भारतकोश
मुद्गल पुराण (अष्टावतार चरितम्)

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

महर्षि मुद्गल द्वारा

स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)

DevanagariSanskritpublished1,023 पृष्ठ

पृष्ठ 221, कुल 1023 में से

संदर्भ में पढ़ें
पृष्ठ 221

खं. २ अ. ४५ पान ९५


॥ श्रीगणेशाय नमः ॥ गृत्समद उवाच । ततः कदाचिद्दैत्येंद्रैर्बोधितोऽभून् मदासुरः । विजयाय समुद्युक्तस्त्रैलोक्यस्य मदान्वितः ॥१॥ स शुक्रमुपसंगम्य तं प्रणम्य विशेषतः । संगृह्य मुनिमुख्यं वै विजयायाऽकरोन् मतिम् ॥२॥ नानादिग्भ्यः समायाता असुरा दैत्यपास्ततः । संनद्धास्त्वरमाणाश्च राक्षसाः प्रययुर्मदम् ॥३॥ चतुरंगबलैर्युक्तः संख्यातीतैर्मदासुरः । निर्ययौ दिग्विजयर्थं स संस्तुतो बंदिभिर्नृपः ॥४॥ दैत्याः केऽपि महाघोरा निःसृतास्तत्पुरो बभुः । मेरुमंदरसंकाशा यमाय भयदायकाः ॥५॥ नानास्त्रास्त्रसंयुक्ताः कवचादिसमावृताः । नानावाहनगास्ते वै कंपयंतो वसुंधराम् ॥६॥ केचित्पाषाण- हस्ताश्च केचिद् वृक्षधरास्तथा । पर्वतस्य धराः केचिन् महाबलपराक्रमाः ॥७॥ नानाभयंकराकारा बभुः सैन्ये समंततः । तदा संशयिताः सर्वे ब्रह्मांड लोकासंकुले ॥८॥ पृथिवीजयने सक्ता दैत्याः परमदारुणाः । आदौ तत्रासुरेशानमदासुर- सुचोदिताः ॥९॥ केचित् कृत्वा मृता युद्धं केचित्तान् शरणं ययुः । राजानो भयसंयुक्ताः केचिच्च्यवनमाश्रिताः ॥१०॥ प्रलयं मेनिरे लोका भूमिस्थाः सर्वशस्तदा । दैत्या भूमंडलं जित्वाऽभवंस्ते हर्षसंयुताः ॥११॥ सप्तद्वीपवतीं पृथिवीं जित्वा दैत्या महासुराः । देवानां जयने बुद्धिं चक्रुः परमदारुणाः ॥१२॥ वायुवेगसमाः सर्वे गताः स्वर्गं क्षणार्धतः । वनानि ते बभंजुश्च देवोद्यानानि दैत्यप ॥१३॥ देवैः संज्ञापितस्तत्र सुरेंद्रः क्रोधसंयुतः । युद्धाय शस्त्रसंयुक्तैर्देवैर्वै तत्परोऽभवत् ॥१४॥ बृहस्पतिं समागम्य प्रणनाम सुरेश्वरः । सुरेश्वरो द्विजेंद्रेण मानितो भक्तिसंयुक्तः ॥१५॥ तत इंद्रं जगादाऽसौ महाकांतिर्बृहस्पतिः । शृणु देवेंद्र वाक्यं मे कालकर्मयुतं महत् ॥१६॥ शक्तेः स वरदानेन दुर्जयः स मदासुरः । अतः सर्व परित्यज्य पलायध्वं सुरेश्वराः ॥१७॥ एवमुक्ते च जीवेन पलायंत च देवताः । बृहस्पतिसमायुक्तास्त्यक्त्वा स्वर्गादिकं भयात् ॥१८॥ ततो मदासुरो ज्ञात्वा सर्वं देवविचेष्टितम् । दैत्यैर्युक्तः सुसंहृष्ट आययावमरावतीम् ॥१९॥ तत्रेंद्रासनगो भूत्वा रराज स मदासुरः । सेव्यमानोऽप्सरोभिश्च गंधर्वैर्गानतत्परैः ॥२०॥ विविधैर्दिव्यभोगैः स सेव्यमानोऽमरैस्तथा । बलदर्पसमायुक्तो दैत्यैर्नानाविधैर्बभौ ॥२१॥ देवानां स पदेष्वेव स्थापयामास दैत्यपान् । तारकाद्या महावीर्याः संस्थिता बुभुजुः सुखम् ॥२२॥ ततस्तैः स विचार्यैव ययौ ब्रह्मपदं महत् । विधाता स्थानमुत्सृज्य कैलासं तद्भयाद्ययौ ॥२३॥ सत्यलोके सुराः सर्वे बभ्रमुर्यत्र तत्र वै । नानाभोगयुता दुष्टा रेजिरे मदसंयुताः ॥२४॥ विमानैर्वाह्यमानास्ते मनोवेगैः सुखप्रदैः । कामगैश्च महादैत्या मेनिरे कृतकृत्यताम्॥२५॥ मदासुरस्तत्र राजा ब्रह्मासनसमाश्रितः । मुदं लेभेऽसुरेशानैः संवृतः कालभीतिदैः ॥२६॥