मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
ख. २ अ. ५२ पान ११० आदिमध्यांतहीनाय चराचरमयाय ते । अनंतोदरसंस्थाय नाभिशेषाय ते नमः ॥२६॥ कर्त्रे पात्रे च संहर्त्रे त्रिगुणाना- मधीश्वर । सर्वसत्ताधरायैव निर्गुणाय नमो नमः ॥२७॥ सिद्धिवृद्धिपते तुभ्यं सिद्धिवृद्धिप्रदाय च । ब्रह्मभूताय देवेश सगुणाय नमो नमः ॥२८॥ परशुं दधते तुभ्यं कमलेन प्रशोभिने । पाशाभयधरायैव महोदर नमो नमः ॥२९॥ मूषकारूढदेवाय मूषकध्वजिने नमः । आदिपूज्याय सर्वाय सर्वपूज्याय ते नमः ॥३०॥ गुणसंयुक्तकायाय निर्गुणात्मक- मस्तक । तयोर्भेदरूपेण चैकदंताय ते नमः ॥३१॥ वेदांतागोचरायैव वेदांतालभ्यकाय ते । योगाधीशाय वै तुभ्यं ब्रह्माधीशाय ते नमः ॥३२॥ अपारगुणधारायानंतमायाप्रचालक । नानावतारभेदाय शांतिदाय नमो नमः ॥३३॥ वयं धन्या वयं धन्या यैर्दृष्टो गणनायकः । ब्रह्मभूयमयः साक्षात् प्रत्यक्षं पुरतः स्थितः ॥३४॥ एवं स्तुत्वा प्रहर्षेण ननृतुर्भक्तिसंयुताः । साश्रुनेत्रान् सरोमांचान् दृष्ट्वा तान् ढुंढिरब्रवीत् ॥३५॥ एकदंत उवाच । वरं वृणुत देवेशा मुनयश्च यथेप्सितम् । दास्यामि तं न संदेहो भवेद्यद्यपि दुर्लभः ॥३६॥ भवत्कृतं मदीयं यत् स्तोत्रं सर्वार्थदं भवेत् । पठते शृण्वते देवा नानासिद्धिप्रदं द्विजाः ॥३७॥ शत्रुनाशकरं चैवा॑ते स्वानंदप्रदायकम् । पुत्रपौत्रादिकं सर्वं लभते पाठतो नरः ॥३८॥ गृत्समद उवाच । एवं तस्य वचः श्रुत्वा हर्षयुक्ताः सुरर्षयः । प्रणम्य चैकदंतं तमूचुस्ते भक्तिभावतः ॥३९॥ सुरर्षय ऊचुः । यदि तुष्टोऽसि सर्वेश एकदंत महाप्रभो । यदि देयो वरो नश्चेजहि दुष्टं महासुरम् ॥४०॥ स्थानभ्रष्टाः सुरेशानाः कर्मभ्रष्टा मुनीश्वराः । कृतास्तेन जगन्नाथ तस्मात्तं जहि विघ्नप ॥४१॥ त्वदीयां भक्तिमत्यंतमचलां देहि मानद । यथा मायाभयं घोरं भविष्यति कदापि न ॥४२॥ एवमुक्तो गणाधीशस्तथेति स उवाच तान् । अंतर्धानं ययौ सद्य एकदंतः प्रतापवान् ॥४३॥ महर्षिभिस्ततो देवैः स्थापना गणपस्य च । कृता तत्र महाभागैरभूत् क्षेत्रं च वैघ्नपम् ॥४४॥ आग्नेय्यां दिशि विख्यातं स्वस्वखंडेषु विद्यते । एकदंतस्य तत् क्षेत्रं सर्वसिद्धिप्रदायकम् ॥४५॥ तत्रैव देवदेवेंद्रा मुनयः संस्थिता बभुः । सेवार्थं पूर्णभावेन स्वाधिकारे कलांशतः ॥४६॥ तस्य संदर्शनाज्जंतुर्लभेदीप्सितमुत्तमम् । तत्रैव मरणे ब्रह्म प्रह्लादान्न संशयः ॥४७॥ महिमा गदितुं पूर्णो वर्षकोटिशतैरपि । न शक्यते मया तस्मादुक्तं सारं च सारतः ॥४८॥ तत्र सिद्धिं विशेषेण प्राप्य देवर्षयोऽमलाः । भवंति कृत- कृत्यास्ते ह्यन्ये नानाजनास्तथा ॥४९॥ धन्यं जन्म नराणां वै दृष्टो यैरेकदंतकः । जन्ममृत्युभयघ्नश्च स्वेप्सितार्थप्रदः प्रभुः ॥५०॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खंडे एकदंतचरिते एकदंतप्रसन्नभावो नाम द्विपंचाशत्तमोऽध्यायः ॥
खं. २ अ. ५३ पान १११ ॥ श्रीगणेशाय नमः ॥ गृत्समद उवाच । एवं दत्वा वरं देवान् मुनीन् सर्वान् गजाननः । अंतर्धाय स्वमात्मानमेकदंतो ययौ पुरम् ॥ १ ॥ ततः कदाचिद्दैत्येंद्रं प्रययौ नारदो मुनिः । मदासुरं महाक्रूरं तेनायं मानितोऽभवत् ॥ २ ॥ उवाच तं महादैत्यं नारदः प्रहसन् मुनिः । शृणु दैत्यपते वाक्यं मदीयं सर्वसौख्यदम् ॥ ३ ॥ वनेषु देवविप्रैश्च तपस्तप्तं सुदारुणम् । गणेशस्य मुदे भूप शतवर्षाणि भूरि वै ॥ ४ ॥ ततस्तेषां प्रसन्नोऽभूद्गणेशो ब्रह्मनायकः । वरदो ह्यभवत्तत्र भक्त्या संतोषितः स्वयम् ॥ ५ ॥ तैस्ते वधार्थमत्यंतं याचितः स तथाऽवदत् । त्वां हनिष्यति वेगेन तस्माद्यत्नपरो भव ॥ ६ ॥ नारदस्य वचः श्रुत्वा क्रोधयुक्तो बभूव ह । मदासुरो मुनिं तत्र विसृज्याऽभूत् सुदुःखितः ॥ ७ ॥ ब्रह्मांडवासिनो ये वै तेभ्यो मृत्युर्न मे भवेत् । अयं क एकदंतश्च तं हन्मि क्रोधसंयुतः ॥ ८ ॥ मया विमोचिता देवा दयया तैः कृतं महत् । शत्रुभावयुतं कार्यं तस्मात्तान् हन्मि निश्चितम् ॥ ९॥ दैत्येंद्रैः कथितं सर्वं सत्यं जातं न संशयः । देवेंद्राः शत्रवः सर्वे सुराणां वेदवाक्यतः ॥ १०॥ एवं विचार्य दैत्येशः समाहूय महासुरान् । सन्नद्धो देवनाशार्थं ससैन्यो निःसृतो बहिः ॥ ११ ॥ ततोऽकस्मान् महादेव एकदंतः प्रतापवान् । बभूव प्रकटस्तेषां समीपे भयदायकः ॥ १२ ॥ मूषकारूढमुग्रं तं नरनागस्वरूपिणम् । शस्त्रपाणिं चतुर्बाहुं दृष्ट्वा दैत्याः सुविस्मिताः ॥ १३ ॥ ततः कोलाहलं तत्र चक्रुः सर्वे समंततः । कोऽयं समागतो दैत्या महत् पश्यत कौतुकम् ॥ १४ ॥ दैत्याः सर्वे च तं दृष्ट्वा भयभीता बभूविरे । स्थित्वा तत्रैव दैत्येशा दूतं ते संजगदुर्वचः ॥ १५ ॥ गच्छ दूत समीपं त्वं पुरुषस्य त्वरान्वितः । वृत्तांतमखिलं ज्ञात्वाऽऽयाहि त्वं सामसंयुतः ॥ १६ ॥ ततस्तमेकदंतं स ययौ दूतः प्रणम्य च । उवाच प्रांजलि- र्भूत्वा गणेशं देवनायकम् ॥ १७॥ दूत उवाच । स्वामिन् मदासुरस्याऽहं दूतस्तेन प्रचोदितः । स तु ब्रह्मांडरोजो वै त्वां दृष्ट्वा विस्मितोऽभवत् ॥ १८ ॥ भवान् कश्च कुतो यातः किं कार्यं नाम ते प्रभो । कस्य वा वद सर्वज्ञ संशयस्यापनुत्तये ॥ १९॥ इति पृष्टः स दूतेन एकदंतस्तमादरात् । जगाद हास्यसंयुक्तो दैत्यदूतं विचक्षणम् ॥ २० ॥ एकदंत उवाच । अहं स्वानंदवासी च स्वानंदादागतोऽधुना । मदासुरं निहंतुं वै देवानां सुखवृद्धये ॥ २१ ॥ एकदंत इति ख्यातः सदा ब्रह्मसुखात्मकः । दूतवर्य वदाशु त्वं मोहितं तं मदासुरम् ॥ २२ ॥ इच्छसि त्वं जीवितुं चेत्तदा मां शरणं व्रज । देवानां द्वेषमुत्सृज्य वस त्वं नगरे स्वके ॥ २३ ॥ देवा हविर्भुजः संतु दैत्याः पातालभोगिनः । विश्वं सुखस्थं भवतु स्वस्वधर्मपरायणम् ॥ २४ ॥ एतदर्थमहं यातो वद सर्वं सुविस्तरम् । मदासुरं महाक्रूरं नोचेद्धन्मि क्षणेन तम् ॥ २५ ॥ एकदंतवचः श्रुत्वा दैत्यदूतः प्रणम्य तम् ।
खं. २ अ. ५३ पान ११२
