम्य प्रणनाम सुरेश्वरः । सुरेश्वरो द्विजेंद्रेण मानितो भक्तिसंयुक्तः ॥१५॥ तत इंद्रं जगादाऽसौ महाकांतिर्बृहस्पतिः । शृणु देवेंद्र वाक्यं मे कालकर्मयुतं महत् ॥१६॥ शक्तेः स वरदानेन दुर्जयः स मदासुरः । अतः सर्व परित्यज्य पलायध्वं सुरेश्वराः ॥१७॥ एवमुक्ते च जीवेन पलायंत च देवताः । बृहस्पतिसमायुक्तास्त्यक्त्वा स्वर्गादिकं भयात् ॥१८॥ ततो मदासुरो ज्ञात्वा सर्वं देवविचेष्टितम् । दैत्यैर्युक्तः सुसंहृष्ट आययावमरावतीम् ॥१९॥ तत्रेंद्रासनगो भूत्वा रराज स मदासुरः । सेव्यमानोऽप्सरोभिश्च गंधर्वैर्गानतत्परैः ॥२०॥ विविधैर्दिव्यभोगैः स सेव्यमानोऽमरैस्तथा । बलदर्पसमायुक्तो दैत्यैर्नानाविधैर्बभौ ॥२१॥ देवानां स पदेष्वेव स्थापयामास दैत्यपान् । तारकाद्या महावीर्याः संस्थिता बुभुजुः सुखम् ॥२२॥ ततस्तैः स विचार्यैव ययौ ब्रह्मपदं महत् । विधाता स्थानमुत्सृज्य कैलासं तद्भयाद्ययौ ॥२३॥ सत्यलोके सुराः सर्वे बभ्रमुर्यत्र तत्र वै । नानाभोगयुता दुष्टा रेजिरे मदसंयुताः ॥२४॥ विमानैर्वाह्यमानास्ते मनोवेगैः सुखप्रदैः । कामगैश्च महादैत्या मेनिरे कृतकृत्यताम्॥२५॥ मदासुरस्तत्र राजा ब्रह्मासनसमाश्रितः । मुदं लेभेऽसुरेशानैः संवृतः कालभीतिदैः ॥२६॥

ततस्तैः संवृतो दैत्यो ययौ वैकुंठमादरात् । ज्ञात्वाऽऽगतं महाक्रूरं पलायत रमापतिः ॥२७॥ सोऽपि कैलासमगमद्विष्णुः स्वैः पार्षदैर्वृतः । मदासुरो महादुष्टो वैकुंठे संस्थितोऽभवत् ॥२८॥ नारायणासने संस्थो दैत्यराजैर्महाबलैः । संवृतः शुशुभेऽतीव नानाभोगसमन्वितः ॥२९॥ सुखं चानुपमं तत्र वैकुंठे विष्णुना कृतम् । तदेव बुभुजे सोऽपि दैत्यैर्दुष्टैः समन्वितः ॥३०॥ विमानानि विचित्राणि देवोद्यानानि सर्वशः । कल्पवृक्षयुतान्येते दैत्यपाः समभुंजत ॥३१॥ ततस्तैः सहितो वीरः प्रतापी स मदासुरः । कैलासं शंकरस्थानं ययौ रणविधित्सया ॥३२॥ शिवोऽपि स्वगणैर्युक्तो देवैर्विष्णुवा- दिभिर्वृतः । शक्तिलोकं जगामाऽथ भयसंकुलितो मदात् ॥३३॥ दैत्येश्वरो महादैत्यैः कैलासे संस्थितोऽभवत् । अतुलं सुखमत्यंतं बुभुजे तैः समन्वितः ॥३४॥ शिवेन रचितं पुण्यं कैलासे कल्पितप्रदम् । नानाश्चर्ययुतं हृष्टो दैत्यस्तद्बुभुजे बलात् ॥३५॥ मोहितो भोगभावेन धन्यं चैव मदासुरः । मेने स्वं सर्वदनुजैस्त्रिपुरप्रमुखैः खलैः ॥३६॥ देवाः सर्वे ययुः शक्तेर्लोकं तद्भयसंकुलाः । शक्तिस्तान् गणसंयुक्तान् समाश्वास्य स्थिताऽभवत् ॥३७॥ शिवादिनादिमाया सा जगाद वदतां वरा । जगतश्च जगन्माता सृष्टिस्थित्यंतकारिणी ॥३८॥ आदिशक्तिरुवाच । मा भयं देवदेवेशाः कुरुध्वं मम सन्निधौ । तिष्ठताऽत्र न दैत्योऽयं कदापि त्वागमिष्यति ॥३९॥ मदीयवरदानेन गर्वयुक्तो बभूव ह । मदासुरो महाभागो वचो मम करिष्यति ॥४०॥ आगमिष्यति दैत्यश्चेत्तदा मां पूजयिष्यति । मदीयमवमानं वै न करिष्यति देवपः ॥४१॥ कदाचित्तेन गर्वेण ममलोकनिवासिनः । पीडिताश्चेत् क्षणं सद्यो हनिष्यामि न संशयः ॥४२॥ एवमाश्वासिता देवाः शक्त्या ते तत्र संस्थिताः । भयं त्यक्त्वा च दैत्येभ्यो दुःखयुक्ता महासुर ॥४३॥

॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदंतचरिते मदासुरस्वर्गविजयो नाम पंचचत्वारिंशोऽध्यायः ॥

