भारतकोश
संग्रह पर लौटें

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

महर्षि मुद्गल द्वारा

स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)

DevanagariSanskritpublished1,023 पृष्ठ

ततस्तैः संवृतो दैत्यो ययौ वैकुंठमादरात् । ज्ञात्वाऽऽगतं महाक्रूरं पलायत रमापतिः ॥२७॥ सोऽपि कैलासमगमद्विष्णुः स्वैः पार्षदैर्वृतः । मदासुरो महादुष्टो वैकुंठे संस्थितोऽभवत् ॥२८॥ नारायणासने संस्थो दैत्यराजैर्महाबलैः । संवृतः शुशुभेऽतीव नानाभोगसमन्वितः ॥२९॥ सुखं चानुपमं तत्र वैकुंठे विष्णुना कृतम् । तदेव बुभुजे सोऽपि दैत्यैर्दुष्टैः समन्वितः ॥३०॥ विमानानि विचित्राणि देवोद्यानानि सर्वशः । कल्पवृक्षयुतान्येते दैत्यपाः समभुंजत ॥३१॥ ततस्तैः सहितो वीरः प्रतापी स मदासुरः । कैलासं शंकरस्थानं ययौ रणविधित्सया ॥३२॥ शिवोऽपि स्वगणैर्युक्तो देवैर्विष्णुवा- दिभिर्वृतः । शक्तिलोकं जगामाऽथ भयसंकुलितो मदात् ॥३३॥ दैत्येश्वरो महादैत्यैः कैलासे संस्थितोऽभवत् । अतुलं सुखमत्यंतं बुभुजे तैः समन्वितः ॥३४॥ शिवेन रचितं पुण्यं कैलासे कल्पितप्रदम् । नानाश्चर्ययुतं हृष्टो दैत्यस्तद्बुभुजे बलात् ॥३५॥ मोहितो भोगभावेन धन्यं चैव मदासुरः । मेने स्वं सर्वदनुजैस्त्रिपुरप्रमुखैः खलैः ॥३६॥ देवाः सर्वे ययुः शक्तेर्लोकं तद्भयसंकुलाः । शक्तिस्तान् गणसंयुक्तान् समाश्वास्य स्थिताऽभवत् ॥३७॥ शिवादिनादिमाया सा जगाद वदतां वरा । जगतश्च जगन्माता सृष्टिस्थित्यंतकारिणी ॥३८॥ आदिशक्तिरुवाच । मा भयं देवदेवेशाः कुरुध्वं मम सन्निधौ । तिष्ठताऽत्र न दैत्योऽयं कदापि त्वागमिष्यति ॥३९॥ मदीयवरदानेन गर्वयुक्तो बभूव ह । मदासुरो महाभागो वचो मम करिष्यति ॥४०॥ आगमिष्यति दैत्यश्चेत्तदा मां पूजयिष्यति । मदीयमवमानं वै न करिष्यति देवपः ॥४१॥ कदाचित्तेन गर्वेण ममलोकनिवासिनः । पीडिताश्चेत् क्षणं सद्यो हनिष्यामि न संशयः ॥४२॥ एवमाश्वासिता देवाः शक्त्या ते तत्र संस्थिताः । भयं त्यक्त्वा च दैत्येभ्यो दुःखयुक्ता महासुर ॥४३॥

॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदंतचरिते मदासुरस्वर्गविजयो नाम पंचचत्वारिंशोऽध्यायः ॥

खं. २ अ. ४६ पान ९७ ॥ श्रीगणेशाय नमः ॥ गृत्समद उवाच । कैलासे दैत्यपैर्युक्तः संस्थितोऽभून् मदासुरः । कियत्कालं प्रभुआनो भोगान् परमदुर्लभान् ॥१॥ गते कियति काले च त्रिपुराद्यास्तमब्रुवन् । देवानां छेदने दुष्टाः संसक्ता मदसंयुताः ॥२॥ त्रिपुराद्या ऊचुः । शृणु राजन् महाभाग मदासुर हितं वचः । देवाः शंभुमुखाः सर्वे शक्तिलोकं गता बभुः ॥३॥ तत्र शक्त्या विशेषेण मानिताः सुरसत्तमाः । भयहीनाः सुखे सक्ता बुभुजुर्विविधं सुखम् ॥४॥ अस्माकं शत्रवः सर्वे देवा दैत्य मताः सदा । दैत्यानां कदने सक्ताः समर्थाश्चेन्न संशयः ॥५॥ हिरण्याक्षादयः सर्वे सूदिता देवपैः पुरा । छिद्रदर्शनसंयुक्तैरस्माकं तैर्विशेषतः ॥६॥ सर्वत्र ख्यातिमत्यंतं जानंति सकला जनाः । देवानां वैरिभावं च परस्परवधे रतम् ॥७॥ अस्माकं शक्तिरत्यंतं वैरिभावे प्रवर्तिता । मान्या तदपि दैत्येंद्र देवानां सा हिते रता ॥८॥ अतः शक्तिपुरे स्वामिन् गमिष्यामो न संशयः । हनिष्यामो- ऽमरान् सर्वान् वैरिभावं समाश्रितान् ॥९॥ दैत्यानां वचनं श्रुत्वा प्रतापी स मदासुरः । उवाच तान् महादैत्यो विनयेन समन्वितः ॥१०॥ मदासुर उवाच । शृणुध्वं त्रिपुराद्या मे वचनं हितकारकम् । शक्तिप्रसादसंभूतमैश्वर्यं सकलं च मे ॥११॥ इष्टा देवी मदीया सा तां भजामि विशेषतः । अतस्तस्या हितं मान्यं कर्तव्यं सकलैः सदा ॥१२॥ तां च देवा ययुः सर्वे शरणं नात्र संशयः । मदीयदासभावेन यंत्रिता शक्तिरादरात् ॥१३॥ देवानां पक्षपातेन सह तैर्नागताऽभवत् । अस्माकं तु वधार्थाय महामाया च दानवाः ॥१४॥ अतः प्रभजने तस्या आसक्ता ये भवंति वै । ते संमान्या मया नित्यं मा वैरं कुरुताऽसुराः ॥१५॥ मदासुरवचः श्रुत्वा दैत्यपास्तं पुनर्जगुः । क्रोधयुक्ता मदोत्सिक्ता देवानां तु वधे रताः ॥१६॥ दैत्येशा ऊचुः । मदासुर शृणु स्वामिन् पुरावृत्तं कथानकम् । हिरण्यकशिपुः प्रोक्तो ब्रह्मलब्धवरो महान् ॥१७॥ अभवन् बहवश्चान्ये दैत्येशा देवशत्रवः । देवपक्षाश्रयं सर्वे त्यक्त्वा स्वं धर्ममाश्रिताः ॥१८॥ कश्यपस्य सुतौ चैव तावुभौ देवसंश्रयम् । त्यक्त्वा तु देवसंहारे दैत्येशौ तत्परौ पुरा ॥१९॥ अतस्त्वयाऽपि कर्तव्यं देवानां मूलनाशनम् । असुराश्च सुराः प्रोक्ता वेदेऽपि च विरोधिनः ॥२०॥ शक्तिलोकं गमिष्यामो भक्तियुक्ता वयं प्रभो । देवास्तान्निर्दलिष्यामः खलु शक्तेः प्रसंनिधौ ॥२१॥ यदि शक्तिर्महामायाऽस्माकं पक्षं समाश्रिता । तदा तां पूजयिष्यामः कुलदैवतमादरात् ॥२२॥ अन्यथा योधयिष्यामो वयं शक्त्या न संशयः । शत्रुपक्षाश्रितां ज्ञात्वा नाऽत्र दोषः प्रवर्तते ॥२३॥ दैत्येशानां वचः श्रुत्वा दुर्मतिः स मदासुरः । तथेति सत्यमत्यंतं मानयामास दैत्यपः ॥२४॥ तदैव दैत्यसंयुक्तो ययौ लोकं मदासुरः । शक्तेश्च सन्निधौ दूतं प्रेषयामास

दुर्मतिः ॥२५॥ तारकं प्रजगादाऽसौ गच्छ देवीं महाबल । सामयुक्तं वदाऽऽशु त्वं महामायां महासुर ॥२६॥ तं प्रणम्य ययौ वेगाच्छक्तेः सन्निधिमादरात् । तारको मानितस्तैस्तु देवैः परमदारुणः ॥२७॥ नत्वा शक्तिं महामायां कृतांजलिपुटो- ऽसुरः । तारकस्तामुवाचाऽथ सामयुक्तं वचः खलः ॥२८॥ तारकासुर उवाच । शृणु शक्ते महामाये आगतः स मदासुरः । दर्शनार्थं च ते मातस्तेनाऽहं प्रेषितोऽधुना ॥२९॥ तेनोदितं च शक्ते त्वं वचनं शृणु मानदे । भक्तेन भक्तिसंयुक्तं भावज्ञे जगदंबिके ॥३०॥ अस्माकं कुलदेवी तु त्वमेवात्र न संशयः । असुरा हि वयं सर्वे त्वदीयाः सेवका मताः ॥३१॥ यत्राऽसुरा विराजंति सुरास्तत्र हतप्रभाः । भवंति नात्र संदेहः स्वभावाच्छत्रवो मताः ॥३२॥ अतो देवान् समुत्सृज्य तिष्ठ त्वं पूजिता- ऽसुरैः । अस्माकं शत्रवो देवास्त्वदीयाः शत्रवो मताः ॥३३॥ प्रणमंतो वयं यावत्तावद्देवनिकृंतनम् । करिष्यामो न संदेहस्तस्मान् मातस्त्यजाऽऽशु तान् ॥३४॥ एकं पक्षं समाश्रित्य तिष्ठ त्वं जगदंबिके। असुराणां सुराणां वा पूजिता सततं परे ॥३५॥ इत्येवं कथितं देवि मदस्य वचनं मया । कुरु त्वं भक्तराजस्य पालनं परमादरात् ॥३६॥ गृत्समद उवाच । मदस्य वचनं क्रूरं तारकेण प्रकाशितम् । तच्छ्रुत्वा कुपिता देवी तं जगाद महासुरम् ॥३७॥ शक्तिरुवाच । मदीयं जगदंबेति नाम वेदे प्रकाशितम् । केन मार्गेण दैत्येश पक्षमेकं समाश्रये ॥३८॥ यथा देवास्तथा दैत्या मान्या मे नात्र संशयः । देवैर्दैत्यैश्च कर्तव्यः स्वस्वधर्मो महासुर ॥३९॥ पाताले राज्यमानंदाद्दैत्यैः कर्तव्यमंजसा । स्वर्गेषु सर्वदा देवैः कर्तव्यं स्वस्वभावजम् ॥४०॥ विपरीते हनिष्यामि क्रुद्धाऽहं नात्र संशयः । अतो दैत्यैः प्रगंतव्यं पाताले वै मदाज्ञया ॥४१॥ शक्तेर्वचनमाकर्ण्य क्रुद्धः सोऽपि महासुरः । उवाच तां महाशक्तिं भयं त्यक्त्वा प्रभावतः ॥४२॥ तारक उवाच । मा गर्वं कुरु शक्ते त्वं शत्रुपक्षसमाश्रिते । तपसा वयमुत्कृष्टा जाताः स्वस्य न संशयः ॥४३॥ कर्मणा त्वं प्रसृजसि जगंति जगदंबिके । कर्माधीनमिदं सर्वं तत्र त्वं किं करिष्यसि ॥४४॥ कर्मणा दैत्यराजश्च प्रतापी स मदासुरः । ब्रह्मांडाधिपतिर्भूत्वा देवान् सर्वान् हनिष्यति ॥४५॥ युद्धाय सज्ज त्वं देवि देवैःसह जगन्मयि । असुरैश्च महाभागैर्गच्छामि मदसंनिधौ ॥४६॥ एवमुक्त्वा महाशक्तिं तारकः क्रोधसंयुतः । जगाम शक्तिलोकाद्वै मददैत्यस्य संनिधौ ॥४७॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खंडे एकदंतचरिते तारकासुरसामवर्णनं नाम षट्चत्वारिंशोऽध्यायः ॥

