मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 255, कुल 1023 में से
संदर्भ में पढ़ेंखं. २ अ. ६१ पान १२९ ईश्वरास्ते महामुने । नित्यदर्शनसंसक्ता बभूवुर्हृष्टमानसाः ॥६१॥ एवं प्रभावयुक्तः स भ्रूशुंडी कथितो मया । चांडालो ब्राह्मणो जातो गणेशस्मरणेन वै ॥६२॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदंतचरिते भ्रूशुंडिबाह्मणत्ववर्णनं नाम षष्टितमोऽध्यायः ॥
॥ श्रीगणेशाय नमः ॥ गृत्समद उवाच । नित्यं स मानसीं पूजामकरोत् ब्राह्मणोत्तमः । बाह्यां चैव महाभागो गणेशस्य यथाविधि ॥१॥ मानसी या त्वया पृष्टा तां शृणुष्व महामते । यथा स्वल्पेन कालेन गाणपत्यो नरो भवेत् ॥२॥ चतुर्धा मानसी पूजा ज्ञातव्या चासुरोत्तम । साधारा द्विविधा प्रोक्ता निराधारा तथा द्विधा ॥३॥ हृदि मूर्तिं गणेष्य ध्यात्वा तत्रोपचारकैः । मानसिः पूजयेद्देवं साधारा सा मता बुधैः ॥४॥ अन्या ह्येकाग्रचित्तेन सर्वत्रैकात्मभावना । तया यत्तस्य भोगादि कृतं तत् पूजनं भवेत् ॥५॥ तत्रैकात्मस्वरूपश्चाधारः प्राप्तो जनेन वै । तेन साधाररूपा सा प्रोक्ता पूजा मनीषिभिः ॥६॥ निरोधचित्तवृत्त्या यज्जनैः सर्वात्मवर्जितम् । मनोवाणीमयं सर्वमुपचारेण चार्पितम् ॥७॥ तदेव पूजनं तेन कृतं प्रह्लाद निश्चितम् । निराधारा मता पूजा गणेशस्य महात्मनः ॥८॥ चित्तस्य पंच भूमीनां लयं कृत्वा समा स्थितिः । तत्र शांतिस्वरूपं यद्योगकारेण दृश्यते ॥९॥ योगे विधिनिषेधादि सर्वं तेनोपचारकैः । समर्पितं गणेशाय तदेवं पूजनं भवेत् ॥१०॥ शांतियोगे निराधारा पूजा प्रोक्ता च योगिभिः । एवं मानसजं दैत्य चतुर्धा पूजनं भवेत् ॥११॥ एवं भ्रूशुंडिना तेन कृता पूजा विशेषतः । भक्तिभावेन काश्यां सा प्राप्ताऽभूद्रुणपाय च ॥१२॥ इदं भ्रूशुंडिनश्चित्रं चरित्रं च नरोत्तमः । यः शृणोति श्रावयति स वै स्वानंदगो भवेत् ॥१३॥ यं यमिच्छति तं तं वै लभते नाऽत्र संशयः । महापुण्यतमं श्रेष्ठं कथितं ते कथानकम् ॥१४॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदंतचरिते भ्रूशुंडिचरितं नामैकषष्टितमोऽध्यायः ॥