खं. २ अ. ४६ पान ९७ ॥ श्रीगणेशाय नमः ॥ गृत्समद उवाच । कैलासे दैत्यपैर्युक्तः संस्थितोऽभून् मदासुरः । कियत्कालं प्रभुआनो भोगान् परमदुर्लभान् ॥१॥ गते कियति काले च त्रिपुराद्यास्तमब्रुवन् । देवानां छेदने दुष्टाः संसक्ता मदसंयुताः ॥२॥ त्रिपुराद्या ऊचुः । शृणु राजन् महाभाग मदासुर हितं वचः । देवाः शंभुमुखाः सर्वे शक्तिलोकं गता बभुः ॥३॥ तत्र शक्त्या विशेषेण मानिताः सुरसत्तमाः । भयहीनाः सुखे सक्ता बुभुजुर्विविधं सुखम् ॥४॥ अस्माकं शत्रवः सर्वे देवा दैत्य मताः सदा । दैत्यानां कदने सक्ताः समर्थाश्चेन्न संशयः ॥५॥ हिरण्याक्षादयः सर्वे सूदिता देवपैः पुरा । छिद्रदर्शनसंयुक्तैरस्माकं तैर्विशेषतः ॥६॥ सर्वत्र ख्यातिमत्यंतं जानंति सकला जनाः । देवानां वैरिभावं च परस्परवधे रतम् ॥७॥ अस्माकं शक्तिरत्यंतं वैरिभावे प्रवर्तिता । मान्या तदपि दैत्येंद्र देवानां सा हिते रता ॥८॥ अतः शक्तिपुरे स्वामिन् गमिष्यामो न संशयः । हनिष्यामो- ऽमरान् सर्वान् वैरिभावं समाश्रितान् ॥९॥ दैत्यानां वचनं श्रुत्वा प्रतापी स मदासुरः । उवाच तान् महादैत्यो विनयेन समन्वितः ॥१०॥ मदासुर उवाच । शृणुध्वं त्रिपुराद्या मे वचनं हितकारकम् । शक्तिप्रसादसंभूतमैश्वर्यं सकलं च मे ॥११॥ इष्टा देवी मदीया सा तां भजामि विशेषतः । अतस्तस्या हितं मान्यं कर्तव्यं सकलैः सदा ॥१२॥ तां च देवा ययुः सर्वे शरणं नात्र संशयः । मदीयदासभावेन यंत्रिता शक्तिरादरात् ॥१३॥ देवानां पक्षपातेन सह तैर्नागताऽभवत् । अस्माकं तु वधार्थाय महामाया च दानवाः ॥१४॥ अतः प्रभजने तस्या आसक्ता ये भवंति वै । ते संमान्या मया नित्यं मा वैरं कुरुताऽसुराः ॥१५॥ मदासुरवचः श्रुत्वा दैत्यपास्तं पुनर्जगुः । क्रोधयुक्ता मदोत्सिक्ता देवानां तु वधे रताः ॥१६॥ दैत्येशा ऊचुः । मदासुर शृणु स्वामिन् पुरावृत्तं कथानकम् । हिरण्यकशिपुः प्रोक्तो ब्रह्मलब्धवरो महान् ॥१७॥ अभवन् बहवश्चान्ये दैत्येशा देवशत्रवः । देवपक्षाश्रयं सर्वे त्यक्त्वा स्वं धर्ममाश्रिताः ॥१८॥ कश्यपस्य सुतौ चैव तावुभौ देवसंश्रयम् । त्यक्त्वा तु देवसंहारे दैत्येशौ तत्परौ पुरा ॥१९॥ अतस्त्वयाऽपि कर्तव्यं देवानां मूलनाशनम् । असुराश्च सुराः प्रोक्ता वेदेऽपि च विरोधिनः ॥२०॥ शक्तिलोकं गमिष्यामो भक्तियुक्ता वयं प्रभो । देवास्तान्निर्दलिष्यामः खलु शक्तेः प्रसंनिधौ ॥२१॥ यदि शक्तिर्महामायाऽस्माकं पक्षं समाश्रिता । तदा तां पूजयिष्यामः कुलदैवतमादरात् ॥२२॥ अन्यथा योधयिष्यामो वयं शक्त्या न संशयः । शत्रुपक्षाश्रितां ज्ञात्वा नाऽत्र दोषः प्रवर्तते ॥२३॥ दैत्येशानां वचः श्रुत्वा दुर्मतिः स मदासुरः । तथेति सत्यमत्यंतं मानयामास दैत्यपः ॥२४॥ तदैव दैत्यसंयुक्तो ययौ लोकं मदासुरः । शक्तेश्च सन्निधौ दूतं प्रेषयामास

दुर्मतिः ॥२५॥ तारकं प्रजगादाऽसौ गच्छ देवीं महाबल । सामयुक्तं वदाऽऽशु त्वं महामायां महासुर ॥२६॥ तं प्रणम्य ययौ वेगाच्छक्तेः सन्निधिमादरात् । तारको मानितस्तैस्तु देवैः परमदारुणः ॥२७॥ नत्वा शक्तिं महामायां कृतांजलिपुटो- ऽसुरः । तारकस्तामुवाचाऽथ सामयुक्तं वचः खलः ॥२८॥ तारकासुर उवाच । शृणु शक्ते महामाये आगतः स मदासुरः । दर्शनार्थं च ते मातस्तेनाऽहं प्रेषितोऽधुना ॥२९॥ तेनोदितं च शक्ते त्वं वचनं शृणु मानदे । भक्तेन भक्तिसंयुक्तं भावज्ञे जगदंबिके ॥३०॥ अस्माकं कुलदेवी तु त्वमेवात्र न संशयः । असुरा हि वयं सर्वे त्वदीयाः सेवका मताः ॥३१॥ यत्राऽसुरा विराजंति सुरास्तत्र हतप्रभाः । भवंति नात्र संदेहः स्वभावाच्छत्रवो मताः ॥३२॥ अतो देवान् समुत्सृज्य तिष्ठ त्वं पूजिता- ऽसुरैः । अस्माकं शत्रवो देवास्त्वदीयाः शत्रवो मताः ॥३३॥ प्रणमंतो वयं यावत्तावद्देवनिकृंतनम् । करिष्यामो न संदेहस्तस्मान् मातस्त्यजाऽऽशु तान् ॥३४॥ एकं पक्षं समाश्रित्य तिष्ठ त्वं जगदंबिके। असुराणां सुराणां वा पूजिता सततं परे ॥३५॥ इत्येवं कथितं देवि मदस्य वचनं मया । कुरु त्वं भक्तराजस्य पालनं परमादरात् ॥३६॥ गृत्समद उवाच । मदस्य वचनं क्रूरं तारकेण प्रकाशितम् । तच्छ्रुत्वा कुपिता देवी तं जगाद महासुरम् ॥३७॥ शक्तिरुवाच । मदीयं जगदंबेति नाम वेदे प्रकाशितम् । केन मार्गेण दैत्येश पक्षमेकं समाश्रये ॥३८॥ यथा देवास्तथा दैत्या मान्या मे नात्र संशयः । देवैर्दैत्यैश्च कर्तव्यः स्वस्वधर्मो महासुर ॥३९॥ पाताले राज्यमानंदाद्दैत्यैः कर्तव्यमंजसा । स्वर्गेषु सर्वदा देवैः कर्तव्यं स्वस्वभावजम् ॥४०॥ विपरीते हनिष्यामि क्रुद्धाऽहं नात्र संशयः । अतो दैत्यैः प्रगंतव्यं पाताले वै मदाज्ञया ॥४१॥ शक्तेर्वचनमाकर्ण्य क्रुद्धः सोऽपि महासुरः । उवाच तां महाशक्तिं भयं त्यक्त्वा प्रभावतः ॥४२॥ तारक उवाच । मा गर्वं कुरु शक्ते त्वं शत्रुपक्षसमाश्रिते । तपसा वयमुत्कृष्टा जाताः स्वस्य न संशयः ॥४३॥ कर्मणा त्वं प्रसृजसि जगंति जगदंबिके । कर्माधीनमिदं सर्वं तत्र त्वं किं करिष्यसि ॥४४॥ कर्मणा दैत्यराजश्च प्रतापी स मदासुरः । ब्रह्मांडाधिपतिर्भूत्वा देवान् सर्वान् हनिष्यति ॥४५॥ युद्धाय सज्ज त्वं देवि देवैःसह जगन्मयि । असुरैश्च महाभागैर्गच्छामि मदसंनिधौ ॥४६॥ एवमुक्त्वा महाशक्तिं तारकः क्रोधसंयुतः । जगाम शक्तिलोकाद्वै मददैत्यस्य संनिधौ ॥४७॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खंडे एकदंतचरिते तारकासुरसामवर्णनं नाम षट्चत्वारिंशोऽध्यायः ॥

खं. २ अ. ४७ पान ९९ ॥ श्रीगणेशाय नमः ॥ गृत्समद उवाच । आगतं तारकं दृष्ट्वा हर्षितः स मदासुरः । दैत्यैः सह महासाधो प्रहृष्टश्चाभवत् खलः ॥१॥ मदासुरं प्रणम्याऽसौ कथयामास तारकः । वृत्तांतं देवपक्षे च संश्रितं कुलदैवतम् ॥२॥ तच्छ्रुत्वा मद्यपो दैत्यः प्रतापी स मदासुरः । क्रोधयुक्तोऽभवत्तत्र देवान् हंतुं समुद्यतः ॥३॥ सन्नद्धैर्दैत्यपैः सर्वैः सन्नद्धश्च मदासुरः । शक्तिलोकं जगामाऽथ महाकाल इवाऽऽबभौ ॥४॥ पुरःप्रांते स्थितान् शक्तेर्गणान् परमविश्रुतान् । ताञ्जघ्नुश्च महादैत्याः शस्त्रैः परमदारुणैः ॥५॥ छिन्नांगास्ते पलायंत गताः स्वनगरेऽभवन् । वृत्तांतं कथयामासुर्दैत्यानामागमात्मकम् ॥६॥ श्रुत्वा तत्र महाशक्तिर्देवैः सर्वैर्महाबलैः । शंकरादिभिरन्वीता ययौ संग्राममंडलम् ॥७॥ सिंहारूढा चतुर्बाहुः खड्गचर्मधरा बभौ । धनुर्बाणधरा क्रोधान्नानाशक्तिसमन्विता ॥८॥ वामांगाच्छ्रीः समुत्पन्ना सावित्री दक्षिणांगतः । हृदयात् पुरतः संज्ञा तासां सैन्यं पृथग्बभौ ॥९॥ विष्णुशंकरमुख्याश्च सन्नद्धा वाहने स्थिताः । स्वस्वसैन्येन संयुक्ता बभुः कालसमाः पुरः ॥१०॥ इत्यादिशक्तिभिः शक्तैर्देवैश्च संयुतं महत् । सैन्यं दैत्येंद्रमुख्यैस्तैर्दृष्टं परमदारुणम् ॥११॥ ततो दैत्यैश्च शस्त्रौघैस्ताडितं सहसा बलात् । शक्तिसैन्यं महाघोरं क्रोधयुक्तं बभूव ह ॥१२॥ शक्त्या संप्रेषिता देवा युयुधू रणमंडले । कालिकाद्या महायुद्धे शक्तयः कुपिता भृशम् ॥