मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 236, कुल 1023 में से
संदर्भ में पढ़ेंख. २ अ. ५२ पान ११० आदिमध्यांतहीनाय चराचरमयाय ते । अनंतोदरसंस्थाय नाभिशेषाय ते नमः ॥२६॥ कर्त्रे पात्रे च संहर्त्रे त्रिगुणाना- मधीश्वर । सर्वसत्ताधरायैव निर्गुणाय नमो नमः ॥२७॥ सिद्धिवृद्धिपते तुभ्यं सिद्धिवृद्धिप्रदाय च । ब्रह्मभूताय देवेश सगुणाय नमो नमः ॥२८॥ परशुं दधते तुभ्यं कमलेन प्रशोभिने । पाशाभयधरायैव महोदर नमो नमः ॥२९॥ मूषकारूढदेवाय मूषकध्वजिने नमः । आदिपूज्याय सर्वाय सर्वपूज्याय ते नमः ॥३०॥ गुणसंयुक्तकायाय निर्गुणात्मक- मस्तक । तयोर्भेदरूपेण चैकदंताय ते नमः ॥३१॥ वेदांतागोचरायैव वेदांतालभ्यकाय ते । योगाधीशाय वै तुभ्यं ब्रह्माधीशाय ते नमः ॥३२॥ अपारगुणधारायानंतमायाप्रचालक । नानावतारभेदाय शांतिदाय नमो नमः ॥३३॥ वयं धन्या वयं धन्या यैर्दृष्टो गणनायकः । ब्रह्मभूयमयः साक्षात् प्रत्यक्षं पुरतः स्थितः ॥३४॥ एवं स्तुत्वा प्रहर्षेण ननृतुर्भक्तिसंयुताः । साश्रुनेत्रान् सरोमांचान् दृष्ट्वा तान् ढुंढिरब्रवीत् ॥३५॥ एकदंत उवाच । वरं वृणुत देवेशा मुनयश्च यथेप्सितम् । दास्यामि तं न संदेहो भवेद्यद्यपि दुर्लभः ॥३६॥ भवत्कृतं मदीयं यत् स्तोत्रं सर्वार्थदं भवेत् । पठते शृण्वते देवा नानासिद्धिप्रदं द्विजाः ॥३७॥ शत्रुनाशकरं चैवा॑ते स्वानंदप्रदायकम् । पुत्रपौत्रादिकं सर्वं लभते पाठतो नरः ॥३८॥ गृत्समद उवाच । एवं तस्य वचः श्रुत्वा हर्षयुक्ताः सुरर्षयः । प्रणम्य चैकदंतं तमूचुस्ते भक्तिभावतः ॥३९॥ सुरर्षय ऊचुः । यदि तुष्टोऽसि सर्वेश एकदंत महाप्रभो । यदि देयो वरो नश्चेजहि दुष्टं महासुरम् ॥४०॥ स्थानभ्रष्टाः सुरेशानाः कर्मभ्रष्टा मुनीश्वराः । कृतास्तेन जगन्नाथ तस्मात्तं जहि विघ्नप ॥४१॥ त्वदीयां भक्तिमत्यंतमचलां देहि मानद । यथा मायाभयं घोरं भविष्यति कदापि न ॥४२॥ एवमुक्तो गणाधीशस्तथेति स उवाच तान् । अंतर्धानं ययौ सद्य एकदंतः प्रतापवान् ॥४३॥ महर्षिभिस्ततो देवैः स्थापना गणपस्य च । कृता तत्र महाभागैरभूत् क्षेत्रं च वैघ्नपम् ॥४४॥ आग्नेय्यां दिशि विख्यातं स्वस्वखंडेषु विद्यते । एकदंतस्य तत् क्षेत्रं सर्वसिद्धिप्रदायकम् ॥४५॥ तत्रैव देवदेवेंद्रा मुनयः संस्थिता बभुः । सेवार्थं पूर्णभावेन स्वाधिकारे कलांशतः ॥४६॥ तस्य संदर्शनाज्जंतुर्लभेदीप्सितमुत्तमम् । तत्रैव मरणे ब्रह्म प्रह्लादान्न संशयः ॥४७॥ महिमा गदितुं पूर्णो वर्षकोटिशतैरपि । न शक्यते मया तस्मादुक्तं सारं च सारतः ॥४८॥ तत्र सिद्धिं विशेषेण प्राप्य देवर्षयोऽमलाः । भवंति कृत- कृत्यास्ते ह्यन्ये नानाजनास्तथा ॥४९॥ धन्यं जन्म नराणां वै दृष्टो यैरेकदंतकः । जन्ममृत्युभयघ्नश्च स्वेप्सितार्थप्रदः प्रभुः ॥५०॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खंडे एकदंतचरिते एकदंतप्रसन्नभावो नाम द्विपंचाशत्तमोऽध्यायः ॥