खं. २ अ. ४७ पान ९९ ॥ श्रीगणेशाय नमः ॥ गृत्समद उवाच । आगतं तारकं दृष्ट्वा हर्षितः स मदासुरः । दैत्यैः सह महासाधो प्रहृष्टश्चाभवत् खलः ॥१॥ मदासुरं प्रणम्याऽसौ कथयामास तारकः । वृत्तांतं देवपक्षे च संश्रितं कुलदैवतम् ॥२॥ तच्छ्रुत्वा मद्यपो दैत्यः प्रतापी स मदासुरः । क्रोधयुक्तोऽभवत्तत्र देवान् हंतुं समुद्यतः ॥३॥ सन्नद्धैर्दैत्यपैः सर्वैः सन्नद्धश्च मदासुरः । शक्तिलोकं जगामाऽथ महाकाल इवाऽऽबभौ ॥४॥ पुरःप्रांते स्थितान् शक्तेर्गणान् परमविश्रुतान् । ताञ्जघ्नुश्च महादैत्याः शस्त्रैः परमदारुणैः ॥५॥ छिन्नांगास्ते पलायंत गताः स्वनगरेऽभवन् । वृत्तांतं कथयामासुर्दैत्यानामागमात्मकम् ॥६॥ श्रुत्वा तत्र महाशक्तिर्देवैः सर्वैर्महाबलैः । शंकरादिभिरन्वीता ययौ संग्राममंडलम् ॥७॥ सिंहारूढा चतुर्बाहुः खड्गचर्मधरा बभौ । धनुर्बाणधरा क्रोधान्नानाशक्तिसमन्विता ॥८॥ वामांगाच्छ्रीः समुत्पन्ना सावित्री दक्षिणांगतः । हृदयात् पुरतः संज्ञा तासां सैन्यं पृथग्बभौ ॥९॥ विष्णुशंकरमुख्याश्च सन्नद्धा वाहने स्थिताः । स्वस्वसैन्येन संयुक्ता बभुः कालसमाः पुरः ॥१०॥ इत्यादिशक्तिभिः शक्तैर्देवैश्च संयुतं महत् । सैन्यं दैत्येंद्रमुख्यैस्तैर्दृष्टं परमदारुणम् ॥११॥ ततो दैत्यैश्च शस्त्रौघैस्ताडितं सहसा बलात् । शक्तिसैन्यं महाघोरं क्रोधयुक्तं बभूव ह ॥१२॥ शक्त्या संप्रेषिता देवा युयुधू रणमंडले । कालिकाद्या महायुद्धे शक्तयः कुपिता भृशम् ॥१३॥ अकस्मान्मिलिते सैन्ये परस्परजयैषिणी । दैत्यानां चैव देवानां मरणे कृतनिश्चये ॥१४॥ सैन्यानां रजसा तत्र हृतं ज्ञानं समंततः । न प्रकाशो रवेरासीत् स्वपरज्ञानकारकः ॥१५॥ हेषितैः श्वेविडतैस्तत्र बृंहितै रथनेमिभिः । वादित्राणां महाशब्दैर्नादयुक्ता दिशोऽभवन् ॥१६॥ शंखनादैः सिंहनादैर्नानादैश्च दैत्यप । बधिरा इव योधास्ते संजाता रणमूर्धनि ॥१७॥ शस्त्रैरस्त्रैरनेकैश्च परिजघ्नुः समंततः । द्रुमैः पर्वतखंडैश्च स्वान् परान् युद्धदुर्मदाः ॥१८॥ मृताः केचित् क्षताः केचित् केचिच्छस्त्रधरा बभुः । निजघ्नुः परवीरांस्ते स्वबलेन महाबलाः ॥१९॥ भग्ने शस्त्रे समग्रे ते मल्लयुद्धपरायणाः । युयुधुः क्रोधसंयुक्ताः शस्त्रहीनास्तथाऽपरे ॥२०॥ कबंधा युयुधुस्तत्र शस्त्रहस्ता महाबलाः । स्वान् परानपि जघ्नुस्ते स्वपरज्ञानवर्जिताः ॥२१॥ बाणैर्बाणान् समाक्षुब्धा विजघ्नुश्च परस्परम् । खड्गैः खड्गांस्तथा चान्ये गदाभिश्च गदा भृशम् ॥२२॥ तोमरैश्च महावीराः पर्शुभिस्तु तथाऽपरे । भिंदिपालैश्च पाशैश्च परिजघ्नुः परस्परम् ॥२३॥ रथारूढा गजारूढैर्गजारूढाः पदातिभिः । अश्वारूढैस्तथाऽन्येऽपि युयुधुर्जातसंभ्रमाः ॥२४॥ तुमलं दैत्यदेवानां युद्धं तत्र प्रवर्तितम् । उभयोर्नाशकं घोरं वक्तुं नैव प्रशक्यते ॥२५॥ प्रवाहबहुले रक्तै रजः संप्लावितं महत् । प्रकाशस्तत्र संजातः

खं. २ अ. ४७ पान १०० स्वपरज्ञानकारकः ॥२६॥ प्रबोध्य केचिद्दैत्यांस्तान् सुरा जघ्नुर्महाबलाः । असुराश्च सुरांस्तद्वन् महाक्रोधसमन्विताः ॥२७॥ शक्तयः कुपितास्तत्र दैत्यांश्चैव प्रजहिरे । शस्त्रास्त्रैर्विविधैः सर्वाः पिपिषुश्चासुरेश्वरान् ॥२८॥ दैत्याः प्रकुपिता अन्ये शस्त्रास्त्रैर्देवमंडलम् । छिन्नं भिन्नमिमे चक्रुः क्रोधयुक्ता महाबलाः ॥२९॥ मेरुशीताचलग्रख्या दैत्या देवाः स्थिता बभुः । चेलुर्न च पदं तत्र परस्परवधे रताः ॥३०॥ अभवन् शोणितौघानां महानद्यः समंततः । देवदैत्यशरीरेभ्यः प्रसूताश्च सहस्रशः ॥३१॥ मेदोमांसमहापंकाः प्रपेतुर्धरणीतले । देवाश्च शतशो दैत्या गतप्राणा रणेऽसुर ॥३२॥ मांसं कर्दमरूपेण यत्र तत्र स्थितं रणे । मृतानां न च संख्याऽऽसीन् मार्गरोधनकारिणाम् ॥३३॥ असृक्प्रवाहजस्तत्र पूरः संददृशे जनैः । जलौघ इव दैत्येंद्र महामोहप्रवर्धनः ॥३४॥ मृतैर्गजैस्तथा भग्नै रथैर्वाजिभिरेव च । नानापशुगणैरुष्ट्रैः पक्षिभिर्दुर्गमं कृतम् ॥३५॥ मुमूर्षवस्तत्र पेतुर्मृताः केचिच्च खंडिताः । तदपि क्रोधसंयुक्ताः प्रयत्नं चक्रुराहताः ॥३६॥ एवं दश दिनान्येव दिवारात्रं महारणम् । बभूव समये तस्मिन् देवदैत्यसमुद्भवम् ॥३७॥ पलायनपरा देवास्ततो जाता महारणे । दशदिक्षु भयोद्विग्नाः पलायंताऽसुरेश्वर ॥३८॥ तद् दृष्ट्वा परमाश्चर्यं वज्रभृद्देवपैर्वृतः । संग्राममकरोद्धोरं दैत्यनाशनकरं परम् ॥३९॥ वज्रपातेनासुरान् स चूर्णयामास वेगतः । देवेंद्रो विविधैरन्यैर्मयाद्या आयुधैस्तथा ॥४०॥ मृता दैत्यगणाः केचित् भृशं केचिच्च मूर्च्छिताः । मुमूर्षवः परे तत्र कृता वै वज्रिणाऽभवन् ॥४१॥ शक्त्यादिशस्त्रपातेन वह्निचंद्रयमादयः । असुरान् मारयामासुः क्रोधयुक्ताः सुरेश्वराः ॥४२॥ ततो भग्नं बलं सर्वं दैत्यानां भयसंकुलम् । दुद्राव दिक्षु सर्वासु त्रातारं नाभ्यपद्यत ॥४३॥ ततः संहर्षिता देवास्तथा देवगणाः परे । जयशक्ते महामायेऽवदंस्ते जय सर्वदा ॥४४॥ ततः क्रोधसमायुक्तस्तारको दैत्यपैर्वृतः । आययौ क्रोधदीप्ताक्षो योद्धुं शक्रेण वीर्यवान् ॥४५॥ आगत्य रणभूमिं स तमुवाच पुरंदरम् । गर्वयुक्तं महोग्रं च मोहितो मदसंयुतः ॥४६॥ तारक उवाच । किं त्वं युध्यसि देवेंद्र दैत्यपैः परमाहतैः । मया युक्तैकबाणेन न समोऽसि सुराधिप ॥४७॥ बलेन यदि संयुक्तस्तदा किममरावतीम् । त्यक्तवान् वद मे वाक्यं वृथा मृत्युमवाप्स्यसि ॥४८॥ इति तस्य वचः श्रुत्वा सुरेंद्रस्तमुवाच ह । क्रोधसंरक्तचक्षुर्भर्भक्षयन्निव दानवान् ॥४९॥ इंद्र उवाच । तारक त्वं वल्गसि किं पश्य मे पौरुषं महत् । आसुरं प्रहरिष्यामि सैन्यं ते पश्यतो महत् ॥५०॥ पश्चात्त्वां च क्रमेणाऽहं मदं सबलवाहनम् । हत्वाऽभिवाद्य शक्तिं च