ययौ मदासुरं तत्र वृत्तांतं चाऽब्रवीत् पुरः ॥ २६ ॥ दूतस्य वचनं श्रुत्वा मूर्च्छितो दैत्यपुंगवः । दैत्यैः सावधानश्च कृतः सोऽपि शुशोच ह ॥ २७ ॥ उवाच दैत्यपान् सर्वान्नारदेन समीरितम् । वाक्यं तदभवत् सत्यं मम शत्रुरयं मतः ॥ २८ ॥ नानाशस्त्रैस्तथास्त्रैस्तं हनिष्यामि न संशयः । कथं कालस्य मे मृत्युर्भविष्यति महासुराः ॥ २९ ॥ एवमुक्त्वा ययौ पापी मदः सर्वसमन्वितः । एकदंतं समुद्दिश्य शस्त्रमुग्रं सुमोच ह ॥ ३० ॥ अनिवार्यममोघं च शस्त्रं दृष्ट्वा गजाननः । परशुं तोलयित्वा स सुमोच यमसंनिभम् ॥ ३१ ॥ परशुं दैत्यपा दृष्ट्वा तेजसा संवृतं परम् । भयभीताः समंतात्ते पलायंत दिशो दश ॥ ३२ ॥ परशुर्दैत्यराजास्त्रं सच्छित्त्वा स्वेन तेजसा । ततो दैत्यांश्च सर्वत्र चिच्छेद यमसंनिभः ॥ ३३ ॥ हताः परशुना दैत्याः सर्वे प्रह्लाद तत्क्षणात् । त्रिपुरादय एवं ते दृष्ट्वा वै दुद्रुवुर्भयात् ॥ ३४ ॥ ततो मदासुरः क्रुद्धो जग्राहास्त्रमनुत्तमम् । संहाराख्यममोघं वै युयोज धनुषि स्वयम् ॥ ३५ ॥ तावत् परशुना विद्धो हृदये दैत्यपुंगवः । पपात स धरापृष्ठे वाताहत इव द्रुमः ॥ ३६ ॥ ततस्तत्र महास्त्रं तत् परशूपस्थितं त्वभूत् । प्रहरार्धेन दैत्येशः सावधानो बभूव ह ॥ ३७॥ अपश्यत् स महास्त्रं तत् परशुं यमसन्निभम् । समीपे दैत्यराजस्तु विस्मितो हृदयेऽभवत् ॥ ३८ ॥ अयं परशुराजः किं तेजःपुंजमयो मया । दृश्यते न च संस्पृष्टो ह्यत आश्चर्यकं त्विदम् ॥ ३९ ॥ ततो हस्तेन दैत्येन गृहीतः परशुर्महान् । तथाऽपि हस्तमध्येऽसौ खवच्छून्यस्तदाऽभवत् ॥ ४० ॥ मदः स हृदि विज्ञाय शस्त्रं ब्रह्ममयं परम् । ज्ञात्वाऽवयवसंहीनं विचारमकरोत्तदा ॥ ४१ ॥ अहो क एकदंतोऽयं ब्रह्माकारो न संशयः । न ब्रह्मांडमयाकारो भवेत्तद्वर्जितो न च ॥ ४२ ॥ अतोऽनेन रणे पूर्णं न भविष्यति किंचन । मारयिष्यति मां नूनं नात्र कार्या विचारणा ॥ ४३ ॥ एवमुक्त्वा हृदि क्षुब्धो दैत्येशश्च मदासुरः । दैवयोगेन सस्मार वेदवाक्यं सुखप्रदम् ॥ ४४ ॥ एकदंतार्थजं ज्ञानं विचार्यैव च विघ्नपम् । बुबोध हृदि दैत्येंद्रो ब्रह्मरूपः प्रधारकम् ॥ ४५ ॥ मायात्मकश्चैकशब्दस्तत्र सर्वं समुद्भवत् । भ्रांतिदं मोहदं पूर्णं नानाखेलमयं जगत् ॥ ४६ ॥ दन्त- सत्तात्मकस्तत्र मायाचालकसंज्ञकः । बिंबेन मोहयुक्तः स स्वयं स्वानंदगोऽभवत् ॥ ४७ ॥ माया भ्रांतिमयी प्रोक्ता सत्ता चालक उच्यते । तयोर्योगे गणेशोऽयमेकदंतः प्रकथ्यते ॥ ४८ ॥ महद्भाग्यं मदीयं तद्येनाऽयं दृष्टिगोचरम् । आयासेन
खं. २ अ. ५४ पान ११३ विना प्राप्तस्तं यामि शरणं ततः ॥ ४९ ॥ भक्त्या संयोगिनो नित्यं भजंते शुकमुख्याः । ब्रह्मभूता महाभागास्तं यामि शरणं ततः ॥ ५० ॥ एवं भक्त्या मदो दैत्यः परियुक्तो महामते । त्यक्त्वाऽभिमानजं दोषं तमेव शरणं ययौ ॥ ५१ ॥ ॥ ओमिति श्रीमदान्ते पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खंडे एकदंतचरिते मदासुरपराजयो नाम त्रिपंचाशत्तमोऽध्यायः ॥ ॥ श्रीगणेशाय नमः ॥ गृत्समद उवाच । मदासुरः प्रणम्याऽऽदौ परशुं यमसंन्निभम् । तुष्टाव विविधैर्वाक्यैः शस्त्रं ब्रह्ममयं भयात् ॥१॥ मदासुर उवाच । नमस्ते शस्त्रराजाय नमस्ते परशो महन् । तेजःपुंजमयायैव कालकालाय ते नमः ॥२॥ एकदंतस्य यद्वीर्यं स्वधर्मस्थापनात्मकम् । त्वमेव नात्र संदेहो रक्ष मां शरणागतम् ॥३॥ कालरूपस्त्वमेवेह महाप्रलयसूचकः । कः समर्थश्च ते वेगसहने देहधारकः ॥४॥ अतस्त्वां प्रणमाम्येव ज्योतीरूपं महाद्भुतम् । रक्ष मां भयभीतं वै शरणागत- वत्सल ॥५॥ एवं स्तुवंतमत्यंतं परशुः शांतिमादधे । ययौ त्यक्त्वा पुनर्हस्ते एकदंतस्य दैत्यप ॥६॥ ततो मदासुरः शीघ्रं ययौ तं शरणं भयात् । एकदंतं प्रणम्याऽऽदौ पूजयामास सादरम् ॥७॥ पूजयित्वा यथान्यायं गणेशं धरणीतले । दंडवत्तं प्रणम्यैव भक्त्या तुष्टाव संयुतः ॥८॥ मदासुर उवाच । नमस्त एकदंताय मायामायिकरूपिणे । सदा ब्रह्ममयायैव गणेशाय नमो नमः ॥९॥ मूषकारूढरूपाय मूषकध्वजिने नमः । सर्वत्र संस्थितायैव बंधहीनाय ते नमः ॥१०॥ चतुर्बाहुधरायैव लंबोदर सुरूपिणे । नाभिशेषाय वै तुभ्यं हेरंबाय नमो नमः ॥११॥ चिंतामणिधरायैव चित्तस्थाय गजानन । नानाभूषण- युक्ताय गणाधिपतये नमः ॥१२॥ अनंतविभवायैवानंतमायाप्रचालक । भक्तानंदप्रदात्रे ते विघ्नेशाय नमो नमः ॥१३॥ योगिनां योगदात्रे ते योगानां पतये नमः । योगाकारस्वरूपाय ह्येकदंतप्रधारिणे ॥१४॥ मायाकारं शरीरं त एकशब्दः प्रकथ्यते । दंतः सत्तामयस्तत्र मस्तकस्ते नमो नमः ॥१५॥ मायासत्ताविहीनस्त्वं तयोर्योगधरस्तथा । कस्त्वां स्तोतुं समर्थः स्यादतस्ते वै नमो नमः ॥१६॥ शरणागतपालाय शरणागतवत्सल । पुनः पुनः सिद्धिबुद्धिपते तुभ्यं नमो नमः ॥१७॥ रक्ष मामेकदंतस्त्वं शरणागतमंजसा । भक्तं भावेन संप्राप्तं संसारात्तारयस्व च ॥१८॥ एवमुक्त्वा प्रणम्यापि मदः कृत्वा प्रदक्षिणाम् । कृतांजलिपुटो भूत्वा संस्थितो देवसन्निधौ ॥१९॥ तमुवाच गणाधीशः प्रहृष्टेनांतरात्मना । विकाररहितं दृष्ट्वा
हृदयं भक्तिसंयुक्तम् ॥२०॥ एकदंत उवाच । त्वां हंतुं क्रोधसंयुक्तो जातोऽहं नात्र संशयः । अधुना शरणं प्रेप्सुं न हन्मि शरणागतम् ॥२१॥ मदाज्ञावशगो भूत्वा तिष्ठ स्थाने स्वके सदा । देवानां वैरमुत्सृज्य मद्भक्तिनिरतो भव ॥२२॥ वरं वरय मत्तस्त्वं त्वया दास्यामि चिंतितम् । विनयेन च संतुष्टः स्तोत्रेणाऽहं विशेषतः ॥२३॥ त्वया कृतमिदं स्तोत्रं यः पठिष्यति दैत्यप । शृणुयाद्वा प्रयत्नेन भवेत्तस्येप्सितप्रदम् ॥२४॥ न तत्र मदसंभूतं भयं भवति कर्हिचित् । अंते स्वानंददं तस्मै स्तोत्रं मद्भक्तिदं भवेत् ॥२५॥ एवं तस्य वचः श्रुत्वैकदंतस्य मदासुरः । आसुरं भावमुत्सृज्य शांतरूप- स्तमब्रवीत् ॥२६॥ मदासुर उवाच । यदि प्रसन्नभावेन वरदोऽसि गजानन । एकदंतपदे भक्तिं देहि नाथ दृढां सदा ॥२७॥ अन्यं वरं गणेशान देहि वृत्तिं च शाश्वतीम् । भक्षयित्वा सदा देव भजेयं ते पदांबुजम् ॥२८॥ मदस्य वचनं श्रुत्वा ह्येकदंतस्तमब्रवीत् । मदीया भक्तिरुग्रा ते भविष्यति मदासुर ॥२९॥ यन्त्र मे स्मरणं चादौ पूजनं वा मदासुर । तत्र कर्म सुशांत्या त्वं युक्तो भव सुरक्षयन् ॥३०॥ विपरीते सदा दैत्य आसुरेण स्वभावतः । प्रवर्तय फलं तेषां कर्मणां भक्षयस्व च ॥३१॥ एवमुक्तो महादैत्यस्तं तथेति प्रणम्य च । नगरं स्वं जगामासावेकदंतपरायणः ॥३२॥ दैत्यास्त्रि- पुरकाद्या ये त्यक्त्वा तं ते ययुस्ततः । पातालादि भयोद्विग्ना देवाः स्वस्थानमाश्रिताः ॥३३॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खंडे एकदंतचरिते मदासुरशांतिप्राप्तिवर्णनं नाम चतुःपंचाशत्तमोऽध्यायः ॥
॥ श्रीगणेशाय नमः ॥ गृत्समद उवाच । मदासुरं सुशांतं वै दृष्ट्वा विष्णुमुखाः सुराः । भृग्वादयश्च योगींद्रा एकदंतं समाययुः ॥१॥ प्रणम्य तं प्रपूज्याऽऽदौ पुनस्ते नेमुरादरात् । तुष्टुवुर्हर्षसंयुक्ता एकदंतं गजाननम् ॥२॥ देवर्षय ऊचुः । सदात्मरूपं सकलादिभूतममायिनं सोऽहमचिंत्यबोधम् । अथादिमध्यांतविहीनमेकं तमेकदंतं शरणं व्रजामः ॥३॥ अनंतचिद्रूपमयं गणेशमभेदभेदादिविहीनमाद्यम् । हृदि प्रकाशस्य धरं स्वधीस्थं तमेकदंतं शरणं व्रजामः ॥४॥ समाधिसंस्थं हृदि योगिनां तु प्रकाशरूपेण विभांतमेवम् । सदा निरालंबसमाधिगम्यं तमेकदंतं शरणं व्रजामः ॥५॥ स्वबिंबभावेन विलासयुक्तां प्रकृत्य मायां विविधस्वरूपाम् । सुवीर्यकं तत्र ददाति यो वै तमेकदंतं शरणं व्रजामः ॥६॥ यदीय वीर्येण समर्थभूतं