१३॥ अकस्मान्मिलिते सैन्ये परस्परजयैषिणी । दैत्यानां चैव देवानां मरणे कृतनिश्चये ॥१४॥ सैन्यानां रजसा तत्र हृतं ज्ञानं समंततः । न प्रकाशो रवेरासीत् स्वपरज्ञानकारकः ॥१५॥ हेषितैः श्वेविडतैस्तत्र बृंहितै रथनेमिभिः । वादित्राणां महाशब्दैर्नादयुक्ता दिशोऽभवन् ॥१६॥ शंखनादैः सिंहनादैर्नानादैश्च दैत्यप । बधिरा इव योधास्ते संजाता रणमूर्धनि ॥१७॥ शस्त्रैरस्त्रैरनेकैश्च परिजघ्नुः समंततः । द्रुमैः पर्वतखंडैश्च स्वान् परान् युद्धदुर्मदाः ॥१८॥ मृताः केचित् क्षताः केचित् केचिच्छस्त्रधरा बभुः । निजघ्नुः परवीरांस्ते स्वबलेन महाबलाः ॥१९॥ भग्ने शस्त्रे समग्रे ते मल्लयुद्धपरायणाः । युयुधुः क्रोधसंयुक्ताः शस्त्रहीनास्तथाऽपरे ॥२०॥ कबंधा युयुधुस्तत्र शस्त्रहस्ता महाबलाः । स्वान् परानपि जघ्नुस्ते स्वपरज्ञानवर्जिताः ॥२१॥ बाणैर्बाणान् समाक्षुब्धा विजघ्नुश्च परस्परम् । खड्गैः खड्गांस्तथा चान्ये गदाभिश्च गदा भृशम् ॥२२॥ तोमरैश्च महावीराः पर्शुभिस्तु तथाऽपरे । भिंदिपालैश्च पाशैश्च परिजघ्नुः परस्परम् ॥२३॥ रथारूढा गजारूढैर्गजारूढाः पदातिभिः । अश्वारूढैस्तथाऽन्येऽपि युयुधुर्जातसंभ्रमाः ॥२४॥ तुमलं दैत्यदेवानां युद्धं तत्र प्रवर्तितम् । उभयोर्नाशकं घोरं वक्तुं नैव प्रशक्यते ॥२५॥ प्रवाहबहुले रक्तै रजः संप्लावितं महत् । प्रकाशस्तत्र संजातः

खं. २ अ. ४७ पान १०० स्वपरज्ञानकारकः ॥२६॥ प्रबोध्य केचिद्दैत्यांस्तान् सुरा जघ्नुर्महाबलाः । असुराश्च सुरांस्तद्वन् महाक्रोधसमन्विताः ॥२७॥ शक्तयः कुपितास्तत्र दैत्यांश्चैव प्रजहिरे । शस्त्रास्त्रैर्विविधैः सर्वाः पिपिषुश्चासुरेश्वरान् ॥२८॥ दैत्याः प्रकुपिता अन्ये शस्त्रास्त्रैर्देवमंडलम् । छिन्नं भिन्नमिमे चक्रुः क्रोधयुक्ता महाबलाः ॥२९॥ मेरुशीताचलग्रख्या दैत्या देवाः स्थिता बभुः । चेलुर्न च पदं तत्र परस्परवधे रताः ॥३०॥ अभवन् शोणितौघानां महानद्यः समंततः । देवदैत्यशरीरेभ्यः प्रसूताश्च सहस्रशः ॥३१॥ मेदोमांसमहापंकाः प्रपेतुर्धरणीतले । देवाश्च शतशो दैत्या गतप्राणा रणेऽसुर ॥३२॥ मांसं कर्दमरूपेण यत्र तत्र स्थितं रणे । मृतानां न च संख्याऽऽसीन् मार्गरोधनकारिणाम् ॥३३॥ असृक्प्रवाहजस्तत्र पूरः संददृशे जनैः । जलौघ इव दैत्येंद्र महामोहप्रवर्धनः ॥३४॥ मृतैर्गजैस्तथा भग्नै रथैर्वाजिभिरेव च । नानापशुगणैरुष्ट्रैः पक्षिभिर्दुर्गमं कृतम् ॥३५॥ मुमूर्षवस्तत्र पेतुर्मृताः केचिच्च खंडिताः । तदपि क्रोधसंयुक्ताः प्रयत्नं चक्रुराहताः ॥३६॥ एवं दश दिनान्येव दिवारात्रं महारणम् । बभूव समये तस्मिन् देवदैत्यसमुद्भवम् ॥३७॥ पलायनपरा देवास्ततो जाता महारणे । दशदिक्षु भयोद्विग्नाः पलायंताऽसुरेश्वर ॥३८॥ तद् दृष्ट्वा परमाश्चर्यं वज्रभृद्देवपैर्वृतः । संग्राममकरोद्धोरं दैत्यनाशनकरं परम् ॥३९॥ वज्रपातेनासुरान् स चूर्णयामास वेगतः । देवेंद्रो विविधैरन्यैर्मयाद्या आयुधैस्तथा ॥४०॥ मृता दैत्यगणाः केचित् भृशं केचिच्च मूर्च्छिताः । मुमूर्षवः परे तत्र कृता वै वज्रिणाऽभवन् ॥४१॥ शक्त्यादिशस्त्रपातेन वह्निचंद्रयमादयः । असुरान् मारयामासुः क्रोधयुक्ताः सुरेश्वराः ॥४२॥ ततो भग्नं बलं सर्वं दैत्यानां भयसंकुलम् । दुद्राव दिक्षु सर्वासु त्रातारं नाभ्यपद्यत ॥४३॥ ततः संहर्षिता देवास्तथा देवगणाः परे । जयशक्ते महामायेऽवदंस्ते जय सर्वदा ॥४४॥ ततः क्रोधसमायुक्तस्तारको दैत्यपैर्वृतः । आययौ क्रोधदीप्ताक्षो योद्धुं शक्रेण वीर्यवान् ॥४५॥ आगत्य रणभूमिं स तमुवाच पुरंदरम् । गर्वयुक्तं महोग्रं च मोहितो मदसंयुतः ॥४६॥ तारक उवाच । किं त्वं युध्यसि देवेंद्र दैत्यपैः परमाहतैः । मया युक्तैकबाणेन न समोऽसि सुराधिप ॥४७॥ बलेन यदि संयुक्तस्तदा किममरावतीम् । त्यक्तवान् वद मे वाक्यं वृथा मृत्युमवाप्स्यसि ॥४८॥ इति तस्य वचः श्रुत्वा सुरेंद्रस्तमुवाच ह । क्रोधसंरक्तचक्षुर्भर्भक्षयन्निव दानवान् ॥४९॥ इंद्र उवाच । तारक त्वं वल्गसि किं पश्य मे पौरुषं महत् । आसुरं प्रहरिष्यामि सैन्यं ते पश्यतो महत् ॥५०॥ पश्चात्त्वां च क्रमेणाऽहं मदं सबलवाहनम् । हत्वाऽभिवाद्य शक्तिं च

खं. २ अ. ४८ पान १०१ गमिष्याम्यमरावतीम् ॥५१॥ आदौ शक्तिविहीनोऽहं किं करोमि पराक्रमम् । अधुना शक्तिसंयुक्तः कदनं ते करोम्यहम् ॥५२॥ किं बहूक्तेन दैत्येंद्र दर्शय स्वपराक्रमम् । नोचेद्गच्छस्व पातालं मिथ्या वल्गसि किं वचः ॥५३॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदंतचरिते इंद्रतारकसमागमो नाम सप्तचत्वारिंशोऽध्यायः ॥ ॥ श्रीगणेशाय नमः ॥ गृत्समद उवाच । एवं गदित्वा देवेंद्रो दैत्येंद्रं क्रोधसंयुक्तम् । तारकं शरवर्षेण ववर्ष रणमंडले ॥१॥ एकस्मान् मंत्रिताद्वाणादनंतैर्निःसृतैः शरैः । बभूवुर्दैत्यसंघाताः पीडितास्तैः समंततः ॥२॥ ततो दैत्यः स दैत्येशाः प्रधानप्रमुखाः स्थिताः । शरवर्षाणि सर्वत्र चक्रुः परमदारुणाः ॥३॥ तैर्बाणैर्देवसैन्यानां हता वीरा अनेकशः । छिन्नांगाः पतितास्तत्र रुधिरौघप्रवर्षिणः ॥४॥ यत्र तत्र पलायंत देवा भयसमाकुलाः । त्रातारं नाभ्यपश्यंत प्रलयेषु यथा प्रजाः ॥५॥ तेषां तत्कर्म दृष्ट्वा ते ववृषुः सुरपा शरान् । अग्निधर्मादयस्तत्र कालमृत्युपमान् दृढान् ॥६॥ तैराहतं बलं पूर्णं दैत्यानां यत्र तत्र ते । मृता मुमूर्षवः सर्वे बभूवू राक्षसा मृधे ॥७॥ ततोऽतिकुपितो दैत्यस्तारकोऽतिभयानकः । निष्कास्य सुदृढं बाणं मोचयामास दारुणम् ॥८॥ आकर्ण धनुराकृष्य दीप्तो बाणो सुरेश्वर । इंद्रस्य सहसागत्य हृदि संपतितोऽभवत् ॥९॥ तेन संपीडितो देवो मूर्च्छितो देवनायकः । मुहूर्तात् सावधानोऽभूद्वज्रं हस्ते समाददे ॥१०॥ वज्रेण ताडितोऽत्यंतं तारको दैत्यपुंगवः । पतितः स धरापृष्ठे गतप्राण इवाऽभवत् ॥११॥ एवं वरुणवह्न्याद्यैर्वायुधर्मकुबेरकैः । हता दैत्या अनेके च पतिता मूर्च्छिता मृताः ॥१२॥ हाहाकारश्च सर्वत्र दैत्यसैन्ये प्रवर्तितः । पलायंत च दिक्प्रांते त्रासिता देवनायकैः ॥१३॥ ततः शुक्रेण ते सर्वे तारकाद्या महासुराः । विद्यया सावधानाश्च कृता युद्धाय सज्जिताः ॥१४॥ अग्निमंत्रसमायुक्तं बाणं धनुषि संदधे । तारकः क्रोधसंयुक्तो दाहकं स मुमोच ह ॥१५॥ पतितो देवसैन्ये च बाणस्तस्मान् महाबलः । निःसृतः पुरुषस्तत्र भक्षयामास वै सुरान् ॥१६॥ मेरुमंदरसंकाशो विचचार महाबलः । देवसैन्येषु दैत्येंद्र प्रलयाग्निसमोऽदहन् ॥१७॥ अग्निज्वालाश्च सर्वत्र समुद्भूता भयानकाः । अदहद्देवसंघांस्तान् वाहनैः सहितान् मृधे ॥१८॥ हाहाकाररवा देवाः पलायनमकुर्वत ।