खं. २ अ. ४८ पान १०१ गमिष्याम्यमरावतीम् ॥५१॥ आदौ शक्तिविहीनोऽहं किं करोमि पराक्रमम् । अधुना शक्तिसंयुक्तः कदनं ते करोम्यहम् ॥५२॥ किं बहूक्तेन दैत्येंद्र दर्शय स्वपराक्रमम् । नोचेद्गच्छस्व पातालं मिथ्या वल्गसि किं वचः ॥५३॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदंतचरिते इंद्रतारकसमागमो नाम सप्तचत्वारिंशोऽध्यायः ॥ ॥ श्रीगणेशाय नमः ॥ गृत्समद उवाच । एवं गदित्वा देवेंद्रो दैत्येंद्रं क्रोधसंयुक्तम् । तारकं शरवर्षेण ववर्ष रणमंडले ॥१॥ एकस्मान् मंत्रिताद्वाणादनंतैर्निःसृतैः शरैः । बभूवुर्दैत्यसंघाताः पीडितास्तैः समंततः ॥२॥ ततो दैत्यः स दैत्येशाः प्रधानप्रमुखाः स्थिताः । शरवर्षाणि सर्वत्र चक्रुः परमदारुणाः ॥३॥ तैर्बाणैर्देवसैन्यानां हता वीरा अनेकशः । छिन्नांगाः पतितास्तत्र रुधिरौघप्रवर्षिणः ॥४॥ यत्र तत्र पलायंत देवा भयसमाकुलाः । त्रातारं नाभ्यपश्यंत प्रलयेषु यथा प्रजाः ॥५॥ तेषां तत्कर्म दृष्ट्वा ते ववृषुः सुरपा शरान् । अग्निधर्मादयस्तत्र कालमृत्युपमान् दृढान् ॥६॥ तैराहतं बलं पूर्णं दैत्यानां यत्र तत्र ते । मृता मुमूर्षवः सर्वे बभूवू राक्षसा मृधे ॥७॥ ततोऽतिकुपितो दैत्यस्तारकोऽतिभयानकः । निष्कास्य सुदृढं बाणं मोचयामास दारुणम् ॥८॥ आकर्ण धनुराकृष्य दीप्तो बाणो सुरेश्वर । इंद्रस्य सहसागत्य हृदि संपतितोऽभवत् ॥९॥ तेन संपीडितो देवो मूर्च्छितो देवनायकः । मुहूर्तात् सावधानोऽभूद्वज्रं हस्ते समाददे ॥१०॥ वज्रेण ताडितोऽत्यंतं तारको दैत्यपुंगवः । पतितः स धरापृष्ठे गतप्राण इवाऽभवत् ॥११॥ एवं वरुणवह्न्याद्यैर्वायुधर्मकुबेरकैः । हता दैत्या अनेके च पतिता मूर्च्छिता मृताः ॥१२॥ हाहाकारश्च सर्वत्र दैत्यसैन्ये प्रवर्तितः । पलायंत च दिक्प्रांते त्रासिता देवनायकैः ॥१३॥ ततः शुक्रेण ते सर्वे तारकाद्या महासुराः । विद्यया सावधानाश्च कृता युद्धाय सज्जिताः ॥१४॥ अग्निमंत्रसमायुक्तं बाणं धनुषि संदधे । तारकः क्रोधसंयुक्तो दाहकं स मुमोच ह ॥१५॥ पतितो देवसैन्ये च बाणस्तस्मान् महाबलः । निःसृतः पुरुषस्तत्र भक्षयामास वै सुरान् ॥१६॥ मेरुमंदरसंकाशो विचचार महाबलः । देवसैन्येषु दैत्येंद्र प्रलयाग्निसमोऽदहन् ॥१७॥ अग्निज्वालाश्च सर्वत्र समुद्भूता भयानकाः । अदहद्देवसंघांस्तान् वाहनैः सहितान् मृधे ॥१८॥ हाहाकाररवा देवाः पलायनमकुर्वत ।

ख. २ अ. ४८ पान १०२ तत्रापि पुरुषोऽत्यंतं भक्षयामास चामरान् ॥१९॥ ततः क्रोधसमायुक्तो महेंद्रो वारुणं महत् । अस्त्रं धनुषि संगृह्य मृधे तत्याज दारुणम् ॥२०॥ तस्माच्च जलधाराऽभूत् समंतान्निःसृता बहु । ववर्षुरतुलां वृष्टिं मेघाः सर्वत्र गर्जितैः ॥२१॥ जलौघेन महावह्निः प्रशांतः सहसा कृतः । अस्त्रेण पुरुषः सोऽपि पतितो रणमूर्धनि ॥२२॥ ततो देवगणाः सर्वे सावधाना बभूविरे । दैत्या वृष्ट्या च वातेन पीडिता बलसंयुताः ॥२३॥ विद्युज्जवालाभिरत्यंतं दग्धाः केचिन् महासुराः । जलौघेन तथा केचिद्वाहिताश्च सवाहनाः ॥२४॥ दैत्यानां प्रबलं सैन्यं पीडितं वारुणेन च । हाहाकाररवा दैत्या ययुर्मृत्युं भयानकम् ॥२५॥ ततः स तारको दैत्यः क्रोधसंरक्तलोचनः । वायव्यस्त्रं तन्निवृत्त्यर्थं संदधेऽतिभयानकम् ॥२६॥ मुमोच धनुराकृष्य देवसैन्ये महासुरः । तेन वारुणमस्त्रं च ग्रस्तं वै शांतिमागमत् ॥२७॥ वायुना प्रबलेनैव घूर्णिता देववाहिनी । शुष्कपत्रसमा तत्र बभ्राम समरांगणे ॥२८॥ ततः समागतो दैत्यस्तारकोऽतिभयानकः । खड्गेन देवराजं तं जघानामर्षतो दृढम् ॥२९॥ खड्गाघातेन देवेंद्रं पतितं मूर्च्छया भृशम् । संगृह्य दैत्यराजस्तु तारकः स्वबलं ययौ ॥३०॥ मदासुरस्य सांनिध्ये स्थापयामास देवपम् । मदेन मूर्च्छितो देवो बद्धः पाशैः समंततः ॥३१॥ ततो हाहाकृतं सर्वैः पलायत दिशो दश । सैन्यं देवगणानां वै विनाथं भयसंकुलम् ॥३२॥ यमं च सहसाऽऽगत्य गदया हृदि विव्यथे । तारकः स महामूर्च्छां जगाम प्रेतनायकः ॥३३॥ संगृह्य स्वबले नीत्वा हर्षितोऽभून् महासुरः । एवमग्निमुखाः सर्वे धृतास्ते दैत्यनायकैः ॥३४॥ अनाथं देवसैन्यं तत् पलायत भयाकुलम् । मृतं भग्नं च शस्त्रैः संहतं दैत्यैर्महाबलैः ॥३५॥ एवं निर्जित्य दैत्येंद्रा जहृषुर्नारदसंयुताः । देवाः सर्वे भयोद्विग्नाः शरणं शंकरं ययुः ॥३६॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदंतचरिते इंद्रपराजयो नामाष्टचत्वारिंशोऽध्यायः ॥

[header] खं. २ अ. ४९ | पान १०३ [/header]

॥ श्रीगणेशाय नमः ॥ गृत्समद उवाच । विष्णुना सहितो देवैस्ततः सर्वैः सुसंवृतः । गणैः सुदारुणैस्तत्र ययौ शंभू रणस्थलम् ॥१॥ समागतं शिवं ज्ञात्वा तारकः क्रोधसंयुतः । उवाच तं महादेवं गर्वयुक्तेन चेतसा ॥२॥ तारक उवाच । किमागतोऽसि संग्रामे मदेन त्वं सदाशिव । सिंहेन शशको युद्धं किं करिष्यति मां वद ॥३॥ मदासुरस्य दासोऽहं त्वां हनिष्यामि निश्चितम् । संहारकारिणं सद्यो महासंहारकारकः ॥४॥ वचः श्रुत्वा त्रिशूलेन तारकः शंभुना हतः । स मृतस्तत्क्षणाद्दैत्यः पतितो भग्नवृक्षवत् ॥५॥ ततश्चक्रेण देवेशः केशवो दैत्यनायकान् । मारयामास संक्रुद्धः सकलान्यत्र तत्र च ॥६॥ ततोऽतिभयसंयुक्ताः पलायंत दिशो दश । दैत्याः प्राणपरीप्सार्थ हाहाकारकरा भृशम् ॥७॥ देवैस्तत्र धृता दैत्या मृतास्तारकमुख्यकाः। शुक्रस्य तु भयाच्छ्रेष्ठास्त्यक्तास्ते विवरे स्थिताः ॥८॥ देवेशानां च दैत्येशा दृष्ट्वाऽतीवपराक्रमम् । बाणस्त्रिपुरशंखौ च ससैन्या आययुर्मृधे ॥९॥ कोलाहलं प्रकुर्वाणाः शंखशब्दैः समंततः । ववृषुः शस्त्रधाराभिर्वर्षाकाले यथा घनाः ॥१०॥ ततः परस्परं युद्धं नियतं संबभूव ह । देवानां चैव दैत्यानां विनाशकरमद्भुतम् ॥११॥ बाणः सूर्यं ययौ क्रुद्धः शंखो विष्णुं महाबलः । रुद्रं च त्रिपुरो वेगात् परसैन्यनिबर्हणः ॥१२॥ अन्ये च शतशस्तत्र दैत्या देवान् समाययुः । गदितुं न भवेच्छक्यं बहुत्वायुद्धमद्भुतम् ॥१३॥ क्रोधयुक्ता निजघ्नुस्ते दानवा देवमुख्यकान् । शस्त्रास्त्रैर्विविधैः क्रुद्धा वृक्षैर्वै पर्वतैर्मृधे ॥१४॥ दैत्यानां बलमुत्कृष्टं ज्ञात्वा देवा महाबलाः । यत्नयुक्ताश्च संग्रामे युयुधुः शस्त्रपाणयः ॥१५॥ एवं त्रिदिवसं युद्धं संजातं दारुणं महत् । देवसेना ततो भग्ना भयभीता समंततः ॥१६॥ जघान शंकरोऽत्यंतं क्रोधयुक्तो महाबलम् । गदया त्रिपुरं तत्र ततः परमदुर्जयम् ॥१७॥ जघान गदया शंभुं सोऽपि तं च पराक्रमी । गदायुद्धं महत्तत्र बभूवाऽतिभयानकम् ॥१८॥ ततस्त्रिशूलघातेन हतो दैत्यः पपात ह । त्रिपुरो मूर्च्छयात्यंतं पीडितः शंकरेण सः ॥१९॥ ज्वालया रविणा तत्र बाणो भूमौ निपातितः । चक्रेण विष्णुना दुष्टः शंखः संमर्दितोऽभवत् ॥२०॥ धृत्वा तान् दैत्यमुख्यांश्च चिक्षिपुर्विवरेऽमराः । पाशैर्बद्ध्वा ततो दुष्टान् पुनरुत्पातशंकया ॥२१॥ ततो दैत्या हताः सर्वे देवैर्देवगणैर्मृधे । मृता मुमूर्षवः केचिच्छरणं ते ययुः सुरान् ॥२२॥ विजयं प्राप्य देवेंद्रो हर्षिताः संबभूविरे । जगर्जुर्जयशब्देन प्राह्वासं प्रचक्रिरे ॥२३॥ ततो मदासुरः क्रुद्धो ज्ञात्वा वृत्तांतमद्भुतम् । संरक्तनयनो दुष्टो ययौ रणविधित्सया ॥२४॥ शुक्रेण सहितः सोऽपि महावीरैः समावृतः । रथारूढः स्वपुत्रैश्च संग्रामे संदधे मनः ॥२५॥ ततस्तं दैत्यमुख्यं वै तनयाश्च समाययुः । संग्रामार्थं

