भारतकोश
मुद्गल पुराण (अष्टावतार चरितम्)

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

महर्षि मुद्गल द्वारा

स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)

DevanagariSanskritpublished1,023 पृष्ठ

पृष्ठ 254, कुल 1023 में से

संदर्भ में पढ़ें
पृष्ठ 254

पान १२८ मात्रेण नमो नमस्ते ॥३७॥ शरीरभाजां त्वमथासि बिंदुः शरीरिणां सोऽहमथो विभासि । सुबोधरूपः स्वत उत्थकानां कलांशमात्रेण नमो नमस्ते ॥३८॥ विदेहकानामसि सांख्यरूपः समाधिदानां च निजात्मकस्त्वम् । निवृत्तियोगे त्वमयोगधारी कलांशमात्रेण नमो नमस्ते ॥३९॥ गणास्त एते गणनाथ नाम्ना त्वमेव वेदादिषु योगकीर्ते । सदा सुशांतिप्रद संस्थितोऽसि भक्तेश भक्तिप्रिय ते नमो वै ॥४०॥ गकारसिद्धिस्त्वपि मोहदात्री णकारबुद्धिस्त्वथ मोहधात्री । तयोर्विलासी पतिरेव नाम्ना गणेश्वरस्त्वं च नमो नमस्ते ॥४१॥ गकाररूपेण भवान् स गौणो णकाररूपेण च निर्गुणोऽसि । तयोर्भेदे गणनाथ- नामा योगेश भक्तेश नमो नमस्ते ॥४२॥ किं वदामि गणाधीश महिमानं महाद्भुतम् । यत्र वेदादयो भ्रांता इव जाताः प्रवर् Rene ॥४३॥ पतितानामहं श्रेष्ठः पतितोत्तम एव च । तव नामप्रभावेण जातोऽहं ब्राह्मणोत्तमः ॥४४॥ किंचित् संस्कार- योगेन विश्वामित्रादयः प्रभो । जाता वै ब्राह्मणत्वस्य ब्राह्मणा निर्मलाः पुरा ॥४५॥ अहं संस्कारहीनश्च जात्या कैवर्तकोद्भवः । तत्राऽपि पापसक्तात्मा त्वया च ब्राह्मणः कृतः ॥४६॥ एवमुक्त्वा नतं विप्रं प्रांजलिं पुरतः स्थितम् । भक्तिभावेन संतुष्टस्तमुवाच गजाननः ॥४७॥ गणेश उवाच । वरान् वरय दास्यामि यांस्त्वं विप्र प्रवाञ्छसि । त्वत्समो नैव तेजस्वी भक्तो मे प्रभविष्यति ॥४८॥ तस्य तद्वचनं श्रुत्वा साश्रुनेत्रो महामुनिः । भ्रशुंडी गद्गदोक्त्या च तं जगाद गजाननम् ॥४९॥ यदि प्रसन्नभावेन वरदोऽसि गजानन । त्वदीयां भक्तिमुग्रां मे देहि संपूर्णभावतः ॥५०॥ तथेति तमुवाचाऽथ गणेशो भक्तवत्सलः । क्षेत्रं त्वदीयमत्रैव भविष्यति मदाज्ञया ॥५१॥ अमलाश्रमकं नाम्ना जनानां सेविनां सदा । अज्ञानजं मलं हत्वा ज्ञानं दास्यति निर्मलम् ॥५२॥ एवमुक्त्वाऽंतर्दधे च गणेशो देवनायकः । भ्रशुंडी भक्तिभावेन भेजे वै तं निरंतरम् ॥५३॥ नान्यत् स मनसा क्वापि क्षेत्रं देवादिकं मुनिः । तीर्थं जज्ञौ स योगींद्रो गणेशानान्न संशयः ॥५४॥ ततस्तत्र महाक्षेत्रे ब्राह्मणाद्या ययुर्मुदा । तत्रैव गणनाथं ते भेजिरे भक्तिभावतः ॥५५॥ शिष्यास्तस्य महाभागा जाता ब्रह्मर्षयोऽमलाः । क्षेत्रसंन्यासभावेन तेऽसेवंत महामुनिम् ॥५६॥ भ्रशुंडिनस्तत्र तीर्थं गणेशस्य च सुंदरम् । भुक्तिमुक्तिप्रदं प्रोक्तं स्नानमात्रेण जंतवे ॥५७॥ तस्यैवं दर्शनार्थं च मुनयः कश्यपादयः । शुकादियोगिनः सर्वे गत्वा तेऽपूजयन् मुदा ॥५८॥ कृतार्थं मन्यमानाश्च स्वस्थलं ते ययुः पुनः । प्रशंसंतो मुनिं सर्वे साक्षाच्छुंडाधरं प्रभुम् ॥५९॥ इंद्रादयस्तमेवं च दर्शनार्थं समागताः । कृतकृत्याः स्वभावेन स्वालयं ते ययुः पुनः ॥६०॥ ब्रह्मविष्णुमहेशाद्या