भारतकोश
संग्रह पर लौटें

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

महर्षि मुद्गल द्वारा

स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)

DevanagariSanskritpublished1,023 पृष्ठ

न कदाचन । प्रत्यक्षो गणराजोऽयं शुंडावान्नात्र संशयः ॥५९॥ काश्यां मुक्तिस्वरूपायामागतोऽसौ महामुनिः । मणिकर्णी च विश्वेशं सस्मार मनसाऽपि न ॥६०॥ गणेशार्थं समायातस्तं प्रणम्य महामुनिः । स्वाश्रमं पुनरेवासौ जगाम सुखदायकम् ॥६१॥ एवं विस्मयभावेन काशिराजस्तथाऽभजत् । गणेशं साधुभावज्ञः सोऽपि तत्समतां ययौ ॥६२॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खंडे एकदंतचरिते भृशुंडीभक्तिवर्णनं नाम सप्तपंचाशत्तमोऽध्यायः ॥

॥ श्रीगणेशाय नमः ॥ प्रह्लाद उवाच । शृणु गृत्समद त्वं मे वचनं दीनपालक । कोऽसौ भृशुंडिनामा वै मुनिर्मे ब्रूहि सांप्रतम् ॥१॥ तपसा केन तस्याऽपि भृशुंडा निःसृता प्रभो । कीदृशी मानसी पूजा कृता मां वद विस्तरात् ॥२॥ आश्चर्यं परमं प्राप्तः श्रुत्वा मुनिवरस्य च । महिमानं महाभाग धन्यो भूमंडलेऽभवत् ॥३॥ गणेशभजने सक्ता नरास्ते ब्रह्मरूपिणः । तेषां कथा प्रवक्तां श्रोतारं प्रपुनाति च ॥४॥ मुद्गल उवाच । एवं पृष्टो गृत्समदो महायोगी तमब्रवीत् । प्रह्लादं भक्तिपात्रं वै दृष्ट्वा हर्षसमन्वितः ॥५॥ गृत्समद उवाच । शृणु प्रह्लाद भावेन कथां लोकैकपावनीम् । भृशुंडिसंश्रितां पुण्यां ब्रह्मभूतपदप्रदाम् ॥६॥ नंदूरे त्ववसद् ग्रामे नामा कैवर्तकः पुरा । नाम्ना पापी सुविख्यातो महापापपरायणः ॥७॥ धृत्वा ग्रामेषु शस्त्रादीन् वनेषु विचचार ह । जीवहिंसां सदा तत्र चकार कामवर्जितः ॥८॥ मार्गस्थांश्च जनान् वीक्ष्य- ऽमारयद्धनलिप्सया । संगृह्य मिलितं ग्रामे जगाम प्रत्यहं खलः ॥९॥ द्रव्यवस्त्रादिहीनांस्तान् दृष्ट्वा मारयताप्यहो । जीवं दृष्ट्वा क्रूरकर्मा न मुमोच वधप्रियः ॥१०॥ धनं तेषां गृहीत्वाऽसौ धनवान् प्रबभूव ह । द्रव्यसंचयभावेन न तुतोष कदाचन ॥११॥ न संख्यां कर्तुमत्यंतं तस्य पापस्य वै भवेत् । ब्रह्मा समर्थः शेषश्च पापानां भागिनौ भयात् ॥१२॥ स्त्रीगोबाल- द्विजादीनां हत्याऽपारा कृता पुरा । तेन तस्य च भारेण पीडिता भूरभूत्ततः ॥१३॥ एकदा वनमध्येऽसौ कंचित्पुरुष- मुत्तमम् । दृष्ट्वा वधार्थमानंददाधावच्छस्त्रसंयुतः ॥१४॥ तमागतं समालोक्य दुष्टं दूरे पलाय्य सः । गव्यूतिमात्रमासाद्य ग्रामं तत्र जगाम ह ॥१५॥ नामा प्रह्लाद मार्गे स पतितोऽधावनाऽऽकुलः । जातश्च दुःखितोऽत्यंतं विरराम वधात्तदा ॥१६॥ मंदगत्या चचालाऽसौ मार्गे कुंडं ददर्श ह । तत्र श्रमापनोदार्थं स्नानं चक्रे महाबलः ॥१७॥ तदेव गणराजस्य तीर्थं पुण्यप्रदं

[header] [left] खं. २ अ. ५८ [/left] [right] पान १२३ [/right] [/header]