यहाँ पृष्ठ का देवनागरी पाठ प्रस्तुत है:

खं. २ अ. ४९ | पान १०४ महावीर्यास्त्रयो देवैः शिवादिभिः ॥२६॥ धनप्रियश्च संग्रामे सूर्यं विव्याध सायकैः । उवाच गर्वसहितो रविं त्रैलोक्यभाविनम् ॥२७॥ धनप्रिय उवाच । शृणु दुष्टार्यमंस्त्वं मे वचनं हितकारकम् । गच्छ शीघ्रं महाबाहो नोचेन् मृत्युमुपेष्यसि ॥२८॥ त्वया दैत्या हताः पूर्वं भुंक्ष्व तेषां फलं महत् । न मुंचामि महादुष्ट जीवंतं त्वां च काश्यप ॥२९॥ ततः सूर्येण खड्गेन हतो दैत्यो महाबलः । पपात मूर्च्छयाऽऽविष्टः पुनः संज्ञां च सोऽलभत् ॥३०॥ आगत्य काश्यपं दैत्य- पुत्रो वेगसमन्वितः । खड्गेन तीक्ष्णधारेण जघान दृढमंजसा ॥३१॥ दृढाघातेन सूर्यः स पतितो मूर्च्छया भृशम् । तं धृत्वा विजयी दैत्यपुत्रश्च स्वस्थलं ययौ ॥३२॥ प्रणम्य पितरं पुत्रो ननंद ह धनप्रियः । पाशैर्बद्ध्वा दृढं सूर्यं चिक्षेप विवरेऽसुरः ॥३३॥ विलासी विष्णुमागत्य क्रोधेन महताऽऽवृतः । बाणजालैः समाच्छाद्योवाच तं दारुणं वचः ॥३४॥ त्वया विष्णो मदीया वै सेना संनाशिता बलात् । गृहीता दैत्यवर्याश्च नाऽहं तत्र स्थितोऽभवम् ॥३५॥ अधुना शस्त्रघातेन हतस्त्वं गच्छसि प्रभो । मृत्योर्भुवनमुग्रं यन्न त्वां मुंचामि कर्हिचित् ॥३६॥ ततः क्रोधसमाविष्टो विष्णुश्चक्रेण दैत्यपम् । विलासिनं जघानाऽथ चक्रे संमूर्च्छितं खलम् ॥३७॥ क्षणेन सावधानोऽभूदागत्य गदया विभुम् । हृदि विव्याध दुष्टोऽसौ पपात गरुडाद्धरिः ॥३८॥ तं धृत्वा दैत्यपुत्रः स ययौ स्वस्थानमुत्तमम् । पितरं प्रणामाऽथ पित्रा संमानितोऽभवत् ॥३९॥ बद्ध्वा पाशैर्महाविष्णुं चिक्षेप विवरे मदः । दैत्या हर्षसमायुक्ता जगर्जुश्च भयानकम् ॥४०॥ लोलुपश्च समागम्य शंकरं वृषभध्वजम् । उवाच कोपरक्ताक्षः शृणु त्वं नीललोहित ॥४१॥ मदीयमतुलं सैन्यं त्वया युधि निपातितम् । अधुना त्वां हनिष्यामि फलदाता भवाम्यहम् ॥४२॥ ब्रुवंतं तं ततो मूर्खं त्रिशूलेन जघान ह । शंकरः क्रोधसंयुक्तः सोऽपतन् मूर्च्छया भृशम् ॥४३॥ शुक्रेण सहसाऽऽगत्य सावधानः कृतोऽसुरः । लोलुपो निर्ममे मायां सर्वदेवविमोहिनीम् ॥४४॥ अकस्माज्जलधिस्तत्र व्याप्तः सर्वभयावहः । अग्निश्च सर्वतः सर्वान् दाहयामास भैरवः ॥४५॥ नानाशास्त्रधरा अन्ये नग्नास्ते शूलपाणयः । नग्नास्त्रियश्च शस्त्रौघैर्मारयामासुरंजसा ॥४६॥ शांकरो विस्मितो भूत्वा पश्चाद्भयसमन्वितः । मोहितो मायया तत्र लोलुपेनासुरेश्वर ॥४७॥ एतस्मिन्नंतरे तत्र समुद्रे सर्वतः स्थिते । ममज्ज तत्र देवेशः शिवः प्रह्लाद मोहतः ॥४८॥ कर्मणा च तपोरूपेणेदं सर्वं कृतं मृधे । मजंतं शंकरं धृत्वा लोलुपः स्वस्थलं ययौ ॥४९॥ पित्राऽसौ मानितोऽत्यंतं पाशैर्बद्ध्वा

खं. २ अ. ५० पान १०५ ☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸ सदाशिवम् । चिक्षेप विवरे दैत्यो लोलुपः सर्वलोलुपः ॥५०॥ ततो हाहारवं कृत्वा देवा देवागणा मृधे । शरणं जगदंबां ते ययुः संत्रासतापिताः ॥५१॥ दैत्येंद्रा हर्षिताः सर्वे जगर्जुर्घनवद्भृशम् । कुर्वंतो वाद्यशब्दान् वै जयशब्दकरा भृशम् ॥५२॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदंतचरिते शिवादिदेवपराजयो नामैकोनपंचाशत्तमोऽध्यायः ॥ ❧❧❧ ॥ श्रीगणेशाय नमः ॥ गृत्समद उवाच । शिवविष्णुवादिदेवेषु गृहीतेषु महाबलैः । दैत्यपुत्रैः सुराणां च सैन्ये त्रासः प्रवर्तितः ॥१॥ देवा देवगणाः केऽपि क्षता भग्नास्तथाऽपरे । मृता मुमूर्षवस्तत्र गृहीता दैत्यपैर्मृधे ॥२॥ केचित्तान् शरणं जग्मुर्दैत्यान् केचित् पलायिताः । शशंसुः सर्ववृत्तांतं शक्तये भयविह्वलाः ॥३॥ वृत्तांतमतुलं श्रुत्वा दैत्यानां कर्मसंभवम् । क्रोधयुक्ता महामाया ययौ संग्राममंडलम् ॥४॥ आगतां जगदंबां तां स्वयं ज्ञात्वा मदासुरः । पुत्रैः प्रधानमुख्यैश्च नानावीरैर्वृतो ययौ ॥५॥ समागतं महादैत्यं ज्ञात्वा क्रोधसमन्विता । जगदंबा रणे तत्र धनुः सज्जमथाऽकरोत् ॥६॥ धनुषः शब्दमुग्रं ते श्रुत्वा दैत्या भयातुराः । मूर्च्छिताः केऽपि भीताश्च दुद्रुवुः केऽपि दैत्यपाः ॥७॥ ततः शंखनिनादं वै चकार स मदासुरः । महता तस्य नादेन व्याप्तं सर्वं जगत्त्रयम् ॥८॥ ततः शंखनिनादैश्च देवीनां पूरितं नभः । दैत्येंद्राणां च सर्वत्र महान् कोलाहलो ह्यभूत् ॥९॥ सिंहनादैर्जगर्जुस्ते वीरा वै शक्तयस्तथा । विनेदुर्बहुवाद्यानि सुरा हर्षं समाययुः ॥१०॥ एतस्मिन्नंतरे तत्र कालिका क्रोधसंयुता । शक्तिभिः संवृता क्रूरा दैत्यसैन्यं ममर्द्द ह ॥११॥ त्रिशूलेन तथा पाशैः शस्त्रैर्नानाविधैर्मृधे । शक्तिभिश्च्छेदिता दैत्याः पलायंत दिशो दश ॥१२॥ ततः क्रोधसमायुक्ता दैत्यपुत्राः समाययुः । ववृषुुर्बाणजालानि कालरूपाणि संयुगे ॥१३॥ तेषां बाणैर्हतास्तत्र देवानां शक्तयो गणाः । हाहाकाररवाः सर्वे पलायंत भयाकुलाः ॥१४॥ ततः काली समाक्रुद्धा रूपं कृत्वा भयानकम् । जघान दैत्यसेनां तां समंतात् प्रलयप्रभा ॥१५॥ गृहीत्वा दैत्यपुत्रान् वै बद्ध्वा पाशैर्महामदान् । चिक्षिपुर्विवरे संज्ञालक्ष्मीसावित्र्य आहवे ॥१६॥ ततः क्रोधसमायुक्तो मददैत्यः प्रतापवान् । धनुः सज्जमथो कृत्वा मुमोच शरमुल्बणम् ॥१७॥ संहारास्त्रान् महाघोरा- त्तस्माज्जातो महाबलः । पुरुषः पर्वताकारः शक्तीनां बुभुजे बलम् ॥१८॥ अस्त्रस्य तत्र दैत्येंद्र ज्वालया पीडिता रणे । ☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸

खं. २ अ. ५०                      पान १०६ शक्तयश्च मृता दग्धा दुद्रुवुर्यंत्र तत्र ताः ॥१९॥ निःसहाया भयोद्विग्नाः कालीमुख्याः प्रदुद्रुवुः । महामायासमीपे ताः संस्थिताः संजगुः कथाः ॥२०॥ ततः क्रोधसमाविष्टां स्वयं शक्तिं समागताम् । सिंहारूढां स तां दृष्ट्वा दैत्येंद्रः प्रणनाम च ॥२१॥ उवाच शक्तिं गर्वेण पूरितोऽसौ महासुरः । देवांत्यक्त्वा जगन्मातरस्माकं पक्षमाश्रय ॥२२॥ नोचेत्त्वां कर्मणां देवीं हनिष्यामि न संशयः । सदेवां सपरीवारां पश्य मे पौरुषं महत् ॥२३॥ ततः क्रोधसमायुक्ता शूलं चिक्षेप वै रणे । वधाय दैत्यराजस्य महामाया प्रभावतः ॥२४॥ त्रिशूलेनऽऽहतो दुष्टः प्रह्लाद न चचाल ह । मदासुरो जगर्जासावतिक्रोध- युतोऽभवत् ॥२५॥ शस्त्राणि सहसा त्यक्त्वा मल्लयुद्धाय दैत्यपः । ययौ शक्तिर्महद्रूपं कृत्वा प्रययुधे ततः ॥२६॥ न शक्यते वर्णयितुं युद्धं घोरं तयोर्महत् । बाहुभिर्हस्तपादैश्च प्रवृत्तं दारुणं परम् ॥२७॥ परस्परं जयंतौ तौ जल्पंतौ साधु साध्विति । दिवसानि गतान्येव त्रीणि तत्रासुरेश्वर ॥२८॥ वरदानबलेनैव तेन क्षीणबला कृता । शक्तिस्त्वशक्तिरूपा च जाता कर्मप्रभावतः ॥२९॥ ममर्द्द देहपातेन महाशक्तिं महासुरः । मूर्च्छितां तां समादाय ययौ हर्षसमन्वितः ॥३०॥ अन्याश्च शक्तयस्तेन धृताः काश्चित्पलायिताः । हाहाकारश्च सर्वत्राऽभवच्छक्तिबले महान् ॥३१॥ दैत्येंद्रो वारयामास शक्तीनां कदने रतान् । उवाच कुलदेव्यश्च शक्तयो नो न संशयः ॥३२॥ ततो मदासुरेणैव मोचिताः स्वसुतास्त्रयः । प्रधानादि महादैत्या धृता देवै रणे पुरा ॥३३॥ शक्तिलोकं समासाद्य गर्वितः स मदासुरः । भोगांश्च विविधांस्तत्र बुभुजे ज्ञातिभिः सह ॥३४॥ न ममर्ष निजात्मानं मोहितो दैत्यनायकः । स्त्रीमांसमदिरासक्तः प्रबभूवासुरेश्वर ॥३५॥ ततः शक्तिं समानीयोवाच गर्वसमन्वितः । देवैः सह महाशक्ते गच्छ यत्र च ते रुचिः ॥३६॥ उवाच मोहितो वाक्यं शिवादीन् समदासुरः । गच्छंतु यत्र कुत्राऽपि ममाज्ञा वशगाः सुराः ॥३७॥ शक्तिं प्रणम्य दैत्येंद्र ऊचि्वान् भक्तिसंयुतः । अस्माकं पक्षमाश्रित्य वस त्वं पूजिता मया ॥३८॥ ततस्तं शक्तिराहत्योवाच म्लानमुखश्रिया । देवैः सह गमिष्यामि यत्र कुत्र महासुर ॥३९॥ ततस्तां दैत्यराजस्तु मुक्तवान् गर्वमोहितः । अनादृत्य महामायां साऽऽगता देवसंयुता ॥४०॥ वनेषु गिरिदर्यां च संस्थिता भयसंकुला । देवैः सह जगन्माता निःसृता दारुणाद्भयात् ॥४१॥ दैत्योऽपि दैत्यपैस्तत्र संवृतो बुभुजे सुखम् । शक्तिलोकभवं वीरः कर्मणा निर्मितं परम् ॥४२॥ ततो बाणादयस्तेनाऽभवंश्च स्थापिताः सुताः । देवानां च पदे मुख्याः शक्तिलोके तथा कृताः ॥४३॥ पृथिव्यां नगरे दुष्ट आययौ स विलासदे । तत्र स्थित्वा त्रिलोकस्य राज्यं चक्रे मदासुरः ॥४४॥

खं. २ अ. ५१ पान १०७ ❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖ ततः पातालविवरे प्रेषयामास दैत्यपः । त्रिपुरं शेषनागेंद्रजयाय महाबलम् ॥४५॥ शेषो ज्ञात्वा च वृत्तांतं साम चक्रे पुरैव च । दैत्येन वार्षिकं भागं ददौ जग्राह शासनम् ॥४६॥ एवं मदासुरो दुष्टो जित्वा ब्रह्मांडमंडलम् । राज्यं चकार सर्वेषां भुवनानां प्रतापवान् ॥४७॥ अनुत्तमान् विचित्रांश्च देवादीनां सुदुर्लभान् । भोगान् सर्वान् स आहृत्य बुभुजे ज्ञातिभिः सह ॥४८॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खंडे एकदंतचरिते मदासुरविजयो नाम पंचाशत्तमोऽध्यायः ॥ ❧❖❧ ॥ श्रीगणेशाय नमः ॥ गृत्समद उवाच । शृणु प्रह्लाद दैत्यस्य चेष्टितं परमाद्भुतम् । मदासुरस्य सर्वं यन् मदमोहकरं महत् ॥१॥ ततः कियति काले स गते दुष्टैर्महासुरः । बभौ परिवृतो दैत्यैर्महाबलपराक्रमैः ॥२॥ तत्र तं त्रिपुरो दुष्ट उक्तवान् दैत्यपैः सह । कृतांजलिपुटो भूत्वा वचनं साहसं खलः ॥३॥ त्रिपुर उवाच । शृणु प्रभो महाराज दैत्यानां हितकारकम् । वचनं सुखदं साध्यमखंडानंददायकम् ॥४॥ जित्वा त्रिभुवनं पूर्वे दैत्याः संतोषमाययुः । हिरण्यकशिपुस्तत्राद्यो महान् परमद्युतिः ॥५॥ मृत्युभीतिविहीनोऽयमानंदेन समावृतः । अखिलं बुभुजे राज्यं त्रिलोकस्य न संशयः ॥६॥ वने गिरिगुहासंस्था देवाश्छद्मप्रदर्शिनः । शत्रवस्तत्र कालेन ससृजुर्नरसिंहकम् ॥७॥ नृसिंहेन हतो नूनं हिरण्यकशिपुः प्रभुः । एवं क्रमेण श्रेष्ठा ये ते हता दैत्यपाः क्रमात् ॥८॥ अधुना त्वं तथा जातो ब्रह्मांडाधिपतिः स्वयम् । देवान् मुक्त्वा महाराज किं स्थितोऽसि विचारय ॥९॥ अस्माकं शत्रवो नित्यं देवा वेदे प्रतिष्ठिताः । कथं मित्राणि ते राजन् भविष्यंति वद प्रभो ॥१०॥ अतस्तेषां विनाशाय यतस्व नृपसत्तम । नोचेत्त्वां कालयोगेन हनिष्यंति न संशयः ॥११॥ शस्त्रास्त्रैः पीडिता देवा न मरिष्यंति कर्हिचित् । अमराः कथिता वेदे घोररूपा न संशयः ॥१२॥ तेषां मरणमत्युग्रं वेदे पश्य प्रतिष्ठितम् । कर्मनाशाद् भवेत् पूर्णं कर्मान्ना देवता यतः ॥१३॥ तस्मात् कर्मकरा विप्रास्ताडनीया न संशयः । आसुरं कर्म कुर्वंतो मंतव्यास्ते त्वया- ऽनिशम् ॥१४॥ अन्ये वर्णाश्रमस्था ये ब्राह्मणाः कर्मकारकाः । नष्टेषु विप्रजातेषु सर्वे नष्टा भवंति ते ॥१५॥ अत आज्ञापय प्राज्ञ असुरान् कर्मखंडने । सर्वत्रासुरभावेन कर्म सर्वं प्रवर्तताम् ॥१६॥ एवमुक्त्वा महादैत्यं तूष्णीं भावेन संस्थितम् ।

खं. २ अ. ५१ पान १०८ सदसि त्रिपुरं वीक्ष्य तमुवाच मदासुरः ॥१७॥ मदासुर उवाच । समीचीनं त्वया प्रोक्तमसि त्रिपुर बुद्धिमान् । यादृशं कथितं वाक्यं तादृशं कुरु दैत्यपैः ॥१८॥ ततो दैत्यगणैर्युक्तस्त्रिपुरो निर्गतोऽसुरः । पृथिव्यां यत्र तत्राऽपि कर्मखंडनकोऽभवत् ॥१९॥ धूता मुनिगणास्तेन ताडिता वधिता बहु । केचित्तदाज्ञया युक्ताः संस्थिताः कर्मदूषकाः ॥२०॥ केचिन् मुनिगणा दुष्टं शरणं तं ययुस्ततः । तस्याज्ञावर्तिनो भूत्वा संस्थिता ब्राह्मणाधमाः ॥२१॥ केचिच्च दुद्रुवुस्तस्य वनेषु ब्राह्मणा भयात् । तत्र स्थिताः स्वधर्मस्थं कर्म चक्रुर्गतज्वराः ॥२२॥ सिंहादिभयमुत्सृज्य मरणे कृतनिश्चयाः । सिंहादीनां समीपस्था अवसन् कर्मसिद्धये ॥२३॥ एवं द्विजाः स्थितास्तत्र न ज्ञाता दैत्यपेन ते । कर्मभ्रष्टाः स्वभावेन ब्राह्मणा बहवोऽभवन् ॥२४॥ तीर्थानि यज्ञवृक्षाश्च देवतायतनानि ते । बभंजुर्दैत्यचाराश्च यत्र तत्रासुरेश्वर ॥२५॥ आसुरं कर्म सर्वत्र स्थापितं त्रिपुरेण च । वर्णेषु ब्राह्मणाद्येषु दुष्टसंकरकारकम् ॥२६॥ ततो हाहाऽकरोत् सर्वं जगत्तेन दुरात्मना । स्वधर्मवर्जितं दुःखाज्जातं दुष्टप्रपीडितम् ॥२७॥ न स्वाहा न वषट्कारो न स्वधादिकमुत्तमम् । तेन देवगणाः सर्वे दैत्यस्य वधकांक्षिणः ॥२८॥ उपोषणैश्च संयुक्ता जाताः कालेन देवपाः । सगणाः परिवारेण निस्तेजस्का बभूविरे ॥२९॥ ततो देवगणाः सर्वे दैत्यस्य वधकांक्षिणः । मिलितास्तत्र चोपायं लेभिरे न वधस्य च ॥३०॥ सनत्कुमारश्च महायोगी तत्रादराद्ययौ । सहसा भाग्ययोगेन सर्वेषां हितकारकः ॥३१॥ तं दृष्ट्वा देवपाः सर्वे समुत्तस्थुः प्रणम्य तम् । पूजयामासुरत्यंतमुपचारैर्मनोहरैः ॥३२॥ कंदमूलादिकं तत्र निवेद्य च सुभक्तितः । पप्रच्छुस्तं मदस्यैते मरणोपायमंजसा ॥३३॥ देवा ऊचुः । धन्यं जन्म तपो विद्या ज्ञानं देहाश्च पूर्वजाः । तवांघ्रिदर्शनाद्योगिन् कृतकृत्या वयं ततः ॥३४॥ मदासुरेण बलिना जिताः सर्वे महामुने । अतस्तस्य वधार्थं नो वदोपायं महामते ॥३५॥ साधवो देवता विप्राः पीडितास्तेन योगिप । अतः साध्वादिरक्षार्थं वद सर्वज्ञ ते नमः ॥३६॥ समशीलो भवान् साक्षात् मूर्तं ब्रह्मेव संस्थितः । तथापि दोषसंयुक्तमेकं हंता भव प्रभो ॥३७॥ अतिदुष्टमनाहत्य जगत्सर्वं सुखी कुरु । न हत्वा त्वं स्वयं साक्षात् मार्गदर्शी भवस्व नः ॥३८॥ साधवः समशीलाश्च मार्गं संदर्शयंति ते । दीनानां धर्मनिष्ठानामनाथानां महामुने ॥३९॥ सत्कर्मनिरतान् जंतून् सदा कुर्वंति साधवः। विकर्मणश्च संहारस्तत्र संजायते यथा ॥४०॥ न हिंसा सा महायोगिन् विकर्महितकारिका । भवज्ज्ञा- नेन चाज्ञानं नाशयंति सुसाधवः ॥४१॥ अतस्त्वं वद नाशार्थमुपायं करवामहै । धर्मसंस्थापनार्थं तं धर्मान्नाश्च वयं यतः ॥४२॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खंडे एकदंतचरिते सनत्कुमारदेवसमागमो नामैकपंचाशत्तमोऽध्यायः ॥

