मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 251, कुल 1023 में से
संदर्भ में पढ़ेंखं. २ अ. ५९ | पान १२५ एवं दृढामग्रहं दृष्ट्वा सविता तोषवानभूत् । स्वरूपं दर्शयामास तां प्रगृह्य गृहं ययौ ॥१७॥ संज्ञया सवितुर्वार्थं त्यक्तं तस्मात् समुद्भवौ । अश्विनौ भिषजां श्रेष्ठौ सर्वमान्यौ बभूवतुः ॥१८॥ गणेशभक्तिभावेन संज्ञा सुबहुपुत्रताऽभवत् । तमेव सततं देवी भजतेऽनन्यमानसा ॥१९॥ यमोऽपि च तपस्तेपे दारुणं भावसंयुतः । निराहारतया देवं ध्यात्वा जपपरो- ऽभवत् ॥२०॥ संवत्सरसहस्रेण गणेशो वरदोऽभवत् । तं दृष्ट्वा सहसोत्थायाऽऽपूज्य तुष्टाव भानुजः ॥२१॥ यम उवाच । नमो गणपते तुभ्यं नानामायाविलासिने । मायाधारकवेषेण स्थिताय तु नमो नमः ॥२२॥ मायामोहविहीनाय साक्षिणे जगदादये । ब्रह्मादये ब्रह्मविदे ब्रह्मणे वै नमो नमः ॥२३॥ अनंताय नमस्तुभ्यं हेरंबाय च ढुंढये । विघ्नेशाय त्रिनेत्राय लंबोदर नमोऽस्तु ते ॥२४॥ गजाननाय देवाय देवानां पतये नमः । देवानां गर्वहंत्रे च रक्षसां मर्दिने नमः ॥२५॥ भक्तिप्रियाय भक्तेभ्यो नानासौख्यप्रदाय ते । अनंताननधारायानंतरूपाय ते नमः ॥२६॥ अनंतशिरसे तुभ्यं ब्रह्मभूताय वेधसे । शिवाय शिववंद्याय शिवदाय नमो नमः ॥२७॥ अखंडविभवायैव मूषकध्वजिने नमः । मूषकश्रेष्ठवाह्यास्थायैकदंताय ते नमः ॥२८॥ आदिमध्यांतरूपाय सर्वकार्याय ते नमः । पाशांकुशधरायैव सर्वभोक्त्रे नमो नमः ॥२९॥ त्वां स्तोतुं कः समर्थः स्याद्योगाकारस्वरूपिणम् । अतोऽहं प्रणमामीह तेन तुष्टो भव प्रभो ॥३०॥ धन्योऽहं सर्वभावेन येन दृष्टो गणेश्वरः । अधुना रक्ष मां भक्तं शरणागतवत्सल ॥३१॥ एवं स्तुवंतमत्यंतमुवाच गणनायकः । यमं परमभक्तं च सूर्यपुत्रं यशस्विनम् ॥३२॥ गणेश उवाच । वरं वृणु महाभाग यम त्वं मनसीप्सितम् । दास्यामि ते महाभक्त्या तोषितोऽहं न संशयः ॥३३॥ ततस्तं भानुजस्त्रोत्रोवाच देहि गजानन । भक्तिं त्वदीयपादे वै सुदृढां मे महोदर ॥३४॥ अन्यं वरं च मे देहि मातृशापाहरं परम् । ययदिच्छामि देवेश तत्तत् सिध्यतु विप्रप ॥३५॥ एवं तस्य वचः श्रुत्वा तथेति गणपोऽब्रवीत् । मदीया ते महाभक्तिर्भविष्यति न संशयः ॥३६॥ मातृशापस्य योगेन किंचिद् दुःखमवाप्स्यसि । कृद्यपादाच्च मांसं ते कीटाः संसृज्य सत्वरम् ॥३७॥ पतिष्यंति पृथिव्यां ते त्वं सुपादो भविष्यसि । यद्यदिच्छसि तत्तत्ते सुलभं प्रभविष्यति ॥३८॥ दक्षिणस्यां दिशि प्राज्ञ दिक्पालस्त्वं भविष्यसि । धर्मराज इति ख्यातो नाम्ना सर्वत्र पूजितः ॥३९॥ स्वधर्मपालकेषु त्वं श्रेष्ठो धर्मकरो मतः । जीवानां कर्मयोगेन फलदश्च भविष्यसि ॥४०॥ त्वदीयाऽऽज्ञा त्रिलोकेषु वर्ततां धर्मभावतः । त्वया स्तोत्रमिदं पुण्यं कृतं तच्च सुसिद्धिदम् ॥४१॥ पठते शृण्वते पूर्णं भविष्यति न संशयः । यमस्य यातनां घोरां स्तोत्रेण प्रस्तुतो