महत् । तस्य प्रभावयोगेन पापं संशिथिलं त्वभूत् ॥१८॥ स पापशिथिलो नामा विचारमकरोद् हृदि । अहो मया च पापानि कृतानि कति नाऽविदम् ॥१९॥ मृतोऽहं नरके घोरे पतिष्यामि न संशयः । कल्पान् दुःखमनेकांश्च सहिष्यामि कथं परम् ॥२०॥ मुद्गल उवाच । एवं ब्रुवंतमानंददायकं मुनिसत्तमम् । प्रह्लादो वै गृत्समदं पप्रच्छ विनयान्वितः ॥२१॥ प्रह्लाद उवाच । कीदृशं कुंडरूपं च केन वा चरितं तपः । तत्र येन गणेशस्य स्थानं कुंडात्मकं ह्यभूत् ॥२२॥ ततो गृत्समदः प्राह प्रह्लादं सर्वमंजसा । आह्लादेन समायुक्तो गाणपत्यो महायशाः ॥२३॥ गृत्समद उवाच । अत्र ते कथयिष्यामि चेतिहासं पुरातनम् । सूर्यस्य यमराजस्य संवादं पापनाशनम् ॥२४॥ सूर्याय प्रददौ कन्यां विश्वकर्मा महाद्भुताम् । संज्ञां कर्ममयीं देवीं मायारूपां महाद्युतिः ॥२५॥ तपसा शतवर्षैस्तां प्रसन्नां स चकार ह । ययाचे विश्वकर्मा तां पुत्री मे भव मानदे ॥२६॥ साऽऽदिमाया वरात्तस्य पुत्री जाता सुरेश्वर । तां गृहीत्वा गृहं देव सविता प्रजगाम ह ॥२७॥ तया रेमे महातेजाश्चिरकालं विभावसुः । तस्यां पुत्रौ च पुत्रीं वै जनयामास वीर्यतः ॥२८॥ वैवस्वतो मनुर्ज्येष्ठो यमश्च यमुना नदी । सर्वे स्वधर्मशीलास्ते महाभागा बभूविरे ॥२९॥ तीक्ष्णेन तेजसा तप्ता संज्ञा सूर्यस्य नित्यदा । निर्ममे मायया छायां स्वस्याकृतिधरां ततः ॥३०॥ तस्यै सर्वं निवेद्यैव पुत्रीं पुत्रौ गृहादिकम् । उवाच रविणा पृष्टा मा वद त्वं स्वचेष्टितम् ॥३१॥ तां छाया प्रत्युवाचेदं यदि मां धर्षयिष्यति । सविता चेन् महाभागे वदिष्यामि न संशयः ॥३२॥ गच्छ देवि यथा चित्ते निश्चयस्तादृशं कुरु । अहं सर्वं त्वदीयं यत् कार्यं संसाधयामि तत् ॥३३॥ ततः संज्ञा ययौ गेहं पितुस्तेन तिरस्कृता । भर्तारं त्यज मैवं त्वं स्वगृहं गच्छ मा कुरु ॥३४॥ ततः सा वनवासाय जगामाश्वस्वरूपिणी । भूत्वा तताप सा ध्यात्वा तपो गणपतिं प्रभुम् ॥३५॥ मालामंत्रेण विघ्नेशं तोषयामास सा सती । पूर्णे वर्षशते तत्राजगाम गणनायकः ॥३६॥ तया संपूजितो देवः स्तुतश्चैव विशेषतः । वरं ददौ महाराज मनसीप्सितमादरात् ॥३७॥ देव्यर्यमा सौम्यतेजा भविष्यति न संशयः । त्वं मायाबंधहीना वै मद्भक्तिनिरता भव ॥३८॥ यद्यदिच्छसि तत्तत्ते सफलं प्रभविष्यति । कोपहीनः स्वयं भानुस्त्वामत्रागत्य नेष्यति ॥३९॥ एवमुक्त्वा गणाधीशोंतर्धानं प्रचकार ह । सा तत्र गणपं देवं ध्यायन्ती संस्थिताऽभवत् ॥४०॥ छायायां सविता तद्वत् पुत्रौ पुत्रीं महायशाः । अथ संजनयामास धर्मयुक्तान् महौजसः ॥४१॥ सावर्णिंश्च मनुर्ज्येष्ठः संभूतश्च शनैश्चरः । तापी नाम्नी नदी कन्या त्रयस्ते प्रथिता भुवि ॥४२॥ छाया स्वपुत्रवात्सल्यात्

संज्ञा पुत्रांश्च भेदतः। सततं न्यूनभावेनाऽवर्तयत् साधुसत्तम ॥४३॥ मनुश्च सेहे तं मातुरपराधं विचक्षणः। धर्मराजः स तां तत्र निषिषेध मुहुर्मुहुः ॥४४॥ सा स्वभावं स्वकीयं तं न तत्याज कदाचन। कुपितो धर्मराजस्तां पदा हन्तुं प्रचक्रमे ॥४५॥ तं चाविनयसंयुक्तं शशाप जननी सुतम्। पादस्ते क्लेद्यतां प्राप्य पतिष्यति धरातले ॥४६॥ धर्मः क्रोधं समागृह्य सवितारं जगाम ह। भयभीतश्च शापेन वृत्तांतं तं जगाद सः ॥४७॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदंतचरिते यमशापवर्णनं नामाष्टपंचाशत्तमोऽध्यायः ॥