खं. २ अ. ५२ | पान १०९ ॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐ ॥ श्रीगणेशाय नमः ॥ गृत्समद उवाच । एवं दीनस्वभावेन प्रार्थितो मुनिसत्तमः । सनत्कुमार आनंददायकं तानुवाच ह ॥१॥ सनत्कुमार उवाच । शृणुतेशादयो देवा मदासुरविनाशने । उपायं कथयिष्यामि तत् कुरुध्वं सुरेश्वराः ॥२॥ गणेशं पूजयध्वं वै यूयं सर्वे समाहिताः । सबाह्यांतरसंस्थं तं हनिष्यति मदासुरम् ॥३॥ सनत्कुमारवाक्यं तच्छ्रुत्वा देवर्षिसत्तमाः । ऊचुस्तं प्रणिपत्यादौ भक्तिनम्रात्मकंधराः ॥४॥ देवर्षय ऊचुः । केनोपायेन देवेशं गणेशं मुनिसत्तम । पूजयाम विशेषेण तं वद त्वं यथातथम् ॥५॥ एवं पृष्टो महायोगी देवैश्च मुनिभिः सह । उवाचाराधनं तेभ्यो गाणपत्यो महायशाः ॥६॥ एकाक्षरेण तं देवं हृदिस्थं गणनायकम् । विधिना पूजयध्वं च तुष्टस्तेन भविष्यति ॥७॥ ध्यानं तस्य प्रवक्ष्यामि शृणुध्वं सुरसत्तमाः । यूयं तं तादृशं ध्यात्वा तोषयध्वं निधानतः ॥८॥ एकदंतं चतुर्बाहुं गजवक्त्रं महोदरम् । सिद्धिबुद्धिसमायुक्तं मूषकारूढमेव च ॥९॥ नाभिशेषं सपाशं वै परशुं कमलं शुभम् । अभयं दधतं चैव प्रसन्नवदनांबुजम् ॥१०॥ भक्तेभ्यो वरदं नित्यमभक्तानां निषूदनम् । एतादृशं हृदि ध्यात्वा सेवध्वं चैकदंतकम् ॥११॥ सर्वेषां हृदि संस्थोऽयं बुद्धिप्रेरक- भावतः । स्वयं बुद्धिपतिः साक्षादात्मा वै सर्वदेहिनाम् ॥१२॥ एकशब्दो मता माया देहरूपा विलासिनी । सत्तात्मको दंतशब्दः प्रोक्तस्तत्र न संशयः ॥१३॥ मायाया धारकोऽयं वै सत्तामात्रेण संस्थितः । एकदंतो गणेशानः कथ्यते वेदवादिभिः ॥१४॥ सर्वसत्ताधरं पूर्णमेकदंतं गजाननम् । सेवध्वं भक्तिभावेन भविष्यति सदा सुखम् ॥१५॥ सनत्कुमार उक्त्वैवं ययौ योगी स आदरात् । जयहेरंबमंत्रं वै समुच्चार्य सुखेन सः ॥१६॥ ततो देवगणाः सर्वे मुनयस्तपसि स्थिताः । एकाक्षरविधानेन तोषयामासुरादरात् ॥१७॥ पत्रभक्षा निराहारा वायुभक्षा जलाशिनः । कंदमूलफलाहाराः केचित् केचिद्बभूविरे ॥१८॥ संस्थिता ध्याननिष्ठा वै जपहोमपरायणाः । नानातपःप्रभावेणाऽतोषयन् गणनायकम् ॥१९॥ गते वर्षशते चैव संतुष्टश्चैकदंतकः । आययौ तान् वरं दातुं ध्यातस्तैर्हृद्यशस्तथा ॥२०॥ जगाद स तपोयुक्तान् मुनीन् देवान् गजाननः । वरं वृणुत तुष्टोऽहं दास्यामि ब्राह्मणाऽमराः ॥२१॥ तस्य तद्वचनं श्रुत्वा हृष्टा देवर्षयोऽभवन् । उन्मील्य लोचने देवमपश्यन् सविधेस्थितम् ॥२२॥ दृष्ट्वा मूषकसंस्थं तं प्रणेमुस्ते गजाननम् । मुनयो देवदेवेंद्रा भक्तियुक्ता अपूजयन् ॥२३॥ पूजयित्वा यथान्यायं प्रणम्य करसंपुटैः । तुष्टुवुश्चैकदंतं तं भक्तिनम्रात्म- कंधराः ॥२४॥ देवर्षय ऊचुः । नमस्ते गजवक्त्राय गणेशाय नमो नमः । अनंतानंदभोक्त्रे वै ब्रह्मणे ब्रह्मरूपिणे ॥२५॥

ख. २ अ. ५२ पान ११० आदिमध्यांतहीनाय चराचरमयाय ते । अनंतोदरसंस्थाय नाभिशेषाय ते नमः ॥२६॥ कर्त्रे पात्रे च संहर्त्रे त्रिगुणाना- मधीश्वर । सर्वसत्ताधरायैव निर्गुणाय नमो नमः ॥२७॥ सिद्धिवृद्धिपते तुभ्यं सिद्धिवृद्धिप्रदाय च । ब्रह्मभूताय देवेश सगुणाय नमो नमः ॥२८॥ परशुं दधते तुभ्यं कमलेन प्रशोभिने । पाशाभयधरायैव महोदर नमो नमः ॥२९॥ मूषकारूढदेवाय मूषकध्वजिने नमः । आदिपूज्याय सर्वाय सर्वपूज्याय ते नमः ॥३०॥ गुणसंयुक्तकायाय निर्गुणात्मक- मस्तक । तयोर्भेदरूपेण चैकदंताय ते नमः ॥३१॥ वेदांतागोचरायैव वेदांतालभ्यकाय ते । योगाधीशाय वै तुभ्यं ब्रह्माधीशाय ते नमः ॥३२॥ अपारगुणधारायानंतमायाप्रचालक । नानावतारभेदाय शांतिदाय नमो नमः ॥३३॥ वयं धन्या वयं धन्या यैर्दृष्टो गणनायकः । ब्रह्मभूयमयः साक्षात् प्रत्यक्षं पुरतः स्थितः ॥३४॥ एवं स्तुत्वा प्रहर्षेण ननृतुर्भक्तिसंयुताः । साश्रुनेत्रान् सरोमांचान् दृष्ट्वा तान् ढुंढिरब्रवीत् ॥३५॥ एकदंत उवाच । वरं वृणुत देवेशा मुनयश्च यथेप्सितम् । दास्यामि तं न संदेहो भवेद्यद्यपि दुर्लभः ॥३६॥ भवत्कृतं मदीयं यत् स्तोत्रं सर्वार्थदं भवेत् । पठते शृण्वते देवा नानासिद्धिप्रदं द्विजाः ॥३७॥ शत्रुनाशकरं चैवा॑ते स्वानंदप्रदायकम् । पुत्रपौत्रादिकं सर्वं लभते पाठतो नरः ॥३८॥ गृत्समद उवाच । एवं तस्य वचः श्रुत्वा हर्षयुक्ताः सुरर्षयः । प्रणम्य चैकदंतं तमूचुस्ते भक्तिभावतः ॥३९॥ सुरर्षय ऊचुः । यदि तुष्टोऽसि सर्वेश एकदंत महाप्रभो । यदि देयो वरो नश्चेजहि दुष्टं महासुरम् ॥४०॥ स्थानभ्रष्टाः सुरेशानाः कर्मभ्रष्टा मुनीश्वराः । कृतास्तेन जगन्नाथ तस्मात्तं जहि विघ्नप ॥४१॥ त्वदीयां भक्तिमत्यंतमचलां देहि मानद । यथा मायाभयं घोरं भविष्यति कदापि न ॥४२॥ एवमुक्तो गणाधीशस्तथेति स उवाच तान् । अंतर्धानं ययौ सद्य एकदंतः प्रतापवान् ॥४३॥ महर्षिभिस्ततो देवैः स्थापना गणपस्य च । कृता तत्र महाभागैरभूत् क्षेत्रं च वैघ्नपम् ॥४४॥ आग्नेय्यां दिशि विख्यातं स्वस्वखंडेषु विद्यते । एकदंतस्य तत् क्षेत्रं सर्वसिद्धिप्रदायकम् ॥४५॥ तत्रैव देवदेवेंद्रा मुनयः संस्थिता बभुः । सेवार्थं पूर्णभावेन स्वाधिकारे कलांशतः ॥४६॥ तस्य संदर्शनाज्जंतुर्लभेदीप्सितमुत्तमम् । तत्रैव मरणे ब्रह्म प्रह्लादान्न संशयः ॥४७॥ महिमा गदितुं पूर्णो वर्षकोटिशतैरपि । न शक्यते मया तस्मादुक्तं सारं च सारतः ॥४८॥ तत्र सिद्धिं विशेषेण प्राप्य देवर्षयोऽमलाः । भवंति कृत- कृत्यास्ते ह्यन्ये नानाजनास्तथा ॥४९॥ धन्यं जन्म नराणां वै दृष्टो यैरेकदंतकः । जन्ममृत्युभयघ्नश्च स्वेप्सितार्थप्रदः प्रभुः ॥५०॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खंडे एकदंतचरिते एकदंतप्रसन्नभावो नाम द्विपंचाशत्तमोऽध्यायः ॥