खं. २ अ. ५५ | पान ११५ स्वमायया संरचितं च विश्वम्। तुरीयकं ह्यात्मकवित्तिसंज्ञं तमेकदंतं शरणं व्रजामः ॥७॥ त्वदीयसत्ताधरमेकदंतं गुणेश्वरं यं गुणबोधितारम्। भजंत आद्यं तमजं त्रिसंस्थास्तमेकदंतं शरणं व्रजामः ॥८॥ ततस्त्वया प्रेरितनादकेन सुषुप्तिसंज्ञं रचितं जगद्वै। समानरूपं च तथैकभूतं तमेकदंतं शरणं व्रजामः ॥९॥ तदेव विश्वं कृपया प्रभूतं द्विभावमादौ तमसा विभातम्। अनेकरूपं च तथैकभूतं तमेकदंतं शरणं व्रजामः ॥१०॥ ततस्त्वया प्रेरितकेन सृष्टं सुसूक्ष्मभावं जगदेकसंस्थम्। सुसात्त्विकं स्वभ्रमनंतमाद्यं तमेकदंतं शरणं व्रजामः ॥११॥ तत् स्वप्नमेवं तपसा गणेश सुसिद्धिरूपं द्विविधं बभूव। सदैकरूपं कृपया च ते यत्तमेकदंतं शरणं व्रजामः ॥१२॥ त्वदाज्ञया तेन सदा हृदिस्थ तथा सुसृष्टं जगदंशरूपम्। विभिन्नजाग्रन्मयमप्रमेयं तमेकदंतं शरणं व्रजामः ॥१३॥ तदेव जाग्रद्रजसा विभातं विलोकितं त्वत्कृपया स्मृतेश्च। बभूव भिन्नं च सदैकरूपं तमेकदंतं शरणं व्रजामः ॥१४॥ तदैव सृष्ट्वा प्रकृतिस्वभावात्तदंतरे त्वं च विभासि नित्यम्। धियः प्रदाता गणनाय एकस्तमेकदंतं शरणं व्रजामः ॥१५॥ सर्वे ग्रहा भानि यदाज्ञया च प्रकाशरूपाणि विभांति खे वै। भ्रमंति नित्यं स्वविहारकार्यात्तमेकदंतं शरणं व्रजामः ॥१६॥ त्वदाज्ञया सृष्टिकरो विधाता त्वदाज्ञया पालक एव विष्णुः। त्वदाज्ञया संहारको हरो वै तमेकदंतं शरणं व्रजामः ॥१७॥ यदाज्ञया भूस्तु जले प्रसंस्था यदाज्ञयाऽऽपः प्रवहंति नद्यः। स्वतीरसंस्थश्च कृतः समुद्रस्तमेकदंतं शरणं व्रजामः ॥१८॥ यदाज्ञया देवगणा दिविस्था यच्छंति वै कर्मफलानि नित्यम्। यदाज्ञया शैलगणाः स्थिरा वै तमेकदंतं शरणं व्रजामः ॥१९॥ यदाज्ञया शेष इलाधरो वै यदाज्ञया मोहद एव कामः। यदाज्ञया कालधरोऽर्यमा च तमेकदंतं शरणं व्रजामः ॥२०॥ यदाज्ञया वाति विभाति वायुर्यदाज्ञयाऽग्निर्जठरादिसंस्थः। यदाज्ञयेदं सचराचरं च तमेकदंतं शरणं व्रजामः ॥२१॥ तदंतरिक्षं स्थितमेकदंतं त्वदाज्ञया सर्वमिदं विभाति। अनंतरूपं हृदि बोधकं त्वां तमेकदंतं शरणं व्रजामः ॥२२॥ सुयोगिनो योगबलेन साध्यं प्रकुर्वते कः स्तवने समर्थः। अतः प्रणामेन सुसिद्धिदोऽस्तु तमेकदंतं शरणं व्रजामः ॥२३॥ गृत्समद उवाच। एवं स्तुत्वा गणेशानं देवाः समुनयः प्रभुम्। तूष्णींभावं प्रपद्यैव ननृतुर्हर्षसंयुताः ॥२४॥ स तानुवाच प्रीतात्मा देवर्षीणां स्तवेन वै। एकदंतो महाभागान् देवर्षीन् भक्तवत्सलः॥२५॥ एकदंत उवाच। स्तोत्रेणाऽहं प्रसन्नोऽस्मि सुराः सर्षिगणाः खलु। वृणुध्वं वरदोऽहं वो दास्यामि मनसीप्सितम् ॥२६॥ भवत्कृतं मदीयं यत् स्तोत्रं प्रीतिप्रदं च तत्। भविष्यति न संदेहः सर्वसिद्धिप्रदायकम् ॥२७॥ यद्यदिच्छति तत्तद्वै प्राप्नोति
खं. २ अ. ५५ पान ११६ स्तोत्रपाठकः। पुत्रपौत्रादिकं सर्वं कलत्रं धनधान्यकम् ॥२८॥ गजाश्वादिकमत्यंतं राज्यभोगादिकं ध्रुवम् । भुक्तिं मुक्तिं च योगं वै लभते शांतिदायकम् ॥२९॥ मारणोच्चाटनादीनि राज्यबंधादिकं च यत् । पठतां शृण्वतां नृणां भवेत्तद्द्वंध- हीनता ॥३०॥ एकविंशतिवारं यः श्लोकानेवैकविंशतिम्। पठेद्धृदि मां स्मृत्वा दिनानि त्वेकविंशतिम् ॥३१॥ न तस्य दुर्लभं किंचित् त्रिषु लोकेषु वै भवेत् । असाध्यं साधयेन् मर्त्यः सर्वत्र विजयी भवेत् ॥३२॥ नित्यं यः पठति स्तोत्रं ब्रह्मीभूतः स वै नरः। तस्य दर्शनातः सर्वे देवाः पूता भवंति च ॥३३॥ एवं तस्य वचः श्रुत्वा प्रहृष्टा अमरर्षयः । ऊचुः सर्वे करपुटैर्भक्त्या युक्ता गजाननम् ॥३४॥ देवर्षय ऊचुः । धन्या वयं गणेशान एकदंतधर प्रभो। त्वदीयदर्शनादेव भाषणान्नात्र संशयः ॥३५॥ वरं देहि त्वदीया नो भक्तिश्च सुदृढा भवेत् । मायाहीनास्तथा देव कृतकृत्या भवामहे ॥३६॥ यदा संकटयुक्ता वै वयं स्याम गजानन। तदा नो रक्ष देवेश वरमेवं वृणीमहे ॥३७॥ तेषां वचनमाकर्ण्य तानुवाच तथास्त्विति । एकदंतों- ऽन्तर्दधेऽसौ स्वस्वानंदगतोऽभवत्॥३८॥ देवा मुनिगणाः सर्वे ययुः स्वस्वपदेषु च। स्वस्वधर्मयुता नित्यमभजन्नेकदंतकम्॥३९॥ एवं मदासुरस्तेन शांतिरूपधरः कृतः। प्रह्लाद चैकदंतेन कथितं ते चरित्रकम् ॥४०॥ दुष्टसंगतियोगेन त्वं मदोत्सिक्तभावतः। अनादृत्य विधातारं भ्रष्टो ज्ञानान्न संशयः ॥४१॥ एकदंतं गणेशं त्वं भजाऽतो दैत्यनायक। तेन शांतो महाभाग भविष्यसि न संशयः ॥४२॥ स एव एकदंतस्तु भक्तानां कार्यसिद्धये । करोति स्वावतारांश्च नानारूपांस्तु दैत्यप ॥४३॥ परमौ दारुणौ दैत्यौ देवांतकनरांतकौ । संभूतौ तौ हतौ तेन भूत्वा कश्यपवेश्मनि ॥४४॥ तथैव दुर्मतिर्नाम दैत्योऽभूद्धर्मलोपकः । शांतये तस्य विघ्नेशः शिवपुत्रो बभूव ह ॥४५॥ गणासुरेण दुष्टेन धर्मलोपः कृतो यदा । तदा कपिलपुत्रोऽभूत् स एव त्वेकदंतकः ॥४६॥ एवं नानावतारैः पाल्यते सकलं जगत् । एकदंतः कलांशेन धर्मरक्षणतत्परः ॥४७॥ तेषां कथा न शक्या वै गदितुं केनचित् परा। गुणांतं न ययुर्यस्य ब्रह्माद्या मुनयः सुराः ॥४८॥ अतस्त्वमेकदंतं तं भज भावेन दैत्यप । तेन सर्वं च ते ज्ञानं भविष्यति सुशांतिदम् ॥४९॥ एवं मदासुरस्याऽपि कृतं खंडनमंजसा । एकदंतेन संक्षेपाच्चरितं कथितं मया ॥५०॥ पठेद्यः शृणुयात्तस्मै भक्तिं मुक्तिं ददाति सः । एकदंतः प्रसन्नात्मा सदा भवति सौख्यदः ॥५१॥ नासुरेण स्वभावेन मदस्तं पीडयिष्यति । शांतिरूपेण नित्यं स संरक्षेद्दैत्यनायकः ॥५२॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खंडे एकदंतचरिते मदासुरचरितसमाप्तिर्नाम पंचपंचाशत्तमोऽध्यायः ॥
[हेडर] खं. २ अ. ५६ | पान ११७
॥ श्रीगणेशाय नमः ॥ दक्ष उवाच । प्रह्लादेन श्रुतं पूर्णं मदासुरचरित्रकम् । पुनः किं च कृतं योगिंस्तद्वद त्वं महामते ॥१॥ श्रुत्वा कथामृतं पूर्णं हर्षश्चेतसि मुद्गल । जायते नाऽत्र संदेहो न तृप्तोऽहं भवाम्यतः ॥२॥ सूत उवाच । दक्षस्य वचनं श्रुत्वा मुद्गलो हर्षितोऽभवत् । उवाच तं महाभागं तत्त्वं शृणु च शौनक ॥३॥ मुद्गल उवाच । धन्योऽसि दक्ष सारज्ञ गणेशस्य कथामृतम् । श्रुत्वा हृष्यसि ते पुण्यं कथयामि कथानकम् ॥४॥ मदासुरस्य संशांतिं श्रुत्वा पप्रच्छ दैत्यपः । प्रह्लादस्तं गृत्समदं विनयावनतः कथाम् ॥५॥ प्रह्लाद उवाच । महद्भाग्यं मुने मे यद्येन संश्रावितं त्वया । एकदंतस्य माहात्म्यं परमानंददायकम् ॥६॥ तथापि न सुतृप्तोऽहं श्रुत्वा ज्ञानप्रदायकम् । चरितं च पुनस्त्वं मे गणेशस्य कथां वद ॥७॥ कश्यपस्य गृहे देवः कथं पुत्रत्वमागतः । कथं दैत्यौ हतौ योगिन् विस्तरेण वदस्व माम् ॥८॥ कथं स शिवपुत्रोऽभूत् कथं दुर्मतिकं प्रभुः । अहन्तं वदस्व त्वं सर्वज्ञोऽसि कृपानिधे ॥