भारतकोश
मुद्गल पुराण (अष्टावतार चरितम्)

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

महर्षि मुद्गल द्वारा

स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)

DevanagariSanskritpublished1,023 पृष्ठ

पृष्ठ 252, कुल 1023 में से

संदर्भ में पढ़ें
पृष्ठ 252

[पान १२६]

यम ॥४२॥ हरामि नात्र संदेहोऽन्ते स्वानंदं ददाम्यहम् । त्वया यत्र कृतं स्नानं नित्यं मद्भक्तिभाविना ॥४३॥ गणेशतीर्थ- संज्ञं तद्भविष्यति न संशयः । अत्रैव स्नानमात्रेण सर्वपापक्षयो भवेत् ॥४४॥ सुबुद्धिप्रदमेतच्च तत्क्षणात् प्रभविष्यति । एवमुक्त्वांतर्दधेऽसौ यमस्तत्र स्थितोऽभवत् ॥४५॥ संस्थाप्य मूर्तिमचलां हेरंबस्य महाद्विजैः । कुंडं चकार भावेन गणेशपदलाञ्छितम् ॥४६॥ हेरंबगणपो नाम्ना तत्र ख्यातो बभूव ह । यमः शापविहीनश्च बभूव स दिशोधिपः ॥४७॥ सदा गणपतिं चित्तेऽध्यायद्वै रविनंदनः । समः सर्वत्र संजातः सर्वमान्यो महायशाः ॥४८॥ एतत्ते कथितं दिव्यं चरित्रं कुंडसंभवम् । यमेन रचितं पुण्यं सर्वसिद्धकरं महत् ॥४९॥ एतद्यमस्य माहात्म्यं यः शृणोति नरोत्तमः । पठेद्वा शुभदं तस्मै सर्वदं प्रभविष्यति ॥५०॥ अधुना शृणु दैत्येंद्र प्रकृतं यत् कथानकम् । भ्रूशुंडिनश्च पापघ्नं वाञ्छितार्थप्रदं परम् ॥५१॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदंतचरिते कुंडसंभवचरित्रं नामैकोनषष्टितमोऽध्यायः ॥

॥ श्रीगणेशाय नमः ॥ गृत्समद उवाच । कैवर्तकस्ततो नामा महादुष्टो ददर्श ह । मुद्गलं मुनिशार्दूलं स्थितं तत्र महावने ॥१॥ दृष्ट्वा मुनिवरं हृष्टः पापचेता बभूव सः । खड्गमुद्यम्य तं हंतुं ययौ नामा दृढाग्रहः ॥२॥ यावत् समीपगो भूत्वा हंतुं तमुपचक्रमे । तावत्तस्य करात् खड्गः पपात धरणीतले ॥३॥ शस्त्राण्यन्यानि सर्वाणि दृढबद्धानि सर्वतः । पेतुर्धरातले तानि तेनाऽसौ विस्मितोऽभवत् ॥४॥ अपश्यन्मुद्गलं दुष्टो वदन्नेवं किमुद्भुतम् । तेन निर्मलचित्तोऽसौ प्रबभूवाऽतिदारुणः ॥५॥ तं प्रणम्य महादुष्ट उवाच प्रांजलिर्मुनिम् । योगिदर्शनमात्रेण यथा साधुस्तथा वचः ॥६॥ नामोवाच । आजन्मनोऽद्यपर्यंतं बुद्धिर्मे पापनिश्चया । तया कृतानि पापानि तेषां संख्या न विद्यते ॥७॥ अधुना कुंडजेनैव किंचित् स्नानेन चांजसा । जाता निर्मलभावा सा पापाद्वै संबिभेति च ॥८॥ तवदर्शनमात्रेण संतोषे संस्थिता मुने । मुक्तिमिच्छति मे बुद्धिर्महापापिन आदरात् ॥९॥ शस्त्राणि गलितान्येव न ग्रहीष्यामि तानि वै । उपदेशं वद प्राज्ञ संसारोत्तारणात्मकम् ॥१०॥ तस्य तद्वचनं श्रुत्वा मुद्गलस्तमुवाच ह । गच्छ त्वं स्वगृहं तात स्वशस्त्राणि प्रगृह्य च ॥११॥ ततस्तं मुनिशार्दूलं जगादाऽसौ महाखलः । कैवर्तकः प्रणम्याऽऽदौ रुदन्नश्रुजलाविलः ॥१२॥ नामोवाच । शिष्यं मां कुरु योगींद्र नोचेद् देहं त्यजाम्यहम् ।