खं. २ अ. ५३ पान १११ ॥ श्रीगणेशाय नमः ॥ गृत्समद उवाच । एवं दत्वा वरं देवान् मुनीन् सर्वान् गजाननः । अंतर्धाय स्वमात्मानमेकदंतो ययौ पुरम् ॥ १ ॥ ततः कदाचिद्दैत्येंद्रं प्रययौ नारदो मुनिः । मदासुरं महाक्रूरं तेनायं मानितोऽभवत् ॥ २ ॥ उवाच तं महादैत्यं नारदः प्रहसन् मुनिः । शृणु दैत्यपते वाक्यं मदीयं सर्वसौख्यदम् ॥ ३ ॥ वनेषु देवविप्रैश्च तपस्तप्तं सुदारुणम् । गणेशस्य मुदे भूप शतवर्षाणि भूरि वै ॥ ४ ॥ ततस्तेषां प्रसन्नोऽभूद्गणेशो ब्रह्मनायकः । वरदो ह्यभवत्तत्र भक्त्या संतोषितः स्वयम् ॥ ५ ॥ तैस्ते वधार्थमत्यंतं याचितः स तथाऽवदत् । त्वां हनिष्यति वेगेन तस्माद्यत्नपरो भव ॥ ६ ॥ नारदस्य वचः श्रुत्वा क्रोधयुक्तो बभूव ह । मदासुरो मुनिं तत्र विसृज्याऽभूत् सुदुःखितः ॥ ७ ॥ ब्रह्मांडवासिनो ये वै तेभ्यो मृत्युर्न मे भवेत् । अयं क एकदंतश्च तं हन्मि क्रोधसंयुतः ॥ ८ ॥ मया विमोचिता देवा दयया तैः कृतं महत् । शत्रुभावयुतं कार्यं तस्मात्तान् हन्मि निश्चितम् ॥ ९॥ दैत्येंद्रैः कथितं सर्वं सत्यं जातं न संशयः । देवेंद्राः शत्रवः सर्वे सुराणां वेदवाक्यतः ॥ १०॥ एवं विचार्य दैत्येशः समाहूय महासुरान् । सन्नद्धो देवनाशार्थं ससैन्यो निःसृतो बहिः ॥ ११ ॥ ततोऽकस्मान् महादेव एकदंतः प्रतापवान् । बभूव प्रकटस्तेषां समीपे भयदायकः ॥ १२ ॥ मूषकारूढमुग्रं तं नरनागस्वरूपिणम् । शस्त्रपाणिं चतुर्बाहुं दृष्ट्वा दैत्याः सुविस्मिताः ॥ १३ ॥ ततः कोलाहलं तत्र चक्रुः सर्वे समंततः । कोऽयं समागतो दैत्या महत् पश्यत कौतुकम् ॥ १४ ॥ दैत्याः सर्वे च तं दृष्ट्वा भयभीता बभूविरे । स्थित्वा तत्रैव दैत्येशा दूतं ते संजगदुर्वचः ॥ १५ ॥ गच्छ दूत समीपं त्वं पुरुषस्य त्वरान्वितः । वृत्तांतमखिलं ज्ञात्वाऽऽयाहि त्वं सामसंयुतः ॥ १६ ॥ ततस्तमेकदंतं स ययौ दूतः प्रणम्य च । उवाच प्रांजलि- र्भूत्वा गणेशं देवनायकम् ॥ १७॥ दूत उवाच । स्वामिन् मदासुरस्याऽहं दूतस्तेन प्रचोदितः । स तु ब्रह्मांडरोजो वै त्वां दृष्ट्वा विस्मितोऽभवत् ॥ १८ ॥ भवान् कश्च कुतो यातः किं कार्यं नाम ते प्रभो । कस्य वा वद सर्वज्ञ संशयस्यापनुत्तये ॥ १९॥ इति पृष्टः स दूतेन एकदंतस्तमादरात् । जगाद हास्यसंयुक्तो दैत्यदूतं विचक्षणम् ॥ २० ॥ एकदंत उवाच । अहं स्वानंदवासी च स्वानंदादागतोऽधुना । मदासुरं निहंतुं वै देवानां सुखवृद्धये ॥ २१ ॥ एकदंत इति ख्यातः सदा ब्रह्मसुखात्मकः । दूतवर्य वदाशु त्वं मोहितं तं मदासुरम् ॥ २२ ॥ इच्छसि त्वं जीवितुं चेत्तदा मां शरणं व्रज । देवानां द्वेषमुत्सृज्य वस त्वं नगरे स्वके ॥ २३ ॥ देवा हविर्भुजः संतु दैत्याः पातालभोगिनः । विश्वं सुखस्थं भवतु स्वस्वधर्मपरायणम् ॥ २४ ॥ एतदर्थमहं यातो वद सर्वं सुविस्तरम् । मदासुरं महाक्रूरं नोचेद्धन्मि क्षणेन तम् ॥ २५ ॥ एकदंतवचः श्रुत्वा दैत्यदूतः प्रणम्य तम् ।

खं. २ अ. ५३ पान ११२

ययौ मदासुरं तत्र वृत्तांतं चाऽब्रवीत् पुरः ॥ २६ ॥ दूतस्य वचनं श्रुत्वा मूर्च्छितो दैत्यपुंगवः । दैत्यैः सावधानश्च कृतः सोऽपि शुशोच ह ॥ २७ ॥ उवाच दैत्यपान् सर्वान्नारदेन समीरितम् । वाक्यं तदभवत् सत्यं मम शत्रुरयं मतः ॥ २८ ॥ नानाशस्त्रैस्तथास्त्रैस्तं हनिष्यामि न संशयः । कथं कालस्य मे मृत्युर्भविष्यति महासुराः ॥ २९ ॥ एवमुक्त्वा ययौ पापी मदः सर्वसमन्वितः । एकदंतं समुद्दिश्य शस्त्रमुग्रं सुमोच ह ॥ ३० ॥ अनिवार्यममोघं च शस्त्रं दृष्ट्वा गजाननः । परशुं तोलयित्वा स सुमोच यमसंनिभम् ॥ ३१ ॥ परशुं दैत्यपा दृष्ट्वा तेजसा संवृतं परम् । भयभीताः समंतात्ते पलायंत दिशो दश ॥ ३२ ॥ परशुर्दैत्यराजास्त्रं सच्छित्त्वा स्वेन तेजसा । ततो दैत्यांश्च सर्वत्र चिच्छेद यमसंनिभः ॥ ३३ ॥ हताः परशुना दैत्याः सर्वे प्रह्लाद तत्क्षणात् । त्रिपुरादय एवं ते दृष्ट्वा वै दुद्रुवुर्भयात् ॥ ३४ ॥ ततो मदासुरः क्रुद्धो जग्राहास्त्रमनुत्तमम् । संहाराख्यममोघं वै युयोज धनुषि स्वयम् ॥ ३५ ॥ तावत् परशुना विद्धो हृदये दैत्यपुंगवः । पपात स धरापृष्ठे वाताहत इव द्रुमः ॥ ३६ ॥ ततस्तत्र महास्त्रं तत् परशूपस्थितं त्वभूत् । प्रहरार्धेन दैत्येशः सावधानो बभूव ह ॥ ३७॥ अपश्यत् स महास्त्रं तत् परशुं यमसन्निभम् । समीपे दैत्यराजस्तु विस्मितो हृदयेऽभवत् ॥ ३८ ॥ अयं परशुराजः किं तेजःपुंजमयो मया । दृश्यते न च संस्पृष्टो ह्यत आश्चर्यकं त्विदम् ॥ ३९ ॥ ततो हस्तेन दैत्येन गृहीतः परशुर्महान् । तथाऽपि हस्तमध्येऽसौ खवच्छून्यस्तदाऽभवत् ॥ ४० ॥ मदः स हृदि विज्ञाय शस्त्रं ब्रह्ममयं परम् । ज्ञात्वाऽवयवसंहीनं विचारमकरोत्तदा ॥ ४१ ॥ अहो क एकदंतोऽयं ब्रह्माकारो न संशयः । न ब्रह्मांडमयाकारो भवेत्तद्वर्जितो न च ॥ ४२ ॥ अतोऽनेन रणे पूर्णं न भविष्यति किंचन । मारयिष्यति मां नूनं नात्र कार्या विचारणा ॥ ४३ ॥ एवमुक्त्वा हृदि क्षुब्धो दैत्येशश्च मदासुरः । दैवयोगेन सस्मार वेदवाक्यं सुखप्रदम् ॥ ४४ ॥ एकदंतार्थजं ज्ञानं विचार्यैव च विघ्नपम् । बुबोध हृदि दैत्येंद्रो ब्रह्मरूपः प्रधारकम् ॥ ४५ ॥ मायात्मकश्चैकशब्दस्तत्र सर्वं समुद्भवत् । भ्रांतिदं मोहदं पूर्णं नानाखेलमयं जगत् ॥ ४६ ॥ दन्त- सत्तात्मकस्तत्र मायाचालकसंज्ञकः । बिंबेन मोहयुक्तः स स्वयं स्वानंदगोऽभवत् ॥ ४७ ॥ माया भ्रांतिमयी प्रोक्ता सत्ता चालक उच्यते । तयोर्योगे गणेशोऽयमेकदंतः प्रकथ्यते ॥ ४८ ॥ महद्भाग्यं मदीयं तद्येनाऽयं दृष्टिगोचरम् । आयासेन