९॥ कथं गणासुरं दैत्यं कापिलो हतवान् पुरा । एतत् सर्वं वद स्वामिन्नेकदंतचरित्रकम् ॥१०॥ भवादृशा महाभागा नौकारूपेण संस्थिताः । संसाराम्धौ नराणां वै मज्जतां तरणाय तु ॥११॥ मुद्गल उवाच । एवं पृष्टो महायोगी तमुवाच सुहर्षितः । गुणैर्युक्तं गृत्समदः प्रह्लादं भावधारकम् ॥१२॥ गृत्समद उवाच । शृणु प्रह्लाद यत् पृष्टं तत्सर्वं कथयामि ते । सुखदं च समासेन एकदंतचरित्रकम् ॥१३॥ पुरा कृतयुगे दैत्य गौडदेशे बभूव ह । नगरे गौडसंज्ञे च रौद्रकेतुस्तपोधनः ॥१४॥ तस्य पत्नी महाभागा शारदा रूपशालिनी । गर्भयुक्ता कदाचित् सा बभूवे हर्षिताऽभवत् ॥१५॥ समये सुषुवे पुत्रौ यमलौ लोकभीतिदौ । नाम्ना चक्रे द्विजातिः स देवांतकनरांतकौ ॥१६॥ कदाचिन्नारदेनाऽपि गत्वा तत्र शिवस्य च । पंचाक्षरेणोपदिष्टौ चेरतुः परमं तपः ॥१७॥ दिव्यवर्षसहस्रैस्तु संतुष्टः स सदाशिवः । अभयं गुणरूपेभ्यो प्रददौ दैत्ययोः परम् ॥१८॥ वरगर्वेण दैत्येंद्रौ जित्वा सर्वं चराचरम् । ततस्तु कर्मनाशं तौ चक्रतुः पृथिवीतले ॥१९॥ न स्वाहा न स्वधा कुत्र न वषट्कार एव च । अभवन्नमराः सर्वे क्षुधितास्तृषितास्ततः ॥२०॥ तैः सर्वैः प्रार्थितो देव एकदंतः प्रतापवान् । तपसोग्रेण संतुष्टो बभूव प्रददौ वरम् ॥२१॥ कश्यपस्य च पुत्रोऽहं भविष्यामि प्रसिद्धये । दैत्येंद्रयोर्वधस्यैवमुक्त्वा गणपतिर्ययौ ॥२२॥ अथ देवजनित्री सा कदाचित् कश्यपं मुनिम् । जगाद हास्यसंयुक्ता ह्यदितिः कृतसंपुटा ॥२३॥ इंद्रो विष्णुश्च सूर्य्यश्च देवाः पुत्राश्च मेऽभवन् । स्वामिन् ब्रह्म कथं पुत्रः संभविष्यति मे परम् ॥२४॥ तदा मे निश्चलं चेतो भवेच्चैव न संशयः । तस्य सेवां कर्तुमीहे तत्रोपायं वद प्रभो ॥२५॥
यहाँ पृष्ठ का पूर्ण देवनागरी लिप्यंतरण प्रस्तुत है:
खं. २ अ. ५६ | पान ११८ ꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥ तस्यास्तद्वचनं श्रुत्वा गणेशस्य मनुं ददौ । अष्टाक्षरं तया तेनाराधितो ह्येकदंतकः ॥२६॥ सहस्रवर्षपूर्तौ तां वरदः स समाययौ । तया पुत्रो भव स्वामिन् याचितः स तथाऽकरोत् ॥२७॥ अदित्यां कश्यपाच्चैव संभूतः पुत्रतां गतः । माया- मस्थाय विघ्नेशश्चिक्रीड प्राकृतो यथा ॥२८॥ एकदा राक्षसी घोरा विरजास्तं जगाल ह । विदार्य जठरं तस्या बहिर्यातो ममार सा ॥२९॥ उद्धतौ धुंधुरत्युग्रौ शुकरूपौ समागतौ । धृत्वा तौ स्फालितौ शैले मृतौ दैत्यौ तथाऽकरोत् ॥३०॥ कदाचित् सहिता तेन स्नानार्थमदितिर्ययौ । तत्र तं मकराकारो गंधर्वश्च पदेऽग्रहीत् ॥३१॥ तेनोड्डीनं कृतं पश्चाद्वहिः स च ममार ह । शापमुक्तोऽभवच्चित्रं तं प्रणम्य ययौ दिवम् ॥३२॥ उपवीतप्रदाने वै राक्षसा विप्रलिंगिनः । पंच तं हंतुमायाता हतास्तेन क्षणेन ते ॥३३॥ कर्मणि प्रसमाप्ते तं ब्रह्मविष्ण्वादयः सुराः । मुनयश्च वसिष्ठाद्या नेमुर्भक्तिसमन्विताः ॥३४॥ इंद्रस्तत्र मदेनैव संसिक्तो न ननाम तम् । कश्यपेन समाज्ञप्तस्तथाऽपि ज्येष्ठभावतः ॥३५॥ परीक्षार्थं महेंद्रण बालं हंतुं प्रभंजनः । प्रेरितः सोऽपि भग्नौऽभूत्ततोऽग्निं स समादिशत् ॥३६॥ इंद्रेणाऽऽज्ञापितो वह्निस्तं दग्धुं सहसाऽऽगतः । गिलित- स्तेन बालेन महेंद्रो विस्मितोऽभवत् ॥३७॥ विनायकेन देवेंद्रः श्वासेन जठरे स्वके । नीतस्तत्र सविस्तारं ददर्श सकलं जगत् ॥३८॥ एवं नानांडकं दृष्ट्वा हतगर्बोऽभवत् स्वयम् । न ददर्श बहिर्यातुं मार्गं वर्षशतेन वै ॥३९॥ ततस्तं प्रार्थयामास विनायकमनामयम् । तेनाऽपि श्वासमार्गेण बहिर्निष्कासितो हरिः ॥४०॥ ततस्तेन महेंद्रण दृष्टं कौतुकमुत्तमम् । कालोद्भवं महच्चित्रं तच्छृणुष्व महासुर ॥४१॥ विनायकस्य वर्षाणि जठरे स शतं स्वयम् । संस्थितश्च बहिश्च तत्र क्षण एकस्तथाऽभवत् ॥४२॥ ततस्तं प्रणनामाऽऽदौ स्तुत्वा च विविधैः स्तवैः । चकार साधुभावेन स भक्तिं नित्यमादरात् ॥४३॥ ततः कदाचित् काशीपो मुनिगेहं समाययौ । पुत्रस्योद्वाहसिद्ध्यर्थं कश्यपं तममंत्रयत् ॥४४॥ मुनिर्यज्ञेन रुद्धो वै पुत्रं तस्मै ददौ लघुम् । उपाध्यायत्वसिद्ध्यर्थं विधानज्ञो विनायकम् ॥४५॥ काशिराजो गणेशं संगृह्य मार्गे जगाम ह । तत्र धूम्राक्षदैत्येशं सूर्यास्त्रेण जघान सः ॥४६॥ तस्य पुत्रौ महावीर्यौ जघनश्च मनुः स्मृतौ । भक्षणार्थं समायातौ विनायक- मनामयम् ॥४७॥ विनायकेन निःश्वासेन नीतौ गगने गतौ । भ्रमंतौ पतितौ तत्र नरांतकसुमंदिरे ॥४८॥ नरांतकस्तत- स्ताभ्यां ज्ञात्वा वृत्तांतमुल्बणम् । शतानि पंच रक्षांसि प्रेषयामास दैत्यपः ॥४९॥ तेन दृष्टा महावीरा राक्षसा गणपेन च । हुंकारेण महोग्रेण मम्लुः सर्वे भयातुराः ॥५०॥ ततः स काशिराजेन सहितश्च विनायकः । काशीं प्राप्तस्तदा लोकैरविशत् ꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥ
पूजितः परम् ॥५१॥ आदौ मुद्गलविप्रेणोपदिष्टः स महामनाः । काशिराजश्च गणपमभजन्नित्यमादरात् ॥५२॥ काशीस्थाश्च जनाः सर्वे गणेशध्यानतत्पराः । मुद्गलान् महिमानं चाऽभवन् ज्ञात्वा विचक्षणाः ॥५३॥ कश्यपस्य स्वयं पुत्रो भविष्यति वधाय च । दैत्यानां सोऽपि काश्यां वै विवाहायाऽऽगमिष्यति ॥५४॥ तस्य दर्शनमात्रेण भविष्यंति सुयोगिनः । सर्वे काशीस्थभूतानि नरा नार्यो न संशयः ॥५५॥ एवं मुद्गलविप्रेण बोधिताः सकला जनाः । ते सर्वेऽपूजयंस्तं च ज्ञात्वा देवं विनायकम् ॥५६॥ स्त्रियः सर्वाः समायाता दर्शनार्थं महापथे । अनादृत्य पितॄन् भ्रातॄन् भर्तॄन् भक्तिपरायणाः ॥५७॥ महोत्सवोऽभवत्तत्र प्रवेशाख्यो महासुर । तत्रैका रोधिता नारी देहं तत्याज सोत्तमम् ॥५८॥ तालुस्फोटेन सा याता सर्वादौ तं विनायकम् । पश्यंत्यस्याऽभवद्देहे लीना भक्तिसमन्विता ॥५९॥ यत्र तत्र जनैर्देवः पूजितश्च महापथे । चचार तत्र दैत्यौ द्वौ बालरूपौ प्रचेरतुः ॥६०॥ विनायकेन हस्ताभ्यां चूर्णितौ दशयोजने । पतितौ विस्मिता लोका मेनिरे गणपं च तम् ॥६१॥ ततो द्वौ चक्रवातस्य रूपेणैव समागतौ । शिखां धृत्वा तयोस्तेन ममृदुः स्फालितौ दृढौ ॥६२॥ ततः पाषाणरूपेण दैत्यो मार्गे व्यवस्थितः । मुष्टिना बालकेनैव हतो मृत्युमवाप सः ॥६३॥ काशिराजस्ततस्तं स नीत्वा च स्वगृहे स्वयम् । पूजयामास विधिवत् स्थापयामास भावतः ॥६४॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदंतचरिते विनायककाशीप्रवेशो नाम षट्पंचाशत्तमोऽध्यायः ॥
