भारतकोश
मुद्गल पुराण (अष्टावतार चरितम्)

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

महर्षि मुद्गल द्वारा

स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)

DevanagariSanskritpublished1,023 पृष्ठ

पृष्ठ 237, कुल 1023 में से

संदर्भ में पढ़ें
पृष्ठ 237

खं. २ अ. ५३ पान १११ ॥ श्रीगणेशाय नमः ॥ गृत्समद उवाच । एवं दत्वा वरं देवान् मुनीन् सर्वान् गजाननः । अंतर्धाय स्वमात्मानमेकदंतो ययौ पुरम् ॥ १ ॥ ततः कदाचिद्दैत्येंद्रं प्रययौ नारदो मुनिः । मदासुरं महाक्रूरं तेनायं मानितोऽभवत् ॥ २ ॥ उवाच तं महादैत्यं नारदः प्रहसन् मुनिः । शृणु दैत्यपते वाक्यं मदीयं सर्वसौख्यदम् ॥ ३ ॥ वनेषु देवविप्रैश्च तपस्तप्तं सुदारुणम् । गणेशस्य मुदे भूप शतवर्षाणि भूरि वै ॥ ४ ॥ ततस्तेषां प्रसन्नोऽभूद्गणेशो ब्रह्मनायकः । वरदो ह्यभवत्तत्र भक्त्या संतोषितः स्वयम् ॥ ५ ॥ तैस्ते वधार्थमत्यंतं याचितः स तथाऽवदत् । त्वां हनिष्यति वेगेन तस्माद्यत्नपरो भव ॥ ६ ॥ नारदस्य वचः श्रुत्वा क्रोधयुक्तो बभूव ह । मदासुरो मुनिं तत्र विसृज्याऽभूत् सुदुःखितः ॥ ७ ॥ ब्रह्मांडवासिनो ये वै तेभ्यो मृत्युर्न मे भवेत् । अयं क एकदंतश्च तं हन्मि क्रोधसंयुतः ॥ ८ ॥ मया विमोचिता देवा दयया तैः कृतं महत् । शत्रुभावयुतं कार्यं तस्मात्तान् हन्मि निश्चितम् ॥ ९॥ दैत्येंद्रैः कथितं सर्वं सत्यं जातं न संशयः । देवेंद्राः शत्रवः सर्वे सुराणां वेदवाक्यतः ॥ १०॥ एवं विचार्य दैत्येशः समाहूय महासुरान् । सन्नद्धो देवनाशार्थं ससैन्यो निःसृतो बहिः ॥ ११ ॥ ततोऽकस्मान् महादेव एकदंतः प्रतापवान् । बभूव प्रकटस्तेषां समीपे भयदायकः ॥ १२ ॥ मूषकारूढमुग्रं तं नरनागस्वरूपिणम् । शस्त्रपाणिं चतुर्बाहुं दृष्ट्वा दैत्याः सुविस्मिताः ॥ १३ ॥ ततः कोलाहलं तत्र चक्रुः सर्वे समंततः । कोऽयं समागतो दैत्या महत् पश्यत कौतुकम् ॥ १४ ॥ दैत्याः सर्वे च तं दृष्ट्वा भयभीता बभूविरे । स्थित्वा तत्रैव दैत्येशा दूतं ते संजगदुर्वचः ॥ १५ ॥ गच्छ दूत समीपं त्वं पुरुषस्य त्वरान्वितः । वृत्तांतमखिलं ज्ञात्वाऽऽयाहि त्वं सामसंयुतः ॥ १६ ॥ ततस्तमेकदंतं स ययौ दूतः प्रणम्य च । उवाच प्रांजलि- र्भूत्वा गणेशं देवनायकम् ॥ १७॥ दूत उवाच । स्वामिन् मदासुरस्याऽहं दूतस्तेन प्रचोदितः । स तु ब्रह्मांडरोजो वै त्वां दृष्ट्वा विस्मितोऽभवत् ॥ १८ ॥ भवान् कश्च कुतो यातः किं कार्यं नाम ते प्रभो । कस्य वा वद सर्वज्ञ संशयस्यापनुत्तये ॥ १९॥ इति पृष्टः स दूतेन एकदंतस्तमादरात् । जगाद हास्यसंयुक्तो दैत्यदूतं विचक्षणम् ॥ २० ॥ एकदंत उवाच । अहं स्वानंदवासी च स्वानंदादागतोऽधुना । मदासुरं निहंतुं वै देवानां सुखवृद्धये ॥ २१ ॥ एकदंत इति ख्यातः सदा ब्रह्मसुखात्मकः । दूतवर्य वदाशु त्वं मोहितं तं मदासुरम् ॥ २२ ॥ इच्छसि त्वं जीवितुं चेत्तदा मां शरणं व्रज । देवानां द्वेषमुत्सृज्य वस त्वं नगरे स्वके ॥ २३ ॥ देवा हविर्भुजः संतु दैत्याः पातालभोगिनः । विश्वं सुखस्थं भवतु स्वस्वधर्मपरायणम् ॥ २४ ॥ एतदर्थमहं यातो वद सर्वं सुविस्तरम् । मदासुरं महाक्रूरं नोचेद्धन्मि क्षणेन तम् ॥ २५ ॥ एकदंतवचः श्रुत्वा दैत्यदूतः प्रणम्य तम् ।

मुद्गल पुराण (अष्टावतार चरितम्) · पृष्ठ 237, कुल 1023 में से · BharatKosha