ख. २ अ. ४८ पान १०२ तत्रापि पुरुषोऽत्यंतं भक्षयामास चामरान् ॥१९॥ ततः क्रोधसमायुक्तो महेंद्रो वारुणं महत् । अस्त्रं धनुषि संगृह्य मृधे तत्याज दारुणम् ॥२०॥ तस्माच्च जलधाराऽभूत् समंतान्निःसृता बहु । ववर्षुरतुलां वृष्टिं मेघाः सर्वत्र गर्जितैः ॥२१॥ जलौघेन महावह्निः प्रशांतः सहसा कृतः । अस्त्रेण पुरुषः सोऽपि पतितो रणमूर्धनि ॥२२॥ ततो देवगणाः सर्वे सावधाना बभूविरे । दैत्या वृष्ट्या च वातेन पीडिता बलसंयुताः ॥२३॥ विद्युज्जवालाभिरत्यंतं दग्धाः केचिन् महासुराः । जलौघेन तथा केचिद्वाहिताश्च सवाहनाः ॥२४॥ दैत्यानां प्रबलं सैन्यं पीडितं वारुणेन च । हाहाकाररवा दैत्या ययुर्मृत्युं भयानकम् ॥२५॥ ततः स तारको दैत्यः क्रोधसंरक्तलोचनः । वायव्यस्त्रं तन्निवृत्त्यर्थं संदधेऽतिभयानकम् ॥२६॥ मुमोच धनुराकृष्य देवसैन्ये महासुरः । तेन वारुणमस्त्रं च ग्रस्तं वै शांतिमागमत् ॥२७॥ वायुना प्रबलेनैव घूर्णिता देववाहिनी । शुष्कपत्रसमा तत्र बभ्राम समरांगणे ॥२८॥ ततः समागतो दैत्यस्तारकोऽतिभयानकः । खड्गेन देवराजं तं जघानामर्षतो दृढम् ॥२९॥ खड्गाघातेन देवेंद्रं पतितं मूर्च्छया भृशम् । संगृह्य दैत्यराजस्तु तारकः स्वबलं ययौ ॥३०॥ मदासुरस्य सांनिध्ये स्थापयामास देवपम् । मदेन मूर्च्छितो देवो बद्धः पाशैः समंततः ॥३१॥ ततो हाहाकृतं सर्वैः पलायत दिशो दश । सैन्यं देवगणानां वै विनाथं भयसंकुलम् ॥३२॥ यमं च सहसाऽऽगत्य गदया हृदि विव्यथे । तारकः स महामूर्च्छां जगाम प्रेतनायकः ॥३३॥ संगृह्य स्वबले नीत्वा हर्षितोऽभून् महासुरः । एवमग्निमुखाः सर्वे धृतास्ते दैत्यनायकैः ॥३४॥ अनाथं देवसैन्यं तत् पलायत भयाकुलम् । मृतं भग्नं च शस्त्रैः संहतं दैत्यैर्महाबलैः ॥३५॥ एवं निर्जित्य दैत्येंद्रा जहृषुर्नारदसंयुताः । देवाः सर्वे भयोद्विग्नाः शरणं शंकरं ययुः ॥३६॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदंतचरिते इंद्रपराजयो नामाष्टचत्वारिंशोऽध्यायः ॥

[header] खं. २ अ. ४९ | पान १०३ [/header]

॥ श्रीगणेशाय नमः ॥ गृत्समद उवाच । विष्णुना सहितो देवैस्ततः सर्वैः सुसंवृतः । गणैः सुदारुणैस्तत्र ययौ शंभू रणस्थलम् ॥१॥ समागतं शिवं ज्ञात्वा तारकः क्रोधसंयुतः । उवाच तं महादेवं गर्वयुक्तेन चेतसा ॥२॥ तारक उवाच । किमागतोऽसि संग्रामे मदेन त्वं सदाशिव । सिंहेन शशको युद्धं किं करिष्यति मां वद ॥३॥ मदासुरस्य दासोऽहं त्वां हनिष्यामि निश्चितम् । संहारकारिणं सद्यो महासंहारकारकः ॥४॥ वचः श्रुत्वा त्रिशूलेन तारकः शंभुना हतः । स मृतस्तत्क्षणाद्दैत्यः पतितो भग्नवृक्षवत् ॥५॥ ततश्चक्रेण देवेशः केशवो दैत्यनायकान् । मारयामास संक्रुद्धः सकलान्यत्र तत्र च ॥६॥ ततोऽतिभयसंयुक्ताः पलायंत दिशो दश । दैत्याः प्राणपरीप्सार्थ हाहाकारकरा भृशम् ॥७॥ देवैस्तत्र धृता दैत्या मृतास्तारकमुख्यकाः। शुक्रस्य तु भयाच्छ्रेष्ठास्त्यक्तास्ते विवरे स्थिताः ॥८॥ देवेशानां च दैत्येशा दृष्ट्वाऽतीवपराक्रमम् । बाणस्त्रिपुरशंखौ च ससैन्या आययुर्मृधे ॥९॥ कोलाहलं प्रकुर्वाणाः शंखशब्दैः समंततः । ववृषुः शस्त्रधाराभिर्वर्षाकाले यथा घनाः ॥१०॥ ततः परस्परं युद्धं नियतं संबभूव ह । देवानां चैव दैत्यानां विनाशकरमद्भुतम् ॥११॥ बाणः सूर्यं ययौ क्रुद्धः शंखो विष्णुं महाबलः । रुद्रं च त्रिपुरो वेगात् परसैन्यनिबर्हणः ॥१२॥ अन्ये च शतशस्तत्र दैत्या देवान् समाययुः । गदितुं न भवेच्छक्यं बहुत्वायुद्धमद्भुतम् ॥१३॥ क्रोधयुक्ता निजघ्नुस्ते दानवा देवमुख्यकान् । शस्त्रास्त्रैर्विविधैः क्रुद्धा वृक्षैर्वै पर्वतैर्मृधे ॥१४॥ दैत्यानां बलमुत्कृष्टं ज्ञात्वा देवा महाबलाः । यत्नयुक्ताश्च संग्रामे युयुधुः शस्त्रपाणयः ॥१५॥ एवं त्रिदिवसं युद्धं संजातं दारुणं महत् । देवसेना ततो भग्ना भयभीता समंततः ॥१६॥ जघान शंकरोऽत्यंतं क्रोधयुक्तो महाबलम् । गदया त्रिपुरं तत्र ततः परमदुर्जयम् ॥१७॥ जघान गदया शंभुं सोऽपि तं च पराक्रमी । गदायुद्धं महत्तत्र बभूवाऽतिभयानकम् ॥१८॥ ततस्त्रिशूलघातेन हतो दैत्यः पपात ह । त्रिपुरो मूर्च्छयात्यंतं पीडितः शंकरेण सः ॥१९॥ ज्वालया रविणा तत्र बाणो भूमौ निपातितः । चक्रेण विष्णुना दुष्टः शंखः संमर्दितोऽभवत् ॥२०॥ धृत्वा तान् दैत्यमुख्यांश्च चिक्षिपुर्विवरेऽमराः । पाशैर्बद्ध्वा ततो दुष्टान् पुनरुत्पातशंकया ॥२१॥ ततो दैत्या हताः सर्वे देवैर्देवगणैर्मृधे । मृता मुमूर्षवः केचिच्छरणं ते ययुः सुरान् ॥२२॥ विजयं प्राप्य देवेंद्रो हर्षिताः संबभूविरे । जगर्जुर्जयशब्देन प्राह्वासं प्रचक्रिरे ॥२३॥ ततो मदासुरः क्रुद्धो ज्ञात्वा वृत्तांतमद्भुतम् । संरक्तनयनो दुष्टो ययौ रणविधित्सया ॥२४॥ शुक्रेण सहितः सोऽपि महावीरैः समावृतः । रथारूढः स्वपुत्रैश्च संग्रामे संदधे मनः ॥२५॥ ततस्तं दैत्यमुख्यं वै तनयाश्च समाययुः । संग्रामार्थं

यहाँ पृष्ठ का देवनागरी पाठ प्रस्तुत है:

खं. २ अ. ४९ | पान १०४ महावीर्यास्त्रयो देवैः शिवादिभिः ॥२६॥ धनप्रियश्च संग्रामे सूर्यं विव्याध सायकैः । उवाच गर्वसहितो रविं त्रैलोक्यभाविनम् ॥२७॥ धनप्रिय उवाच । शृणु दुष्टार्यमंस्त्वं मे वचनं हितकारकम् । गच्छ शीघ्रं महाबाहो नोचेन् मृत्युमुपेष्यसि ॥२८॥ त्वया दैत्या हताः पूर्वं भुंक्ष्व तेषां फलं महत् । न मुंचामि महादुष्ट जीवंतं त्वां च काश्यप ॥२९॥ ततः सूर्येण खड्गेन हतो दैत्यो महाबलः । पपात मूर्च्छयाऽऽविष्टः पुनः संज्ञां च सोऽलभत् ॥३०॥ आगत्य काश्यपं दैत्य- पुत्रो वेगसमन्वितः । खड्गेन तीक्ष्णधारेण जघान दृढमंजसा ॥३१॥ दृढाघातेन सूर्यः स पतितो मूर्च्छया भृशम् । तं धृत्वा विजयी दैत्यपुत्रश्च स्वस्थलं ययौ ॥३२॥ प्रणम्य पितरं पुत्रो ननंद ह धनप्रियः । पाशैर्बद्ध्वा दृढं सूर्यं चिक्षेप विवरेऽसुरः ॥३३॥ विलासी विष्णुमागत्य क्रोधेन महताऽऽवृतः । बाणजालैः समाच्छाद्योवाच तं दारुणं वचः ॥३४॥ त्वया विष्णो मदीया वै सेना संनाशिता बलात् । गृहीता दैत्यवर्याश्च नाऽहं तत्र स्थितोऽभवम् ॥३५॥ अधुना शस्त्रघातेन हतस्त्वं गच्छसि प्रभो । मृत्योर्भुवनमुग्रं यन्न त्वां मुंचामि कर्हिचित् ॥३६॥ ततः क्रोधसमाविष्टो विष्णुश्चक्रेण दैत्यपम् । विलासिनं जघानाऽथ चक्रे संमूर्च्छितं खलम् ॥३७॥ क्षणेन सावधानोऽभूदागत्य गदया विभुम् । हृदि विव्याध दुष्टोऽसौ पपात गरुडाद्धरिः ॥३८॥ तं धृत्वा दैत्यपुत्रः स ययौ स्वस्थानमुत्तमम् । पितरं प्रणामाऽथ पित्रा संमानितोऽभवत् ॥३९॥ बद्ध्वा पाशैर्महाविष्णुं चिक्षेप विवरे मदः । दैत्या हर्षसमायुक्ता जगर्जुश्च भयानकम् ॥४०॥ लोलुपश्च समागम्य शंकरं वृषभध्वजम् । उवाच कोपरक्ताक्षः शृणु त्वं नीललोहित ॥४१॥ मदीयमतुलं सैन्यं त्वया युधि निपातितम् । अधुना त्वां हनिष्यामि फलदाता भवाम्यहम् ॥४२॥ ब्रुवंतं तं ततो मूर्खं त्रिशूलेन जघान ह । शंकरः क्रोधसंयुक्तः सोऽपतन् मूर्च्छया भृशम् ॥