॥ श्रीगणेशाय नमः ॥ गृत्समद उवाच । द्वितीये दिवसे तत्र धर्मदत्तो महामुनिः । स्वगृहे तं मुनेः पुत्रमानयामास यत्नतः ॥१॥ मार्गे दैत्यौ हतौ तेन खरवेषधरावुभौ । कामक्रोधासुरौ पश्चाद्गजवेषधरौ हतौ ॥२॥ ततो मुनिः सुभावेनापूजयत्तं विनायकम् । कन्ये स्वे प्रददौ तस्मै सिद्धिबुद्धी सुलक्षणे ॥३॥ ततस्तत्राऽऽययौ जृंभा राक्षसी घोररूपिणी । रूपं धृत्वा मनुष्यस्य सुप्रसन्नाननांबुजा ॥४॥ विषयुक्तेन तैलेन सा ममर्द्द विनायकम् । विज्ञाता देवदेवेन हता मृत्युमवाप च ॥५॥ चतुर्थे दिवसे तत्र संप्राप्ता दैत्यपुंगवाः । ज्वालामुखोऽथ व्याघ्रास्यो दारुणश्च महाबलः ॥६॥ तान् हत्वा योगभावेन काश्यपो लीलयाऽरमत । बालमध्ये यथाऽन्यो वै प्राकृतो माययाऽसुर ॥७॥ ब्रह्मविष्णुमुखास्तत्र द्रष्टुमाश्चर्यमुत्कटम् । बालक्रीडन-
ख. २ अ. ५७ पान १२०
संभूतं संस्थितांश्च व्यलोकयन् ॥८॥ तत्र तं पंचमे देवं दिवसे मुनिनंदनम् । प्रणम्य काशिराजः स भोजनार्थममंत्रयत् ॥९॥ चतुर्थ्यां शुक्लपक्षस्य प्रातःकाले महामुनिः । भृशुंडी चापूजयत्तं मानस्या पूजया प्रभुम् ॥१०॥ पूजां दृष्ट्वा स्वयं राजा प्रातस्तत्र सुविस्मितः । उवाच तं कृता केन पूजेयं वद मे प्रभो ॥११॥ ततस्तं कथयामास भृशुंडी मेऽतिवल्लभः । महाभक्तः करोतीमां पूजां पश्य नराधिप ॥१२॥ एकनिष्ठतया विप्रो भजते मां विशेषतः । मद्दिनान्यन्न जानाति देवतीर्थादिकं कदा ॥१३॥ श्रुत्वा तस्य वचो रम्यं जगाद नृपसत्तमः । विनायकं प्रणम्यैव तं प्रदर्शय योगिनम् ॥१४॥ काशिराजवचः श्रुत्वा प्रेषयामास तं ततः । जवनाश्वसमारूढो राजा तस्याश्रमं ययौ ॥१५॥ दृष्ट्वा तं शुंडया युक्तं स नत्वा विस्मितो नृपः । प्रार्थयामास योगीशं काश्यां नेतुं सुभक्तितः ॥१६॥ काशिराज उवाच । विनायकाज्ञया स्वामिन्नागतस्तेऽहमाश्रमे । त्वामाह्वयति देवोऽसौ मद्गृहे संस्थितः स्वयम् ॥१७॥ चतुर्थ्यामद्य योगींद्र मानस्या पूजया त्वया । पूजितस्तां महापूजां दर्शयामास मां विभुः ॥१८॥ कश्यपस्य गृहे सोऽपि विनायक इति स्मृतः । तपसाऽऽराधितस्तेन पुत्रोऽभूद्गणनायकः ॥१९॥ अहं तस्य तथा दासो यजमानो महामते । विवाहार्थं तु पुत्रस्याऽऽनीतोऽसौ मद्गृहे मया ॥२०॥ विनायकेन कथितमानयस्व महामुनिम् । याचे ह्यतोऽहं योगींद्राऽऽगच्छ काशीं महापुरीम् ॥२१॥ तस्य तद्वचनं श्रुत्वा विस्मितो मुनिसत्तमः । उवाच तं स गाणेशः काशिराजं महामतिम् ॥२२॥ भृशुण्ड्युवाच । शृणु राजन् महाभाग वेदांतागोचरो विभुः । यदि भक्त्या समायातस्त्वद्गृहे कश्यपात्मजः ॥२३॥ तथापि शुंडया हीनं नमामि न कदाचन । कलांशादिसमायुक्तं जानीहि नृपसत्तम ॥२४॥ कलात्मकास्तस्य सर्वे देवा विष्णुशिवादयः । ते सर्वे मां नमंत्येव शुंडाभक्तियुतं परम् ॥२५॥ गजाननं परित्यज्याऽहं नमामि न कंचन । अतस्त्वं गच्छ काश्यां वै तं नयामि विनायकम् ॥२६॥ तस्य तद्वचनं श्रुत्वा ह्येकभक्तिसमन्वितम् । उवाच तं प्रणम्यैव काशिराजः प्रतापवान् ॥२७॥ काशिराज उवाच । मुने शृणु वचो मेऽद्य नाऽहं शक्तो भवामि च । काश्यां गंतुं महाभागाऽपराह्ने श्रांतवाहनः ॥२८॥ ततो मुनिर्नृपं प्राह लोचनामीलनं कुरु । तथाभूतं नृपश्रेष्ठं प्रेषयामास तां पुरीम् ॥२९॥ पुनरुन्मील्य नेत्रे स्वेऽपश्यद्देहं महानृपः । स्वां पुरीं विस्मितो भूत्वा प्रणाम विनायकम् ॥३०॥ वृत्तं संश्रुत्य भूपेशात् पुनस्तं गणनायकः । मायया स मुनेस्तस्याश्रमस्थमकरोत्ततः ॥३१॥ पुनः समागतं वीक्ष्य नृपं प्राह महामुनिः । किमर्थ- मागतो राजन्नद्यैव वद मे गृहे ॥३२॥ ततस्तं राजशार्दूलो जगाद कथितं च यत् । विनायकेन भोः स्वामिंस्त्वामाह्वयति
विघ्नपः ॥३३॥ तेनाऽहं प्रेषितो नूनं शुंडादंडधरेण च । चल शीघ्रं मया सार्धं द्रष्टुं पूर्णं गजाननम् ॥३४॥ श्रुत्वा तस्य वचो रम्यं भक्त्याऽत्यंतं लुलोठ च । रोमांचितशरीरोऽसौ साश्रुनेत्रो महामुनिः ॥३५॥ तं दृष्ट्वा विस्मितोऽत्यंतं काशिराजो महामनाः। अहो भक्तिरियं साक्षाद् दृश्यते देहधारिणी ॥३६॥ देहभावं समासाद्य यात्रार्थं तेन भूभुजा। भृशुंडी चलितश्चैव स्वाश्रमात् प्रजगाम सः ॥३७॥ देहश्रमेण यात्रा वै कर्तव्या गणपस्य च। विचार्यैवं ययौ पद्भ्यामविमुक्तं महामुनिः ॥३८॥ ज्ञात्वा तस्य हृदिस्थं सा निश्चयं धरणी मुनिम् । प्रापयामास काश्यां तं क्षणेन नृपसंयुतम् ॥३९॥ नृपेण नगरी दृष्टा तमुवाच ततः परम् । स्वामिन् समागता काशी प्रभावात्तपसश्च ते ॥४०॥ ततस्तं स्वगृहे नीत्वाऽपूजयन् नृपसत्तमः । विनायकः समायातं भक्तं पश्यति साश्रुकः ॥४१॥ तस्य भावं विदित्वाऽसौ शुंडां धृत्वा विनायकः । मूषकोपरि संस्थाय प्रजगाम महामुनिम् ॥४२॥ चतुर्भुजधरं विप्रो महोदरविराजितम् । शेषनाभिं त्वेकदंतं दृष्ट्वा तं प्रणनाम च ॥४३॥ अपूजयत् भृशुंडी तं भक्तिभावसमन्वितः । पुनः प्रणम्य तुष्टाव नानास्तोत्रैः प्रसन्नधीः ॥४४॥ उवाच विस्खलद्वाक्यो भक्ते रसपरिप्लुतः । गजाननं निजं नाथं कृतकृत्यो महासुर ॥४५॥ भृशुंड्युवाच । तव दर्शनमात्रेण कृतकृत्यो गजानन । महता भाग्ययोगेन दृष्टं ते चरणं विभो ॥४६॥ अधुना मे वरं देहि तेन तुष्टो भवाम्यहम् । तव विस्मरणं नाथ न भवेन् मे तथा कुरु ॥४७॥ अनेनैव स्वरूपेण मत्स्थाने संस्थितो भव । आशापूरकनाम्ना त्वं ख्यातो भव गजानन ॥४८॥ तत्रैवानन्यभक्त्या त्वां भजामि रसयुक्तया । मुद्गलेन समं मां त्वं पूर्ण भक्तं कुरु प्रभो ॥४९॥ अथवा मुद्गलाच्चैवाधिकं मां कुरु विघ्नप । गुरोरतिक्रमाच्छिष्यः पुत्रो वा तस्य नाल्पकः ॥५०॥ एवं प्रार्थयमानं तं तथेति गणनायकः । जगाद स पुनर्बालो भूत्वाऽखेलत्तु सादरम् ॥५१॥ तं प्रणम्य ययौ स्थानं स्वकीयं मुनिसत्तमः । भृशुंडी च ततः काशिराजः संविस्मितोऽभवत् ॥५२॥ हृदि राजा विचार्यासावेकनिष्ठो बभूव ह । गणेशभजने दृष्ट्वा भृशुंडीचरितं महत् ॥५३॥ अहो मुनिवरो धन्यो नानारूपात्मिकां पराम् । मायां त्यक्त्वा स योगेन भजते गणनायकम् ॥५४॥ सर्वेषां ब्रह्मणां योगो गणेशे भवति प्रभो । अतस्तमेकभावेन भजतेऽसौ महामुनिः ॥५५॥ एकनिष्ठा समा भक्तिर्न भूता न भविष्यति । कोऽंशेन समा नान्या तत् भजेत् योगिसत्तमः ॥५६॥ सर्वत्र गणराजोऽयं वसत्यत्र न संशयः । कलांशेन ततोऽन्येषां भजने च फलं लभेत् ॥५७॥ गणेशभजनं ह्येकं चेत् पूर्णं भजनं भवेत् । सर्वेषां च गणेशस्य भृशुंडी तत् समाश्रितः ॥५८॥ अहो भृशुंडिना तुल्यो दृश्यते
न कदाचन । प्रत्यक्षो गणराजोऽयं शुंडावान्नात्र संशयः ॥५९॥ काश्यां मुक्तिस्वरूपायामागतोऽसौ महामुनिः । मणिकर्णी च विश्वेशं सस्मार मनसाऽपि न ॥६०॥ गणेशार्थं समायातस्तं प्रणम्य महामुनिः । स्वाश्रमं पुनरेवासौ जगाम सुखदायकम् ॥६१॥ एवं विस्मयभावेन काशिराजस्तथाऽभजत् । गणेशं साधुभावज्ञः सोऽपि तत्समतां ययौ ॥६२॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खंडे एकदंतचरिते भृशुंडीभक्तिवर्णनं नाम सप्तपंचाशत्तमोऽध्यायः ॥
