मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 213, कुल 1023 में से
संदर्भ में पढ़ेंखं. २ अ. ४१ पान ८७ महाभागैस्ततस्तं मुनिरब्रवीत् ॥९॥ शतं सौवर्णमुद्राणां मौल्यं किं मे त्वया कृतम् । ततो राजा धनं लक्षं मौल्यं च कृतवान् मुनेः ॥१०॥ न योग्यं मुनिना तत्र कथितं स ततो नृपः । ग्राममेकं मुनेर्मौल्यं चकार भयसंयुतः ॥११॥ मुनिना तन्न योग्यं वै कृतं तत्र नृपः पुनः । नगरं देशसंयुक्तं मौल्यं स कृतवान् मुनेः ॥१२॥ तथाऽपि मुनिना मान्यं न कृतं तत्ततो नृपः । राज्यमर्धं ततौ मौल्यं धीवरान् दातुमुद्यतः ॥१३॥ मुनिना कथितं तत्र मम योग्यं न मूल्यकम् । ततो राज्यं स संपूर्णं मौल्यं तस्य चकार ह ॥१४॥ ततोऽपि मुनिना दैत्य न मान्यं तत्कृतं ततः । भयभीतो नृपोऽमात्यैः कर्तव्यं नाभ्यपद्यत ॥१५॥ अधुना कोपसंयुक्तश्च्यवनः शापयिष्यति । मां तत्र नैव संदेहो मदैवेन प्रचोदितः ॥१६॥ ततस्तं व्याकुलं दृष्ट्वा च्यवनो मुनिरब्रवीत् । ब्राह्मणैः सह राजेंद्र देहि मौल्यं विचार्य च ॥१७॥ ततस्तत्रायायौ योगी गाणपत्यो महायशाः । भरद्वाजः स तं दृष्ट्वा नहुषः प्रणनाम ह ॥१८॥ भरद्वाजेन वृत्तांतो ज्ञातः सर्वो ह्यशेषतः । उवाच नृपशार्दूलं चिंतां मा कुरु भूमिप ॥१९॥ ब्राह्मणानां गवां राजन् कुलमेकं द्विधा कृतम् । कर्मसंसिद्धये धात्रा पूज्यं च द्विविधं समम् ॥२०॥ हविष्यं गोभिरत्यंतं घृतं वै यज्ञसिद्धये । मंत्राश्च ब्राह्मणैस्तत्र धृतास्तन्न संशयः ॥२१॥ गां दत्वा धीवरेभ्यस्त्वं बंधहीनं मुनिं कुरु । एवमुक्त्वा भरद्वाजो ययौ स्वेच्छाचरो मुनिः ॥२२॥ तथा नहुषभूपेन कृतं दृष्ट्वा प्रहर्षितः । च्यवनो मुनिशार्दूल आशिषं विविधां ददौ ॥२३॥ तं नृपं मानयित्वा स ययौ वनमनुत्तमम् । सुच्छायं सुफलं रम्यं सुजलं मुनिसत्तमः ॥२४॥ तत्र स्थित्वा तपस्तेपे महोग्रं तेजसा युतः । निराहारेण संयुक्तो वर्षाणां च सहस्त्रकम् ॥२५॥ एतस्मिन्नंतरे तत्र शर्यातिश्च नृपो ययौ । मृगयाभिरतो दैवात् मुदा युक्तस्तदाऽऽश्रमे ॥२६॥ तत्र तस्य शरीरे च वल्मीकस्तृणसंयुतः । जातस्तदपि घोरं वै तताप स तपो महत् ॥२७॥ नरान् सर्वांन्निवार्यैव संस्थितस्तत्र भूमिपः । मा कुरुध्वं प्रवेशं सच्यवनाश्रममंडले ॥ २८ ॥ एतस्मिन्नंतरे तत्र सुकन्या ससखी ययौ । वनं क्रीडार्थमुग्रेण तपसा संयुतं मुनेः ॥ २९ ॥ भ्रमंत्या चालिभिस्तत्र दृष्टो वल्मीक उत्तमः । तत्र ज्योतिर्मये नेत्रे दृष्ट्वा सा विस्मिताऽभवत् ॥३०॥ अज्ञानेन तथा मुग्धभावाद्धै कंटकेन च । कन्यया चक्षुषी भिन्ने ज्योतीरूपे महामुनेः ॥३१॥ ताभ्यां रक्तं प्रसुस्राव दृष्ट्वा सा भयसंकुला । स्वनिवासं ययौ शीघ्रं सखीभिरसुरेश्वर ॥३२॥ ततः पुरीषमूत्रे वै सैन्यानां बंधमागते । भूपस्य तेन शर्यातिर्भयभीतो बभूव ह ॥३३॥ पप्रच्छ सर्वलोकान् स मुनेराश्रममंडले । छिद्रं केन कृतं घोरं