भारतकोश
मुद्गल पुराण (अष्टावतार चरितम्)

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

महर्षि मुद्गल द्वारा

स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)

DevanagariSanskritpublished1,023 पृष्ठ

पृष्ठ 253, कुल 1023 में से

संदर्भ में पढ़ें
पृष्ठ 253

खं. २ अ. ६० पान १२७ सन्निधौ ते महाभाग नेच्छामि विषये सुखम् ॥१३॥ इति तस्य वचः श्रुत्वा शरणागतवत्सलः । गणेशाय नमो मंत्रं योगी तस्मै ददौ स्वयम् ॥१४॥ स्वयष्टिं तत्र योगींद्रः समारोप्य जगाद तम् । शुष्कामत्रैव तिष्ठ त्वं जपन्मंत्रं महाखल ॥१५॥ यावद्यष्टिश्च नामान् मे सांकुरा प्रभविष्यति । तावत्त्वं जप तं मंत्रं तदा शुद्धो भविष्यसि ॥१६॥ न फलं न जलं मूलं पर्णमन्नादिकं कदा । भक्षस्व वायुमात्रं त्वं तदा शुद्धो भविष्यसि ॥१७॥ एवमुक्त्वा महादुष्टं मुद्गलो गाणपाग्रणीः । अंतर्धानं चकारैव सोऽपि तादृशमाचरत् ॥१८॥ गते वर्षसहस्रे तु वल्मीकोऽल्पस्तदंगके । समुत्पन्नस्तृणौघाद्यैः संवृतः सर्वतो बभौ ॥१९॥ तथापि नाममंत्रं स नामाऽजापीच्च भावतः । नाममंत्रप्रभावेण सांकुरा यष्टिराबभौ ॥२०॥ पापं सर्वं लयं प्राप्तं तस्य मंत्रप्रभावतः । पुण्यराशिः समुत्पन्नोऽपाररूपो महासुर ॥२१॥ अतिपुण्येन भक्त्या च शुंडा तस्य विनिःसृता । भ्रूमध्यात्तेन संजातो गजानन इवाऽपरः ॥२२॥ ततस्तत्र समायातो मुद्गलश्च महायशाः । शिष्यं कैवर्तकं दैवात् सोऽस्मरत् साधुसत्तमः ॥२३॥ ततो यष्टिं ददर्शाऽसौ सांकुरा विस्मितोऽभवत् । अहो दुष्टमतिर्नामा तपसे संस्थितो- ऽभवत् ॥२४॥ चंचलं भावमुत्सृज्य देहशोषणतत्परः । कुत्राऽस्ति स मया शिष्यो दृश्यते न महातपाः ॥२५॥ ततो वल्मीकरूपं स चाऽपश्यत्तत्र मुद्गलः । कैवर्तकस्य तस्यैव नेत्रे दृष्टे ततः किल ॥२६॥ ततो यष्ट्या स वल्मीकमुत्खाय च जलेन तम् । सिषेच तेन नामाऽपि सावधानो बभूव ह ॥२७॥ गुरुं दृष्ट्वा समुत्तस्थौ तं प्रणम्य पुरःस्थितः । ततः संमान्य योगीशो धृत्वाऽऽलिंग्य जगाद तम् ॥२८॥ वल्मीकात्त्वं समुत्पन्नः पुत्रो मे नात्र संशयः । भव ब्राह्मणमुख्यश्च भृशुंडी संज्ञयाऽधुना ॥२९॥ सिद्धोऽसि नाममंत्रेण सर्ववंद्यो भविष्यसि । तव दर्शनमात्रेण नरा मुक्तिमवाप्नुयुः ॥३०॥ लक्ष- कल्पमयं कालं जीवं स्थास्यसि भो मुने । कल्पे कल्पे च शिष्यास्ते भविष्यंति शिवादयः ॥३१॥ एवमुक्त्वा गणेशस्य ददौ तस्मै महामनुम् । एकाक्षरं विधानेन ततोऽंतर्धानमाययौ ॥३२॥ सोऽपि तत्र पुनस्तेन तताप तप उत्तमम् । वर्षमात्रेण तस्याऽग्रे प्रत्यक्षोऽभूद्गजाननः ॥३३॥ उवाच तं महाभक्तं किं वाञ्छसि वदस्व मे । ततस्तं स्तोतुमारेभे स्तोत्रैः स्वानु- भवात्मकैः ॥३४॥ भृशुंड्युवाच । नमो नमस्ते गणनांथ ढुंढे सदा सुशांतिप्रद शांतिमूर्ते । अपारयोगेन च योगिनस्त्वां भजंति भावेन नमो नमस्ते ॥३५॥ प्रजापतीनां त्वमथो विधाता सुपालकानां गणनांथ विष्णुः । हरोऽसि संहारकरेषु देव कलांश- मात्रेण नमो नमस्ते ॥३६॥ क्रियात्मकानां जगदंबिका त्वं प्रकाशकानां रविरेव ढुंढे । यत्नप्रदानां च गुणेश नामा कलांश-