॥ श्रीगणेशाय नमः ॥ प्रह्लाद उवाच । शृणु गृत्समद त्वं मे वचनं दीनपालक । कोऽसौ भृशुंडिनामा वै मुनिर्मे ब्रूहि सांप्रतम् ॥१॥ तपसा केन तस्याऽपि भृशुंडा निःसृता प्रभो । कीदृशी मानसी पूजा कृता मां वद विस्तरात् ॥२॥ आश्चर्यं परमं प्राप्तः श्रुत्वा मुनिवरस्य च । महिमानं महाभाग धन्यो भूमंडलेऽभवत् ॥३॥ गणेशभजने सक्ता नरास्ते ब्रह्मरूपिणः । तेषां कथा प्रवक्तां श्रोतारं प्रपुनाति च ॥४॥ मुद्गल उवाच । एवं पृष्टो गृत्समदो महायोगी तमब्रवीत् । प्रह्लादं भक्तिपात्रं वै दृष्ट्वा हर्षसमन्वितः ॥५॥ गृत्समद उवाच । शृणु प्रह्लाद भावेन कथां लोकैकपावनीम् । भृशुंडिसंश्रितां पुण्यां ब्रह्मभूतपदप्रदाम् ॥६॥ नंदूरे त्ववसद् ग्रामे नामा कैवर्तकः पुरा । नाम्ना पापी सुविख्यातो महापापपरायणः ॥७॥ धृत्वा ग्रामेषु शस्त्रादीन् वनेषु विचचार ह । जीवहिंसां सदा तत्र चकार कामवर्जितः ॥८॥ मार्गस्थांश्च जनान् वीक्ष्य- ऽमारयद्धनलिप्सया । संगृह्य मिलितं ग्रामे जगाम प्रत्यहं खलः ॥९॥ द्रव्यवस्त्रादिहीनांस्तान् दृष्ट्वा मारयताप्यहो । जीवं दृष्ट्वा क्रूरकर्मा न मुमोच वधप्रियः ॥१०॥ धनं तेषां गृहीत्वाऽसौ धनवान् प्रबभूव ह । द्रव्यसंचयभावेन न तुतोष कदाचन ॥११॥ न संख्यां कर्तुमत्यंतं तस्य पापस्य वै भवेत् । ब्रह्मा समर्थः शेषश्च पापानां भागिनौ भयात् ॥१२॥ स्त्रीगोबाल- द्विजादीनां हत्याऽपारा कृता पुरा । तेन तस्य च भारेण पीडिता भूरभूत्ततः ॥१३॥ एकदा वनमध्येऽसौ कंचित्पुरुष- मुत्तमम् । दृष्ट्वा वधार्थमानंददाधावच्छस्त्रसंयुतः ॥१४॥ तमागतं समालोक्य दुष्टं दूरे पलाय्य सः । गव्यूतिमात्रमासाद्य ग्रामं तत्र जगाम ह ॥१५॥ नामा प्रह्लाद मार्गे स पतितोऽधावनाऽऽकुलः । जातश्च दुःखितोऽत्यंतं विरराम वधात्तदा ॥१६॥ मंदगत्या चचालाऽसौ मार्गे कुंडं ददर्श ह । तत्र श्रमापनोदार्थं स्नानं चक्रे महाबलः ॥१७॥ तदेव गणराजस्य तीर्थं पुण्यप्रदं
[header] [left] खं. २ अ. ५८ [/left] [right] पान १२३ [/right] [/header]
महत् । तस्य प्रभावयोगेन पापं संशिथिलं त्वभूत् ॥१८॥ स पापशिथिलो नामा विचारमकरोद् हृदि । अहो मया च पापानि कृतानि कति नाऽविदम् ॥१९॥ मृतोऽहं नरके घोरे पतिष्यामि न संशयः । कल्पान् दुःखमनेकांश्च सहिष्यामि कथं परम् ॥२०॥ मुद्गल उवाच । एवं ब्रुवंतमानंददायकं मुनिसत्तमम् । प्रह्लादो वै गृत्समदं पप्रच्छ विनयान्वितः ॥२१॥ प्रह्लाद उवाच । कीदृशं कुंडरूपं च केन वा चरितं तपः । तत्र येन गणेशस्य स्थानं कुंडात्मकं ह्यभूत् ॥२२॥ ततो गृत्समदः प्राह प्रह्लादं सर्वमंजसा । आह्लादेन समायुक्तो गाणपत्यो महायशाः ॥२३॥ गृत्समद उवाच । अत्र ते कथयिष्यामि चेतिहासं पुरातनम् । सूर्यस्य यमराजस्य संवादं पापनाशनम् ॥२४॥ सूर्याय प्रददौ कन्यां विश्वकर्मा महाद्भुताम् । संज्ञां कर्ममयीं देवीं मायारूपां महाद्युतिः ॥२५॥ तपसा शतवर्षैस्तां प्रसन्नां स चकार ह । ययाचे विश्वकर्मा तां पुत्री मे भव मानदे ॥२६॥ साऽऽदिमाया वरात्तस्य पुत्री जाता सुरेश्वर । तां गृहीत्वा गृहं देव सविता प्रजगाम ह ॥२७॥ तया रेमे महातेजाश्चिरकालं विभावसुः । तस्यां पुत्रौ च पुत्रीं वै जनयामास वीर्यतः ॥२८॥ वैवस्वतो मनुर्ज्येष्ठो यमश्च यमुना नदी । सर्वे स्वधर्मशीलास्ते महाभागा बभूविरे ॥२९॥ तीक्ष्णेन तेजसा तप्ता संज्ञा सूर्यस्य नित्यदा । निर्ममे मायया छायां स्वस्याकृतिधरां ततः ॥३०॥ तस्यै सर्वं निवेद्यैव पुत्रीं पुत्रौ गृहादिकम् । उवाच रविणा पृष्टा मा वद त्वं स्वचेष्टितम् ॥३१॥ तां छाया प्रत्युवाचेदं यदि मां धर्षयिष्यति । सविता चेन् महाभागे वदिष्यामि न संशयः ॥३२॥ गच्छ देवि यथा चित्ते निश्चयस्तादृशं कुरु । अहं सर्वं त्वदीयं यत् कार्यं संसाधयामि तत् ॥३३॥ ततः संज्ञा ययौ गेहं पितुस्तेन तिरस्कृता । भर्तारं त्यज मैवं त्वं स्वगृहं गच्छ मा कुरु ॥३४॥ ततः सा वनवासाय जगामाश्वस्वरूपिणी । भूत्वा तताप सा ध्यात्वा तपो गणपतिं प्रभुम् ॥३५॥ मालामंत्रेण विघ्नेशं तोषयामास सा सती । पूर्णे वर्षशते तत्राजगाम गणनायकः ॥३६॥ तया संपूजितो देवः स्तुतश्चैव विशेषतः । वरं ददौ महाराज मनसीप्सितमादरात् ॥३७॥ देव्यर्यमा सौम्यतेजा भविष्यति न संशयः । त्वं मायाबंधहीना वै मद्भक्तिनिरता भव ॥३८॥ यद्यदिच्छसि तत्तत्ते सफलं प्रभविष्यति । कोपहीनः स्वयं भानुस्त्वामत्रागत्य नेष्यति ॥३९॥ एवमुक्त्वा गणाधीशोंतर्धानं प्रचकार ह । सा तत्र गणपं देवं ध्यायन्ती संस्थिताऽभवत् ॥४०॥ छायायां सविता तद्वत् पुत्रौ पुत्रीं महायशाः । अथ संजनयामास धर्मयुक्तान् महौजसः ॥४१॥ सावर्णिंश्च मनुर्ज्येष्ठः संभूतश्च शनैश्चरः । तापी नाम्नी नदी कन्या त्रयस्ते प्रथिता भुवि ॥४२॥ छाया स्वपुत्रवात्सल्यात्
संज्ञा पुत्रांश्च भेदतः। सततं न्यूनभावेनाऽवर्तयत् साधुसत्तम ॥४३॥ मनुश्च सेहे तं मातुरपराधं विचक्षणः। धर्मराजः स तां तत्र निषिषेध मुहुर्मुहुः ॥४४॥ सा स्वभावं स्वकीयं तं न तत्याज कदाचन। कुपितो धर्मराजस्तां पदा हन्तुं प्रचक्रमे ॥४५॥ तं चाविनयसंयुक्तं शशाप जननी सुतम्। पादस्ते क्लेद्यतां प्राप्य पतिष्यति धरातले ॥४६॥ धर्मः क्रोधं समागृह्य सवितारं जगाम ह। भयभीतश्च शापेन वृत्तांतं तं जगाद सः ॥४७॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदंतचरिते यमशापवर्णनं नामाष्टपंचाशत्तमोऽध्यायः ॥
॥ श्रीगणेशाय नमः ॥ गृत्समद उवाच। यमस्य वचनं श्रुत्वा सविता विस्मितोऽभवत्। धर्मशीलस्य संक्रोधो मातरि प्रबभूव ह ॥१॥ माता स्वदेहजं पुत्रं भेदबुद्ध्या शशाप ह। अतः कारणकं किंचिद्विपरीतं भवेदिह ॥२॥ ततो ज्ञानेन बुद्ध्वा स यमं भानुरुवाच ह। मातुः शापं कदा मिथ्या मया कर्तुं न शक्यते ॥३॥ अतो विनायकं देवं भज त्वं भक्तिभावतः। स चेत् प्रसन्नतां यातस्तदा सुखमवाप्स्यसि ॥४॥ एवमुक्त्वाऽर्यमा पुत्रं मंत्रं पंचाक्षरं ददौ। विधियुक्तं गणेशस्य स ययौ वनमादरात् ॥५॥ सविताऽसौ जगामेदं छायां वचनमब्रवीत्। संज्ञा कुत्र गता देवि वद नोचेच्छपाम्यहम् ॥६॥ सा भीता सत्यमेवेदं वचनं तं जगाद ह। पितुर्गृहं गता संज्ञाऽस्थाप्य मां त्वद्गृहे प्रभो ॥७॥ सत्यभाषणयोगेन तुष्टस्तां न शशाप सः। जगाम विश्वकर्माणं क्रोधयुक्तो दिवाकरः ॥८॥ तं प्रणम्य स पप्रच्छ वृत्तांतं रक्तलोचनः। संज्ञाया विश्वकर्मा तं सांत्वयामास युक्तिभिः ॥९॥ विश्वकर्मोवाच। मया ते गृहमेवं सा प्रेषिता नागता यदा। मायया गुप्तरूपेण कुत्र वै संस्थिता भवेत् ॥१०॥ त्वदीयतेजसा तप्ता गता शुष्कशरीरका। अतस्त्वं तेजसा सौम्यो भव तस्यां रमस्व च ॥११॥ ततः सोऽपि जगादेदं वचनं तं विभावसुः। त्वं विश्वकर्मतां प्राप्तोऽतो मां सौम्यं कुरु प्रभो ॥१२॥ ततस्तेन स्वयंत्रे संस्थाप्य तेजो हृतं महत्। तीक्ष्णं तेन सुसौम्यश्च सूर्यस्तां प्रजगाम ह ॥१३॥ अश्विनी रूपभावेन स्थितां वीक्ष्य वनेषु सः। अश्वो भूत्वा प्रयत्नेन धर्तुं तामुद्यतोऽभवत् ॥१४॥ साऽपरं पुरुषं ज्ञात्वा गणेशं मनसाऽस्मरत्। ततः सूर्येण वीर्यं स्वं नसि निक्षिप्तमादरात् ॥१५॥ ततस्तया रवेर्वीर्यं स्वश्वासेन बहिर्बलात्। निष्कासितं परस्यैव ज्ञात्वा सुविमनास्त्वभूत् ॥१६॥
