मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 215, कुल 1023 में से
संदर्भ में पढ़ेंशीर्षक (Header): खं. २ अ. ४२ | पान ८९
॥ श्रीगणेशाय नमः ॥ गृत्समद उवाच । च्यवनेन तथा यज्ञेऽश्विनौ तौ भागसंयुतौ । कृत्वा चावाहितौ तत्र तत इंद्रोऽब्रवीद्वचः ॥१॥ इंद्र उवाच । अश्विनौ भिषजौ प्रोक्तौ मुने तस्मान्न योग्यता । यज्ञभागे तयोः स्वामिन् माहेयति वदाम्यहम् ॥२॥ अभवन् मुनि- मुख्यो सौ त्यक्त्वेंद्रवचनं ततः । समुद्युक्तश्च तौ तत्राव्हयितुं त्वसुरेश्वर ॥३॥ तत इंद्रोऽब्रवीद्विप्रं च्यवनं क्रोधसंयुतः । वज्रेणैव हनिष्यामि यद्यायातौ मुनेऽश्विनौ ॥४॥ च्यवनेन सहायेनाश्विनौ तत्रागतौ मखे । अश्विनौ तौ तदा दृष्ट्वा वज्रं दध्रे पुरंदरः ॥५॥ च्यवनेन सवज्रस्तु तस्य प्रस्तंभितो भुजः । तपसा स्वप्रभावेण मदं संससृजे मुनिः ॥६॥ ग्रसितुं स ययाविंदुं च्यवनेन प्रचोदितः । विस्मिता मुनयो देवा दृष्ट्वा वीर्यं महामुनेः ॥७॥ विकरालमुखं वीरं लेलिहानं नभस्तलम् । अंजनाद्रिसमं श्यामं ददृशुस्तं मदं मखे ॥८॥ भयभीतास्ततो देवसेना मुनिगणा जनाः । अन्ये प्रदुद्रुवुस्तत्र त्यक्त्वा यज्ञं दिशो दश ॥९॥ मदस्तु ग्रसितुं तत्रेंद्रसांनिध्यं समाययौ । तं दृष्ट्वा भयभीतः स च्यवनं शरणं ययौ ॥१०॥ इंद्र उवाच । अश्विनौ भागसंयुक्तौ मया मान्यौ कृतौ मुने । मदान् मां रक्ष विप्रेश ग्रसिष्यति न संशयः ॥११॥ ततस्तेनाभयं दत्तमिंद्राय शरणार्थिने । मदं च तपसा स्वेन वारयामास भार्गवः ॥१२॥ समाप्य च्यवनो यज्ञं ययौ पितृगृहे मुनिः । प्रणाम सभार्थ्यस्तं भृगुं योगविदांवरम् ॥१३॥ तेन संमानितः पुत्रस्तपःसिद्धश्च संनिधौ । च्यवनश्च कियत्कालमवसत् सेवनोत्सुकः ॥१४॥ कदाचिच्च्यवनं विप्रं भृगुः परमतत्त्ववित् । उवाच ज्ञानसिद्ध्यर्थं स्वसुतं कृपया युतः ॥१५॥ भृगुरुवाच । शृणु पुत्र प्रवक्ष्यामि किं कृतं दुःखदं त्वया । मदः स्वतपसा सृष्टो देवेंद्रस्य भयावहः ॥१६॥ तपोबलमदेनैवं कुरुषे कर्म तापस । मदयुक्तोसि पुत्र त्वं त्यज तं योगसेवया ॥१७॥ शृणु वृत्तांतमादौ त्वं मदीयं कथयामि ते । मया तन्मदयुक्तेन तपोवीर्येण यत्कृतम् ॥१८॥ सततं तपसा युक्तो प्रतपामि तपो महत् । मध्ये मुनीनां सर्वेषां श्रेष्ठोऽहं तपसाऽभवम् ॥१९॥ एकदा मुनयः सर्वे मिलिता गौतमीतटे । सिंहस्थे च गुरौ पुत्र तत्र वादो भवनमहान् ॥२०॥ पितामहं परं श्रेष्ठं जानामि सगुणं सुत । ब्रह्मरूपं महात्मानं सर्वस्रष्टारमंजसा ॥२१॥ सगुणं केचिदूचुश्च भिन्नदेहधरं शिवम् । केचिद्विष्णुं तथा ब्रह्मन् केचिद्ब्रह्माणमंजसा ॥२२॥ तत्र सर्वैरहं पुत्र प्रेषितः कार्यसिद्धये । परीक्षार्थं तपःसिद्ध- स्त्रिष्वेवं निश्चयार्थिभिः ॥२३॥ अहं पितामहं श्रेष्ठं जानाम्यत्र न संशयः । तं ययौ पितरं सिद्धं परीक्षार्थं महामुने ॥२४॥ तमप्रणम्य विश्वेशं समासीनो महासने । मां दृष्ट्वा दुर्विनीतं स कुपितश्च पितामहः ॥२५॥ उवाच मां सुरश्रेष्ठः