मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 222, कुल 1023 में से
संदर्भ में पढ़ेंततस्तैः संवृतो दैत्यो ययौ वैकुंठमादरात् । ज्ञात्वाऽऽगतं महाक्रूरं पलायत रमापतिः ॥२७॥ सोऽपि कैलासमगमद्विष्णुः स्वैः पार्षदैर्वृतः । मदासुरो महादुष्टो वैकुंठे संस्थितोऽभवत् ॥२८॥ नारायणासने संस्थो दैत्यराजैर्महाबलैः । संवृतः शुशुभेऽतीव नानाभोगसमन्वितः ॥२९॥ सुखं चानुपमं तत्र वैकुंठे विष्णुना कृतम् । तदेव बुभुजे सोऽपि दैत्यैर्दुष्टैः समन्वितः ॥३०॥ विमानानि विचित्राणि देवोद्यानानि सर्वशः । कल्पवृक्षयुतान्येते दैत्यपाः समभुंजत ॥३१॥ ततस्तैः सहितो वीरः प्रतापी स मदासुरः । कैलासं शंकरस्थानं ययौ रणविधित्सया ॥३२॥ शिवोऽपि स्वगणैर्युक्तो देवैर्विष्णुवा- दिभिर्वृतः । शक्तिलोकं जगामाऽथ भयसंकुलितो मदात् ॥३३॥ दैत्येश्वरो महादैत्यैः कैलासे संस्थितोऽभवत् । अतुलं सुखमत्यंतं बुभुजे तैः समन्वितः ॥३४॥ शिवेन रचितं पुण्यं कैलासे कल्पितप्रदम् । नानाश्चर्ययुतं हृष्टो दैत्यस्तद्बुभुजे बलात् ॥३५॥ मोहितो भोगभावेन धन्यं चैव मदासुरः । मेने स्वं सर्वदनुजैस्त्रिपुरप्रमुखैः खलैः ॥३६॥ देवाः सर्वे ययुः शक्तेर्लोकं तद्भयसंकुलाः । शक्तिस्तान् गणसंयुक्तान् समाश्वास्य स्थिताऽभवत् ॥३७॥ शिवादिनादिमाया सा जगाद वदतां वरा । जगतश्च जगन्माता सृष्टिस्थित्यंतकारिणी ॥३८॥ आदिशक्तिरुवाच । मा भयं देवदेवेशाः कुरुध्वं मम सन्निधौ । तिष्ठताऽत्र न दैत्योऽयं कदापि त्वागमिष्यति ॥३९॥ मदीयवरदानेन गर्वयुक्तो बभूव ह । मदासुरो महाभागो वचो मम करिष्यति ॥४०॥ आगमिष्यति दैत्यश्चेत्तदा मां पूजयिष्यति । मदीयमवमानं वै न करिष्यति देवपः ॥४१॥ कदाचित्तेन गर्वेण ममलोकनिवासिनः । पीडिताश्चेत् क्षणं सद्यो हनिष्यामि न संशयः ॥४२॥ एवमाश्वासिता देवाः शक्त्या ते तत्र संस्थिताः । भयं त्यक्त्वा च दैत्येभ्यो दुःखयुक्ता महासुर ॥४३॥
॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदंतचरिते मदासुरस्वर्गविजयो नाम पंचचत्वारिंशोऽध्यायः ॥