खं. २ अ. ५९ | पान १२५ एवं दृढामग्रहं दृष्ट्वा सविता तोषवानभूत् । स्वरूपं दर्शयामास तां प्रगृह्य गृहं ययौ ॥१७॥ संज्ञया सवितुर्वार्थं त्यक्तं तस्मात् समुद्भवौ । अश्विनौ भिषजां श्रेष्ठौ सर्वमान्यौ बभूवतुः ॥१८॥ गणेशभक्तिभावेन संज्ञा सुबहुपुत्रताऽभवत् । तमेव सततं देवी भजतेऽनन्यमानसा ॥१९॥ यमोऽपि च तपस्तेपे दारुणं भावसंयुतः । निराहारतया देवं ध्यात्वा जपपरो- ऽभवत् ॥२०॥ संवत्सरसहस्रेण गणेशो वरदोऽभवत् । तं दृष्ट्वा सहसोत्थायाऽऽपूज्य तुष्टाव भानुजः ॥२१॥ यम उवाच । नमो गणपते तुभ्यं नानामायाविलासिने । मायाधारकवेषेण स्थिताय तु नमो नमः ॥२२॥ मायामोहविहीनाय साक्षिणे जगदादये । ब्रह्मादये ब्रह्मविदे ब्रह्मणे वै नमो नमः ॥२३॥ अनंताय नमस्तुभ्यं हेरंबाय च ढुंढये । विघ्नेशाय त्रिनेत्राय लंबोदर नमोऽस्तु ते ॥२४॥ गजाननाय देवाय देवानां पतये नमः । देवानां गर्वहंत्रे च रक्षसां मर्दिने नमः ॥२५॥ भक्तिप्रियाय भक्तेभ्यो नानासौख्यप्रदाय ते । अनंताननधारायानंतरूपाय ते नमः ॥२६॥ अनंतशिरसे तुभ्यं ब्रह्मभूताय वेधसे । शिवाय शिववंद्याय शिवदाय नमो नमः ॥२७॥ अखंडविभवायैव मूषकध्वजिने नमः । मूषकश्रेष्ठवाह्यास्थायैकदंताय ते नमः ॥२८॥ आदिमध्यांतरूपाय सर्वकार्याय ते नमः । पाशांकुशधरायैव सर्वभोक्त्रे नमो नमः ॥२९॥ त्वां स्तोतुं कः समर्थः स्याद्योगाकारस्वरूपिणम् । अतोऽहं प्रणमामीह तेन तुष्टो भव प्रभो ॥३०॥ धन्योऽहं सर्वभावेन येन दृष्टो गणेश्वरः । अधुना रक्ष मां भक्तं शरणागतवत्सल ॥३१॥ एवं स्तुवंतमत्यंतमुवाच गणनायकः । यमं परमभक्तं च सूर्यपुत्रं यशस्विनम् ॥३२॥ गणेश उवाच । वरं वृणु महाभाग यम त्वं मनसीप्सितम् । दास्यामि ते महाभक्त्या तोषितोऽहं न संशयः ॥३३॥ ततस्तं भानुजस्त्रोत्रोवाच देहि गजानन । भक्तिं त्वदीयपादे वै सुदृढां मे महोदर ॥३४॥ अन्यं वरं च मे देहि मातृशापाहरं परम् । ययदिच्छामि देवेश तत्तत् सिध्यतु विप्रप ॥३५॥ एवं तस्य वचः श्रुत्वा तथेति गणपोऽब्रवीत् । मदीया ते महाभक्तिर्भविष्यति न संशयः ॥३६॥ मातृशापस्य योगेन किंचिद् दुःखमवाप्स्यसि । कृद्यपादाच्च मांसं ते कीटाः संसृज्य सत्वरम् ॥३७॥ पतिष्यंति पृथिव्यां ते त्वं सुपादो भविष्यसि । यद्यदिच्छसि तत्तत्ते सुलभं प्रभविष्यति ॥३८॥ दक्षिणस्यां दिशि प्राज्ञ दिक्पालस्त्वं भविष्यसि । धर्मराज इति ख्यातो नाम्ना सर्वत्र पूजितः ॥३९॥ स्वधर्मपालकेषु त्वं श्रेष्ठो धर्मकरो मतः । जीवानां कर्मयोगेन फलदश्च भविष्यसि ॥४०॥ त्वदीयाऽऽज्ञा त्रिलोकेषु वर्ततां धर्मभावतः । त्वया स्तोत्रमिदं पुण्यं कृतं तच्च सुसिद्धिदम् ॥४१॥ पठते शृण्वते पूर्णं भविष्यति न संशयः । यमस्य यातनां घोरां स्तोत्रेण प्रस्तुतो
[पान १२६]
यम ॥४२॥ हरामि नात्र संदेहोऽन्ते स्वानंदं ददाम्यहम् । त्वया यत्र कृतं स्नानं नित्यं मद्भक्तिभाविना ॥४३॥ गणेशतीर्थ- संज्ञं तद्भविष्यति न संशयः । अत्रैव स्नानमात्रेण सर्वपापक्षयो भवेत् ॥४४॥ सुबुद्धिप्रदमेतच्च तत्क्षणात् प्रभविष्यति । एवमुक्त्वांतर्दधेऽसौ यमस्तत्र स्थितोऽभवत् ॥४५॥ संस्थाप्य मूर्तिमचलां हेरंबस्य महाद्विजैः । कुंडं चकार भावेन गणेशपदलाञ्छितम् ॥४६॥ हेरंबगणपो नाम्ना तत्र ख्यातो बभूव ह । यमः शापविहीनश्च बभूव स दिशोधिपः ॥४७॥ सदा गणपतिं चित्तेऽध्यायद्वै रविनंदनः । समः सर्वत्र संजातः सर्वमान्यो महायशाः ॥४८॥ एतत्ते कथितं दिव्यं चरित्रं कुंडसंभवम् । यमेन रचितं पुण्यं सर्वसिद्धकरं महत् ॥४९॥ एतद्यमस्य माहात्म्यं यः शृणोति नरोत्तमः । पठेद्वा शुभदं तस्मै सर्वदं प्रभविष्यति ॥५०॥ अधुना शृणु दैत्येंद्र प्रकृतं यत् कथानकम् । भ्रूशुंडिनश्च पापघ्नं वाञ्छितार्थप्रदं परम् ॥५१॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदंतचरिते कुंडसंभवचरित्रं नामैकोनषष्टितमोऽध्यायः ॥
॥ श्रीगणेशाय नमः ॥ गृत्समद उवाच । कैवर्तकस्ततो नामा महादुष्टो ददर्श ह । मुद्गलं मुनिशार्दूलं स्थितं तत्र महावने ॥१॥ दृष्ट्वा मुनिवरं हृष्टः पापचेता बभूव सः । खड्गमुद्यम्य तं हंतुं ययौ नामा दृढाग्रहः ॥२॥ यावत् समीपगो भूत्वा हंतुं तमुपचक्रमे । तावत्तस्य करात् खड्गः पपात धरणीतले ॥३॥ शस्त्राण्यन्यानि सर्वाणि दृढबद्धानि सर्वतः । पेतुर्धरातले तानि तेनाऽसौ विस्मितोऽभवत् ॥४॥ अपश्यन्मुद्गलं दुष्टो वदन्नेवं किमुद्भुतम् । तेन निर्मलचित्तोऽसौ प्रबभूवाऽतिदारुणः ॥५॥ तं प्रणम्य महादुष्ट उवाच प्रांजलिर्मुनिम् । योगिदर्शनमात्रेण यथा साधुस्तथा वचः ॥६॥ नामोवाच । आजन्मनोऽद्यपर्यंतं बुद्धिर्मे पापनिश्चया । तया कृतानि पापानि तेषां संख्या न विद्यते ॥७॥ अधुना कुंडजेनैव किंचित् स्नानेन चांजसा । जाता निर्मलभावा सा पापाद्वै संबिभेति च ॥८॥ तवदर्शनमात्रेण संतोषे संस्थिता मुने । मुक्तिमिच्छति मे बुद्धिर्महापापिन आदरात् ॥९॥ शस्त्राणि गलितान्येव न ग्रहीष्यामि तानि वै । उपदेशं वद प्राज्ञ संसारोत्तारणात्मकम् ॥१०॥ तस्य तद्वचनं श्रुत्वा मुद्गलस्तमुवाच ह । गच्छ त्वं स्वगृहं तात स्वशस्त्राणि प्रगृह्य च ॥११॥ ततस्तं मुनिशार्दूलं जगादाऽसौ महाखलः । कैवर्तकः प्रणम्याऽऽदौ रुदन्नश्रुजलाविलः ॥१२॥ नामोवाच । शिष्यं मां कुरु योगींद्र नोचेद् देहं त्यजाम्यहम् ।