४३॥ शुक्रेण सहसाऽऽगत्य सावधानः कृतोऽसुरः । लोलुपो निर्ममे मायां सर्वदेवविमोहिनीम् ॥४४॥ अकस्माज्जलधिस्तत्र व्याप्तः सर्वभयावहः । अग्निश्च सर्वतः सर्वान् दाहयामास भैरवः ॥४५॥ नानाशास्त्रधरा अन्ये नग्नास्ते शूलपाणयः । नग्नास्त्रियश्च शस्त्रौघैर्मारयामासुरंजसा ॥४६॥ शांकरो विस्मितो भूत्वा पश्चाद्भयसमन्वितः । मोहितो मायया तत्र लोलुपेनासुरेश्वर ॥४७॥ एतस्मिन्नंतरे तत्र समुद्रे सर्वतः स्थिते । ममज्ज तत्र देवेशः शिवः प्रह्लाद मोहतः ॥४८॥ कर्मणा च तपोरूपेणेदं सर्वं कृतं मृधे । मजंतं शंकरं धृत्वा लोलुपः स्वस्थलं ययौ ॥४९॥ पित्राऽसौ मानितोऽत्यंतं पाशैर्बद्ध्वा

खं. २ अ. ५० पान १०५ ☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸ सदाशिवम् । चिक्षेप विवरे दैत्यो लोलुपः सर्वलोलुपः ॥५०॥ ततो हाहारवं कृत्वा देवा देवागणा मृधे । शरणं जगदंबां ते ययुः संत्रासतापिताः ॥५१॥ दैत्येंद्रा हर्षिताः सर्वे जगर्जुर्घनवद्भृशम् । कुर्वंतो वाद्यशब्दान् वै जयशब्दकरा भृशम् ॥५२॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदंतचरिते शिवादिदेवपराजयो नामैकोनपंचाशत्तमोऽध्यायः ॥ ❧❧❧ ॥ श्रीगणेशाय नमः ॥ गृत्समद उवाच । शिवविष्णुवादिदेवेषु गृहीतेषु महाबलैः । दैत्यपुत्रैः सुराणां च सैन्ये त्रासः प्रवर्तितः ॥१॥ देवा देवगणाः केऽपि क्षता भग्नास्तथाऽपरे । मृता मुमूर्षवस्तत्र गृहीता दैत्यपैर्मृधे ॥२॥ केचित्तान् शरणं जग्मुर्दैत्यान् केचित् पलायिताः । शशंसुः सर्ववृत्तांतं शक्तये भयविह्वलाः ॥३॥ वृत्तांतमतुलं श्रुत्वा दैत्यानां कर्मसंभवम् । क्रोधयुक्ता महामाया ययौ संग्राममंडलम् ॥४॥ आगतां जगदंबां तां स्वयं ज्ञात्वा मदासुरः । पुत्रैः प्रधानमुख्यैश्च नानावीरैर्वृतो ययौ ॥५॥ समागतं महादैत्यं ज्ञात्वा क्रोधसमन्विता । जगदंबा रणे तत्र धनुः सज्जमथाऽकरोत् ॥६॥ धनुषः शब्दमुग्रं ते श्रुत्वा दैत्या भयातुराः । मूर्च्छिताः केऽपि भीताश्च दुद्रुवुः केऽपि दैत्यपाः ॥७॥ ततः शंखनिनादं वै चकार स मदासुरः । महता तस्य नादेन व्याप्तं सर्वं जगत्त्रयम् ॥८॥ ततः शंखनिनादैश्च देवीनां पूरितं नभः । दैत्येंद्राणां च सर्वत्र महान् कोलाहलो ह्यभूत् ॥९॥ सिंहनादैर्जगर्जुस्ते वीरा वै शक्तयस्तथा । विनेदुर्बहुवाद्यानि सुरा हर्षं समाययुः ॥१०॥ एतस्मिन्नंतरे तत्र कालिका क्रोधसंयुता । शक्तिभिः संवृता क्रूरा दैत्यसैन्यं ममर्द्द ह ॥११॥ त्रिशूलेन तथा पाशैः शस्त्रैर्नानाविधैर्मृधे । शक्तिभिश्च्छेदिता दैत्याः पलायंत दिशो दश ॥१२॥ ततः क्रोधसमायुक्ता दैत्यपुत्राः समाययुः । ववृषुुर्बाणजालानि कालरूपाणि संयुगे ॥१३॥ तेषां बाणैर्हतास्तत्र देवानां शक्तयो गणाः । हाहाकाररवाः सर्वे पलायंत भयाकुलाः ॥१४॥ ततः काली समाक्रुद्धा रूपं कृत्वा भयानकम् । जघान दैत्यसेनां तां समंतात् प्रलयप्रभा ॥१५॥ गृहीत्वा दैत्यपुत्रान् वै बद्ध्वा पाशैर्महामदान् । चिक्षिपुर्विवरे संज्ञालक्ष्मीसावित्र्य आहवे ॥१६॥ ततः क्रोधसमायुक्तो मददैत्यः प्रतापवान् । धनुः सज्जमथो कृत्वा मुमोच शरमुल्बणम् ॥१७॥ संहारास्त्रान् महाघोरा- त्तस्माज्जातो महाबलः । पुरुषः पर्वताकारः शक्तीनां बुभुजे बलम् ॥१८॥ अस्त्रस्य तत्र दैत्येंद्र ज्वालया पीडिता रणे । ☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