खं. २ अ. ५४ पान ११३ विना प्राप्तस्तं यामि शरणं ततः ॥ ४९ ॥ भक्त्या संयोगिनो नित्यं भजंते शुकमुख्याः । ब्रह्मभूता महाभागास्तं यामि शरणं ततः ॥ ५० ॥ एवं भक्त्या मदो दैत्यः परियुक्तो महामते । त्यक्त्वाऽभिमानजं दोषं तमेव शरणं ययौ ॥ ५१ ॥ ॥ ओमिति श्रीमदान्ते पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खंडे एकदंतचरिते मदासुरपराजयो नाम त्रिपंचाशत्तमोऽध्यायः ॥ ॥ श्रीगणेशाय नमः ॥ गृत्समद उवाच । मदासुरः प्रणम्याऽऽदौ परशुं यमसंन्निभम् । तुष्टाव विविधैर्वाक्यैः शस्त्रं ब्रह्ममयं भयात् ॥१॥ मदासुर उवाच । नमस्ते शस्त्रराजाय नमस्ते परशो महन् । तेजःपुंजमयायैव कालकालाय ते नमः ॥२॥ एकदंतस्य यद्वीर्यं स्वधर्मस्थापनात्मकम् । त्वमेव नात्र संदेहो रक्ष मां शरणागतम् ॥३॥ कालरूपस्त्वमेवेह महाप्रलयसूचकः । कः समर्थश्च ते वेगसहने देहधारकः ॥४॥ अतस्त्वां प्रणमाम्येव ज्योतीरूपं महाद्भुतम् । रक्ष मां भयभीतं वै शरणागत- वत्सल ॥५॥ एवं स्तुवंतमत्यंतं परशुः शांतिमादधे । ययौ त्यक्त्वा पुनर्हस्ते एकदंतस्य दैत्यप ॥६॥ ततो मदासुरः शीघ्रं ययौ तं शरणं भयात् । एकदंतं प्रणम्याऽऽदौ पूजयामास सादरम् ॥७॥ पूजयित्वा यथान्यायं गणेशं धरणीतले । दंडवत्तं प्रणम्यैव भक्त्या तुष्टाव संयुतः ॥८॥ मदासुर उवाच । नमस्त एकदंताय मायामायिकरूपिणे । सदा ब्रह्ममयायैव गणेशाय नमो नमः ॥९॥ मूषकारूढरूपाय मूषकध्वजिने नमः । सर्वत्र संस्थितायैव बंधहीनाय ते नमः ॥१०॥ चतुर्बाहुधरायैव लंबोदर सुरूपिणे । नाभिशेषाय वै तुभ्यं हेरंबाय नमो नमः ॥११॥ चिंतामणिधरायैव चित्तस्थाय गजानन । नानाभूषण- युक्ताय गणाधिपतये नमः ॥१२॥ अनंतविभवायैवानंतमायाप्रचालक । भक्तानंदप्रदात्रे ते विघ्नेशाय नमो नमः ॥१३॥ योगिनां योगदात्रे ते योगानां पतये नमः । योगाकारस्वरूपाय ह्येकदंतप्रधारिणे ॥१४॥ मायाकारं शरीरं त एकशब्दः प्रकथ्यते । दंतः सत्तामयस्तत्र मस्तकस्ते नमो नमः ॥१५॥ मायासत्ताविहीनस्त्वं तयोर्योगधरस्तथा । कस्त्वां स्तोतुं समर्थः स्यादतस्ते वै नमो नमः ॥१६॥ शरणागतपालाय शरणागतवत्सल । पुनः पुनः सिद्धिबुद्धिपते तुभ्यं नमो नमः ॥१७॥ रक्ष मामेकदंतस्त्वं शरणागतमंजसा । भक्तं भावेन संप्राप्तं संसारात्तारयस्व च ॥१८॥ एवमुक्त्वा प्रणम्यापि मदः कृत्वा प्रदक्षिणाम् । कृतांजलिपुटो भूत्वा संस्थितो देवसन्निधौ ॥१९॥ तमुवाच गणाधीशः प्रहृष्टेनांतरात्मना । विकाररहितं दृष्ट्वा

हृदयं भक्तिसंयुक्तम् ॥२०॥ एकदंत उवाच । त्वां हंतुं क्रोधसंयुक्तो जातोऽहं नात्र संशयः । अधुना शरणं प्रेप्सुं न हन्मि शरणागतम् ॥२१॥ मदाज्ञावशगो भूत्वा तिष्ठ स्थाने स्वके सदा । देवानां वैरमुत्सृज्य मद्भक्तिनिरतो भव ॥२२॥ वरं वरय मत्तस्त्वं त्वया दास्यामि चिंतितम् । विनयेन च संतुष्टः स्तोत्रेणाऽहं विशेषतः ॥२३॥ त्वया कृतमिदं स्तोत्रं यः पठिष्यति दैत्यप । शृणुयाद्वा प्रयत्नेन भवेत्तस्येप्सितप्रदम् ॥२४॥ न तत्र मदसंभूतं भयं भवति कर्हिचित् । अंते स्वानंददं तस्मै स्तोत्रं मद्भक्तिदं भवेत् ॥२५॥ एवं तस्य वचः श्रुत्वैकदंतस्य मदासुरः । आसुरं भावमुत्सृज्य शांतरूप- स्तमब्रवीत् ॥२६॥ मदासुर उवाच । यदि प्रसन्नभावेन वरदोऽसि गजानन । एकदंतपदे भक्तिं देहि नाथ दृढां सदा ॥२७॥ अन्यं वरं गणेशान देहि वृत्तिं च शाश्वतीम् । भक्षयित्वा सदा देव भजेयं ते पदांबुजम् ॥२८॥ मदस्य वचनं श्रुत्वा ह्येकदंतस्तमब्रवीत् । मदीया भक्तिरुग्रा ते भविष्यति मदासुर ॥२९॥ यन्त्र मे स्मरणं चादौ पूजनं वा मदासुर । तत्र कर्म सुशांत्या त्वं युक्तो भव सुरक्षयन् ॥३०॥ विपरीते सदा दैत्य आसुरेण स्वभावतः । प्रवर्तय फलं तेषां कर्मणां भक्षयस्व च ॥३१॥ एवमुक्तो महादैत्यस्तं तथेति प्रणम्य च । नगरं स्वं जगामासावेकदंतपरायणः ॥३२॥ दैत्यास्त्रि- पुरकाद्या ये त्यक्त्वा तं ते ययुस्ततः । पातालादि भयोद्विग्ना देवाः स्वस्थानमाश्रिताः ॥३३॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खंडे एकदंतचरिते मदासुरशांतिप्राप्तिवर्णनं नाम चतुःपंचाशत्तमोऽध्यायः ॥

॥ श्रीगणेशाय नमः ॥ गृत्समद उवाच । मदासुरं सुशांतं वै दृष्ट्वा विष्णुमुखाः सुराः । भृग्वादयश्च योगींद्रा एकदंतं समाययुः ॥१॥ प्रणम्य तं प्रपूज्याऽऽदौ पुनस्ते नेमुरादरात् । तुष्टुवुर्हर्षसंयुक्ता एकदंतं गजाननम् ॥२॥ देवर्षय ऊचुः । सदात्मरूपं सकलादिभूतममायिनं सोऽहमचिंत्यबोधम् । अथादिमध्यांतविहीनमेकं तमेकदंतं शरणं व्रजामः ॥३॥ अनंतचिद्रूपमयं गणेशमभेदभेदादिविहीनमाद्यम् । हृदि प्रकाशस्य धरं स्वधीस्थं तमेकदंतं शरणं व्रजामः ॥४॥ समाधिसंस्थं हृदि योगिनां तु प्रकाशरूपेण विभांतमेवम् । सदा निरालंबसमाधिगम्यं तमेकदंतं शरणं व्रजामः ॥५॥ स्वबिंबभावेन विलासयुक्तां प्रकृत्य मायां विविधस्वरूपाम् । सुवीर्यकं तत्र ददाति यो वै तमेकदंतं शरणं व्रजामः ॥६॥ यदीय वीर्येण समर्थभूतं

खं. २ अ. ५५ | पान ११५ स्वमायया संरचितं च विश्वम्। तुरीयकं ह्यात्मकवित्तिसंज्ञं तमेकदंतं शरणं व्रजामः ॥७॥ त्वदीयसत्ताधरमेकदंतं गुणेश्वरं यं गुणबोधितारम्। भजंत आद्यं तमजं त्रिसंस्थास्तमेकदंतं शरणं व्रजामः ॥८॥ ततस्त्वया प्रेरितनादकेन सुषुप्तिसंज्ञं रचितं जगद्वै। समानरूपं च तथैकभूतं तमेकदंतं शरणं व्रजामः ॥९॥ तदेव विश्वं कृपया प्रभूतं द्विभावमादौ तमसा विभातम्। अनेकरूपं च तथैकभूतं तमेकदंतं शरणं व्रजामः ॥१०॥ ततस्त्वया प्रेरितकेन सृष्टं सुसूक्ष्मभावं जगदेकसंस्थम्। सुसात्त्विकं स्वभ्रमनंतमाद्यं तमेकदंतं शरणं व्रजामः ॥११॥ तत् स्वप्नमेवं तपसा गणेश सुसिद्धिरूपं द्विविधं बभूव। सदैकरूपं कृपया च ते यत्तमेकदंतं शरणं व्रजामः ॥१२॥ त्वदाज्ञया तेन सदा हृदिस्थ तथा सुसृष्टं जगदंशरूपम्। विभिन्नजाग्रन्मयमप्रमेयं तमेकदंतं शरणं व्रजामः ॥१३॥ तदेव जाग्रद्रजसा विभातं विलोकितं त्वत्कृपया स्मृतेश्च। बभूव भिन्नं च सदैकरूपं तमेकदंतं शरणं व्रजामः ॥१४॥ तदैव सृष्ट्वा प्रकृतिस्वभावात्तदंतरे त्वं च विभासि नित्यम्। धियः प्रदाता गणनाय एकस्तमेकदंतं शरणं व्रजामः ॥१५॥ सर्वे ग्रहा भानि यदाज्ञया च प्रकाशरूपाणि विभांति खे वै। भ्रमंति नित्यं स्वविहारकार्यात्तमेकदंतं शरणं व्रजामः ॥१६॥ त्वदाज्ञया सृष्टिकरो विधाता त्वदाज्ञया पालक एव विष्णुः। त्वदाज्ञया संहारको हरो वै तमेकदंतं शरणं व्रजामः ॥१७॥ यदाज्ञया भूस्तु जले प्रसंस्था यदाज्ञयाऽऽपः प्रवहंति नद्यः। स्वतीरसंस्थश्च कृतः समुद्रस्तमेकदंतं शरणं व्रजामः ॥१८॥ यदाज्ञया देवगणा दिविस्था यच्छंति वै कर्मफलानि नित्यम्। यदाज्ञया शैलगणाः स्थिरा वै तमेकदंतं शरणं व्रजामः ॥१९॥ यदाज्ञया शेष इलाधरो वै यदाज्ञया मोहद एव कामः। यदाज्ञया कालधरोऽर्यमा च तमेकदंतं शरणं व्रजामः ॥२०॥ यदाज्ञया वाति विभाति वायुर्यदाज्ञयाऽग्निर्जठरादिसंस्थः। यदाज्ञयेदं सचराचरं च तमेकदंतं शरणं व्रजामः ॥२१॥ तदंतरिक्षं स्थितमेकदंतं त्वदाज्ञया सर्वमिदं विभाति। अनंतरूपं हृदि बोधकं त्वां तमेकदंतं शरणं व्रजामः ॥२२॥ सुयोगिनो योगबलेन साध्यं प्रकुर्वते कः स्तवने समर्थः। अतः प्रणामेन सुसिद्धिदोऽस्तु तमेकदंतं शरणं व्रजामः ॥२३॥ गृत्समद उवाच। एवं स्तुत्वा गणेशानं देवाः समुनयः प्रभुम्। तूष्णींभावं प्रपद्यैव ननृतुर्हर्षसंयुताः ॥२४॥ स तानुवाच प्रीतात्मा देवर्षीणां स्तवेन वै। एकदंतो महाभागान् देवर्षीन् भक्तवत्सलः॥२५॥ एकदंत उवाच। स्तोत्रेणाऽहं प्रसन्नोऽस्मि सुराः सर्षिगणाः खलु। वृणुध्वं वरदोऽहं वो दास्यामि मनसीप्सितम् ॥२६॥ भवत्कृतं मदीयं यत् स्तोत्रं प्रीतिप्रदं च तत्। भविष्यति न संदेहः सर्वसिद्धिप्रदायकम् ॥२७॥ यद्यदिच्छति तत्तद्वै प्राप्नोति