खं. २ अ. ६० पान १२७ सन्निधौ ते महाभाग नेच्छामि विषये सुखम् ॥१३॥ इति तस्य वचः श्रुत्वा शरणागतवत्सलः । गणेशाय नमो मंत्रं योगी तस्मै ददौ स्वयम् ॥१४॥ स्वयष्टिं तत्र योगींद्रः समारोप्य जगाद तम् । शुष्कामत्रैव तिष्ठ त्वं जपन्मंत्रं महाखल ॥१५॥ यावद्यष्टिश्च नामान् मे सांकुरा प्रभविष्यति । तावत्त्वं जप तं मंत्रं तदा शुद्धो भविष्यसि ॥१६॥ न फलं न जलं मूलं पर्णमन्नादिकं कदा । भक्षस्व वायुमात्रं त्वं तदा शुद्धो भविष्यसि ॥१७॥ एवमुक्त्वा महादुष्टं मुद्गलो गाणपाग्रणीः । अंतर्धानं चकारैव सोऽपि तादृशमाचरत् ॥१८॥ गते वर्षसहस्रे तु वल्मीकोऽल्पस्तदंगके । समुत्पन्नस्तृणौघाद्यैः संवृतः सर्वतो बभौ ॥१९॥ तथापि नाममंत्रं स नामाऽजापीच्च भावतः । नाममंत्रप्रभावेण सांकुरा यष्टिराबभौ ॥२०॥ पापं सर्वं लयं प्राप्तं तस्य मंत्रप्रभावतः । पुण्यराशिः समुत्पन्नोऽपाररूपो महासुर ॥२१॥ अतिपुण्येन भक्त्या च शुंडा तस्य विनिःसृता । भ्रूमध्यात्तेन संजातो गजानन इवाऽपरः ॥२२॥ ततस्तत्र समायातो मुद्गलश्च महायशाः । शिष्यं कैवर्तकं दैवात् सोऽस्मरत् साधुसत्तमः ॥२३॥ ततो यष्टिं ददर्शाऽसौ सांकुरा विस्मितोऽभवत् । अहो दुष्टमतिर्नामा तपसे संस्थितो- ऽभवत् ॥२४॥ चंचलं भावमुत्सृज्य देहशोषणतत्परः । कुत्राऽस्ति स मया शिष्यो दृश्यते न महातपाः ॥२५॥ ततो वल्मीकरूपं स चाऽपश्यत्तत्र मुद्गलः । कैवर्तकस्य तस्यैव नेत्रे दृष्टे ततः किल ॥२६॥ ततो यष्ट्या स वल्मीकमुत्खाय च जलेन तम् । सिषेच तेन नामाऽपि सावधानो बभूव ह ॥२७॥ गुरुं दृष्ट्वा समुत्तस्थौ तं प्रणम्य पुरःस्थितः । ततः संमान्य योगीशो धृत्वाऽऽलिंग्य जगाद तम् ॥२८॥ वल्मीकात्त्वं समुत्पन्नः पुत्रो मे नात्र संशयः । भव ब्राह्मणमुख्यश्च भृशुंडी संज्ञयाऽधुना ॥२९॥ सिद्धोऽसि नाममंत्रेण सर्ववंद्यो भविष्यसि । तव दर्शनमात्रेण नरा मुक्तिमवाप्नुयुः ॥३०॥ लक्ष- कल्पमयं कालं जीवं स्थास्यसि भो मुने । कल्पे कल्पे च शिष्यास्ते भविष्यंति शिवादयः ॥३१॥ एवमुक्त्वा गणेशस्य ददौ तस्मै महामनुम् । एकाक्षरं विधानेन ततोऽंतर्धानमाययौ ॥३२॥ सोऽपि तत्र पुनस्तेन तताप तप उत्तमम् । वर्षमात्रेण तस्याऽग्रे प्रत्यक्षोऽभूद्गजाननः ॥३३॥ उवाच तं महाभक्तं किं वाञ्छसि वदस्व मे । ततस्तं स्तोतुमारेभे स्तोत्रैः स्वानु- भवात्मकैः ॥३४॥ भृशुंड्युवाच । नमो नमस्ते गणनांथ ढुंढे सदा सुशांतिप्रद शांतिमूर्ते । अपारयोगेन च योगिनस्त्वां भजंति भावेन नमो नमस्ते ॥३५॥ प्रजापतीनां त्वमथो विधाता सुपालकानां गणनांथ विष्णुः । हरोऽसि संहारकरेषु देव कलांश- मात्रेण नमो नमस्ते ॥३६॥ क्रियात्मकानां जगदंबिका त्वं प्रकाशकानां रविरेव ढुंढे । यत्नप्रदानां च गुणेश नामा कलांश-
पान १२८ मात्रेण नमो नमस्ते ॥३७॥ शरीरभाजां त्वमथासि बिंदुः शरीरिणां सोऽहमथो विभासि । सुबोधरूपः स्वत उत्थकानां कलांशमात्रेण नमो नमस्ते ॥३८॥ विदेहकानामसि सांख्यरूपः समाधिदानां च निजात्मकस्त्वम् । निवृत्तियोगे त्वमयोगधारी कलांशमात्रेण नमो नमस्ते ॥३९॥ गणास्त एते गणनाथ नाम्ना त्वमेव वेदादिषु योगकीर्ते । सदा सुशांतिप्रद संस्थितोऽसि भक्तेश भक्तिप्रिय ते नमो वै ॥४०॥ गकारसिद्धिस्त्वपि मोहदात्री णकारबुद्धिस्त्वथ मोहधात्री । तयोर्विलासी पतिरेव नाम्ना गणेश्वरस्त्वं च नमो नमस्ते ॥४१॥ गकाररूपेण भवान् स गौणो णकाररूपेण च निर्गुणोऽसि । तयोर्भेदे गणनाथ- नामा योगेश भक्तेश नमो नमस्ते ॥४२॥ किं वदामि गणाधीश महिमानं महाद्भुतम् । यत्र वेदादयो भ्रांता इव जाताः प्रवर् Rene ॥४३॥ पतितानामहं श्रेष्ठः पतितोत्तम एव च । तव नामप्रभावेण जातोऽहं ब्राह्मणोत्तमः ॥४४॥ किंचित् संस्कार- योगेन विश्वामित्रादयः प्रभो । जाता वै ब्राह्मणत्वस्य ब्राह्मणा निर्मलाः पुरा ॥४५॥ अहं संस्कारहीनश्च जात्या कैवर्तकोद्भवः । तत्राऽपि पापसक्तात्मा त्वया च ब्राह्मणः कृतः ॥४६॥ एवमुक्त्वा नतं विप्रं प्रांजलिं पुरतः स्थितम् । भक्तिभावेन संतुष्टस्तमुवाच गजाननः ॥४७॥ गणेश उवाच । वरान् वरय दास्यामि यांस्त्वं विप्र प्रवाञ्छसि । त्वत्समो नैव तेजस्वी भक्तो मे प्रभविष्यति ॥४८॥ तस्य तद्वचनं श्रुत्वा साश्रुनेत्रो महामुनिः । भ्रशुंडी गद्गदोक्त्या च तं जगाद गजाननम् ॥४९॥ यदि प्रसन्नभावेन वरदोऽसि गजानन । त्वदीयां भक्तिमुग्रां मे देहि संपूर्णभावतः ॥५०॥ तथेति तमुवाचाऽथ गणेशो भक्तवत्सलः । क्षेत्रं त्वदीयमत्रैव भविष्यति मदाज्ञया ॥५१॥ अमलाश्रमकं नाम्ना जनानां सेविनां सदा । अज्ञानजं मलं हत्वा ज्ञानं दास्यति निर्मलम् ॥५२॥ एवमुक्त्वाऽंतर्दधे च गणेशो देवनायकः । भ्रशुंडी भक्तिभावेन भेजे वै तं निरंतरम् ॥५३॥ नान्यत् स मनसा क्वापि क्षेत्रं देवादिकं मुनिः । तीर्थं जज्ञौ स योगींद्रो गणेशानान्न संशयः ॥५४॥ ततस्तत्र महाक्षेत्रे ब्राह्मणाद्या ययुर्मुदा । तत्रैव गणनाथं ते भेजिरे भक्तिभावतः ॥५५॥ शिष्यास्तस्य महाभागा जाता ब्रह्मर्षयोऽमलाः । क्षेत्रसंन्यासभावेन तेऽसेवंत महामुनिम् ॥५६॥ भ्रशुंडिनस्तत्र तीर्थं गणेशस्य च सुंदरम् । भुक्तिमुक्तिप्रदं प्रोक्तं स्नानमात्रेण जंतवे ॥५७॥ तस्यैवं दर्शनार्थं च मुनयः कश्यपादयः । शुकादियोगिनः सर्वे गत्वा तेऽपूजयन् मुदा ॥५८॥ कृतार्थं मन्यमानाश्च स्वस्थलं ते ययुः पुनः । प्रशंसंतो मुनिं सर्वे साक्षाच्छुंडाधरं प्रभुम् ॥५९॥ इंद्रादयस्तमेवं च दर्शनार्थं समागताः । कृतकृत्याः स्वभावेन स्वालयं ते ययुः पुनः ॥६०॥ ब्रह्मविष्णुमहेशाद्या
खं. २ अ. ६१ पान १२९ ईश्वरास्ते महामुने । नित्यदर्शनसंसक्ता बभूवुर्हृष्टमानसाः ॥६१॥ एवं प्रभावयुक्तः स भ्रूशुंडी कथितो मया । चांडालो ब्राह्मणो जातो गणेशस्मरणेन वै ॥६२॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदंतचरिते भ्रूशुंडिबाह्मणत्ववर्णनं नाम षष्टितमोऽध्यायः ॥
॥ श्रीगणेशाय नमः ॥ गृत्समद उवाच । नित्यं स मानसीं पूजामकरोत् ब्राह्मणोत्तमः । बाह्यां चैव महाभागो गणेशस्य यथाविधि ॥१॥ मानसी या त्वया पृष्टा तां शृणुष्व महामते । यथा स्वल्पेन कालेन गाणपत्यो नरो भवेत् ॥२॥ चतुर्धा मानसी पूजा ज्ञातव्या चासुरोत्तम । साधारा द्विविधा प्रोक्ता निराधारा तथा द्विधा ॥३॥ हृदि मूर्तिं गणेष्य ध्यात्वा तत्रोपचारकैः । मानसिः पूजयेद्देवं साधारा सा मता बुधैः ॥४॥ अन्या ह्येकाग्रचित्तेन सर्वत्रैकात्मभावना । तया यत्तस्य भोगादि कृतं तत् पूजनं भवेत् ॥५॥ तत्रैकात्मस्वरूपश्चाधारः प्राप्तो जनेन वै । तेन साधाररूपा सा प्रोक्ता पूजा मनीषिभिः ॥६॥ निरोधचित्तवृत्त्या यज्जनैः सर्वात्मवर्जितम् । मनोवाणीमयं सर्वमुपचारेण चार्पितम् ॥७॥ तदेव पूजनं तेन कृतं प्रह्लाद निश्चितम् । निराधारा मता पूजा गणेशस्य महात्मनः ॥८॥ चित्तस्य पंच भूमीनां लयं कृत्वा समा स्थितिः । तत्र शांतिस्वरूपं यद्योगकारेण दृश्यते ॥९॥ योगे विधिनिषेधादि सर्वं तेनोपचारकैः । समर्पितं गणेशाय तदेवं पूजनं भवेत् ॥१०॥ शांतियोगे निराधारा पूजा प्रोक्ता च योगिभिः । एवं मानसजं दैत्य चतुर्धा पूजनं भवेत् ॥११॥ एवं भ्रूशुंडिना तेन कृता पूजा विशेषतः । भक्तिभावेन काश्यां सा प्राप्ताऽभूद्रुणपाय च ॥१२॥ इदं भ्रूशुंडिनश्चित्रं चरित्रं च नरोत्तमः । यः शृणोति श्रावयति स वै स्वानंदगो भवेत् ॥१३॥ यं यमिच्छति तं तं वै लभते नाऽत्र संशयः । महापुण्यतमं श्रेष्ठं कथितं ते कथानकम् ॥१४॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदंतचरिते भ्रूशुंडिचरितं नामैकषष्टितमोऽध्यायः ॥