भारतकोश
मुद्गल पुराण (अष्टावतार चरितम्)

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

महर्षि मुद्गल द्वारा

स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)

DevanagariSanskritpublished1,023 पृष्ठ

पृष्ठ 248, कुल 1023 में से

संदर्भ में पढ़ें
पृष्ठ 248

न कदाचन । प्रत्यक्षो गणराजोऽयं शुंडावान्नात्र संशयः ॥५९॥ काश्यां मुक्तिस्वरूपायामागतोऽसौ महामुनिः । मणिकर्णी च विश्वेशं सस्मार मनसाऽपि न ॥६०॥ गणेशार्थं समायातस्तं प्रणम्य महामुनिः । स्वाश्रमं पुनरेवासौ जगाम सुखदायकम् ॥६१॥ एवं विस्मयभावेन काशिराजस्तथाऽभजत् । गणेशं साधुभावज्ञः सोऽपि तत्समतां ययौ ॥६२॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खंडे एकदंतचरिते भृशुंडीभक्तिवर्णनं नाम सप्तपंचाशत्तमोऽध्यायः ॥

॥ श्रीगणेशाय नमः ॥ प्रह्लाद उवाच । शृणु गृत्समद त्वं मे वचनं दीनपालक । कोऽसौ भृशुंडिनामा वै मुनिर्मे ब्रूहि सांप्रतम् ॥१॥ तपसा केन तस्याऽपि भृशुंडा निःसृता प्रभो । कीदृशी मानसी पूजा कृता मां वद विस्तरात् ॥२॥ आश्चर्यं परमं प्राप्तः श्रुत्वा मुनिवरस्य च । महिमानं महाभाग धन्यो भूमंडलेऽभवत् ॥३॥ गणेशभजने सक्ता नरास्ते ब्रह्मरूपिणः । तेषां कथा प्रवक्तां श्रोतारं प्रपुनाति च ॥४॥ मुद्गल उवाच । एवं पृष्टो गृत्समदो महायोगी तमब्रवीत् । प्रह्लादं भक्तिपात्रं वै दृष्ट्वा हर्षसमन्वितः ॥५॥ गृत्समद उवाच । शृणु प्रह्लाद भावेन कथां लोकैकपावनीम् । भृशुंडिसंश्रितां पुण्यां ब्रह्मभूतपदप्रदाम् ॥६॥ नंदूरे त्ववसद् ग्रामे नामा कैवर्तकः पुरा । नाम्ना पापी सुविख्यातो महापापपरायणः ॥७॥ धृत्वा ग्रामेषु शस्त्रादीन् वनेषु विचचार ह । जीवहिंसां सदा तत्र चकार कामवर्जितः ॥८॥ मार्गस्थांश्च जनान् वीक्ष्य- ऽमारयद्धनलिप्सया । संगृह्य मिलितं ग्रामे जगाम प्रत्यहं खलः ॥९॥ द्रव्यवस्त्रादिहीनांस्तान् दृष्ट्वा मारयताप्यहो । जीवं दृष्ट्वा क्रूरकर्मा न मुमोच वधप्रियः ॥१०॥ धनं तेषां गृहीत्वाऽसौ धनवान् प्रबभूव ह । द्रव्यसंचयभावेन न तुतोष कदाचन ॥११॥ न संख्यां कर्तुमत्यंतं तस्य पापस्य वै भवेत् । ब्रह्मा समर्थः शेषश्च पापानां भागिनौ भयात् ॥१२॥ स्त्रीगोबाल- द्विजादीनां हत्याऽपारा कृता पुरा । तेन तस्य च भारेण पीडिता भूरभूत्ततः ॥१३॥ एकदा वनमध्येऽसौ कंचित्पुरुष- मुत्तमम् । दृष्ट्वा वधार्थमानंददाधावच्छस्त्रसंयुतः ॥१४॥ तमागतं समालोक्य दुष्टं दूरे पलाय्य सः । गव्यूतिमात्रमासाद्य ग्रामं तत्र जगाम ह ॥१५॥ नामा प्रह्लाद मार्गे स पतितोऽधावनाऽऽकुलः । जातश्च दुःखितोऽत्यंतं विरराम वधात्तदा ॥१६॥ मंदगत्या चचालाऽसौ मार्गे कुंडं ददर्श ह । तत्र श्रमापनोदार्थं स्नानं चक्रे महाबलः ॥१७॥ तदेव गणराजस्य तीर्थं पुण्यप्रदं