भारतकोश
मुद्गल पुराण (अष्टावतार चरितम्)

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

महर्षि मुद्गल द्वारा

स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)

DevanagariSanskritpublished1,023 पृष्ठ

पृष्ठ 214, कुल 1023 में से

संदर्भ में पढ़ें
पृष्ठ 214

येन संकुपितो मुनिः ॥३४॥ ततः सा राजकन्या तं पितरं प्राह लज्जिता । क्षुभिता भयभीता वै सुकन्या रचितांजलिः ॥३५॥ वने क्रीडनभावेन वल्मीके कंटकेन च । विद्धे मया महाराज ज्योतिषी नात्र संशयः ॥३६॥ ततो राजा वनं गत्वा वल्मीके संस्थितं मुनिम् । स्तुत्वा प्रसादयामास विनयेन समन्वितः ॥३७॥ ततस्तं राजशार्दूलमुवाच भृगुनंदनः । अज्ञानेन कृतं कर्म तव पुत्र्या नृपालक ॥३८॥ अतो मदीयसेवार्थं कन्यां देहि महामते । तदा सुखयुतं सर्वं भविष्यति न संशयः ॥३९॥ ततो राजा स्वयं भीतो ददौ कन्यां सुलोचनम् । तस्मै ससैन्यमादाय स्वपुरं प्रययौ मुदा ॥४०॥ सुकन्या राजपुत्री सा पतिं प्राप्य महामुनिम् । च्यवनं सेवने सक्ता त्यक्त्वा देहभ्रमं बभौ ॥४१॥ ततः कदाचित्तत्रैवाऽश्विनौ तौ भिषजां वरौ । आगतौ मुनिशार्दूलं प्रणम्य च पुरः स्थितौ ॥४२॥ मुनिः प्रोवाच तौ तत्र मां च यौवनशालिनम् । कुरुतं भिषजां श्रेष्ठौ सनेत्रं परमाद्भुतम् ॥ ४३ ॥ ततस्तं मुनिशार्दूलमूचतुश्चाश्विनौ वचः । देवैः साकं यज्ञभाजौ कुर्वावां तपसो बलात् ॥४४॥ तथेति मुनिना प्रोक्तं सभार्यं मुनिसत्तमम् । गृहीत्वा चाश्विनौ कुंडं ययतू रूपदं परम् ॥४५॥ तत्र स्नानं त्रयः कृत्वा पुनस्ते निःसृता बहिः । रूपलावण्यसंयुक्ताः कामदेवोपमा बभुः ॥४६॥ एकरूपधरान् दृष्ट्वा सुकन्या विस्मिताऽभवत् । नमोश्विभ्यां च मे भर्ता दातव्यो देवसत्तमौ ॥४७॥ तस्याः सतीस्वभावेन संतुष्टौ ददतुर्मुनिम् । च्यवनं तौ गतौ स्थानं मुनिश्च स्वस्थलं ययौ ॥४८॥ कदाचिन्नृपवर्यं तं शर्यातिं स्वाश्रमागतम् । सुकन्या तं पुरो दृष्ट्वा पितरं सस्वजे सती ॥४९॥ दृष्ट्वा मुनिवरं राजा यौवनस्थं महाद्युतिम् । पप्रच्छ तनयां वृत्तं तया सर्वं प्रकाशितम् ॥५०॥ ततस्तं प्रणनामाथ नृपस्तेनाऽपि मानितः । यज्ञार्थं सहितं पुत्र्या गृहीत्वा च्यवनं ययौ ॥५१॥ शर्यातिर्यज्ञसंभारांश्चक्रे वै हर्षितो भृशम् । आरेभे मुनिभिर्यज्ञं सर्वसंपद्विराजितः ॥५२॥ तत्र देवा मुदा सर्वे ययुरप्सरसां गणाः । मुनयश्च महाभागा नानादिग्भ्यः समाययुः ॥५३॥ वर्णाः सर्वे तथा तत्र मानवानां समाययुः । द्रष्टुं प्रह्लादयज्ञं तमानंदेन समन्विताः ॥ ५४ ॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदंतचरिते च्यवनतपोवर्णनं नामैकचत्वारिंशोऽध्यायः ॥

मुद्गल पुराण (अष्टावतार चरितम्) · पृष्ठ 214, कुल 1023 में से · BharatKosha