॥ श्रीगणेशाय नमः ॥ गृत्समद उवाच। यमस्य वचनं श्रुत्वा सविता विस्मितोऽभवत्। धर्मशीलस्य संक्रोधो मातरि प्रबभूव ह ॥१॥ माता स्वदेहजं पुत्रं भेदबुद्ध्या शशाप ह। अतः कारणकं किंचिद्विपरीतं भवेदिह ॥२॥ ततो ज्ञानेन बुद्ध्वा स यमं भानुरुवाच ह। मातुः शापं कदा मिथ्या मया कर्तुं न शक्यते ॥३॥ अतो विनायकं देवं भज त्वं भक्तिभावतः। स चेत् प्रसन्नतां यातस्तदा सुखमवाप्स्यसि ॥४॥ एवमुक्त्वाऽर्यमा पुत्रं मंत्रं पंचाक्षरं ददौ। विधियुक्तं गणेशस्य स ययौ वनमादरात् ॥५॥ सविताऽसौ जगामेदं छायां वचनमब्रवीत्। संज्ञा कुत्र गता देवि वद नोचेच्छपाम्यहम् ॥६॥ सा भीता सत्यमेवेदं वचनं तं जगाद ह। पितुर्गृहं गता संज्ञाऽस्थाप्य मां त्वद्गृहे प्रभो ॥७॥ सत्यभाषणयोगेन तुष्टस्तां न शशाप सः। जगाम विश्वकर्माणं क्रोधयुक्तो दिवाकरः ॥८॥ तं प्रणम्य स पप्रच्छ वृत्तांतं रक्तलोचनः। संज्ञाया विश्वकर्मा तं सांत्वयामास युक्तिभिः ॥९॥ विश्वकर्मोवाच। मया ते गृहमेवं सा प्रेषिता नागता यदा। मायया गुप्तरूपेण कुत्र वै संस्थिता भवेत् ॥१०॥ त्वदीयतेजसा तप्ता गता शुष्कशरीरका। अतस्त्वं तेजसा सौम्यो भव तस्यां रमस्व च ॥११॥ ततः सोऽपि जगादेदं वचनं तं विभावसुः। त्वं विश्वकर्मतां प्राप्तोऽतो मां सौम्यं कुरु प्रभो ॥१२॥ ततस्तेन स्वयंत्रे संस्थाप्य तेजो हृतं महत्। तीक्ष्णं तेन सुसौम्यश्च सूर्यस्तां प्रजगाम ह ॥१३॥ अश्विनी रूपभावेन स्थितां वीक्ष्य वनेषु सः। अश्वो भूत्वा प्रयत्नेन धर्तुं तामुद्यतोऽभवत् ॥१४॥ साऽपरं पुरुषं ज्ञात्वा गणेशं मनसाऽस्मरत्। ततः सूर्येण वीर्यं स्वं नसि निक्षिप्तमादरात् ॥१५॥ ततस्तया रवेर्वीर्यं स्वश्वासेन बहिर्बलात्। निष्कासितं परस्यैव ज्ञात्वा सुविमनास्त्वभूत् ॥१६॥

खं. २ अ. ५९ | पान १२५ एवं दृढामग्रहं दृष्ट्वा सविता तोषवानभूत् । स्वरूपं दर्शयामास तां प्रगृह्य गृहं ययौ ॥१७॥ संज्ञया सवितुर्वार्थं त्यक्तं तस्मात् समुद्भवौ । अश्विनौ भिषजां श्रेष्ठौ सर्वमान्यौ बभूवतुः ॥१८॥ गणेशभक्तिभावेन संज्ञा सुबहुपुत्रताऽभवत् । तमेव सततं देवी भजतेऽनन्यमानसा ॥१९॥ यमोऽपि च तपस्तेपे दारुणं भावसंयुतः । निराहारतया देवं ध्यात्वा जपपरो- ऽभवत् ॥२०॥ संवत्सरसहस्रेण गणेशो वरदोऽभवत् । तं दृष्ट्वा सहसोत्थायाऽऽपूज्य तुष्टाव भानुजः ॥२१॥ यम उवाच । नमो गणपते तुभ्यं नानामायाविलासिने । मायाधारकवेषेण स्थिताय तु नमो नमः ॥२२॥ मायामोहविहीनाय साक्षिणे जगदादये । ब्रह्मादये ब्रह्मविदे ब्रह्मणे वै नमो नमः ॥२३॥ अनंताय नमस्तुभ्यं हेरंबाय च ढुंढये । विघ्नेशाय त्रिनेत्राय लंबोदर नमोऽस्तु ते ॥२४॥ गजाननाय देवाय देवानां पतये नमः । देवानां गर्वहंत्रे च रक्षसां मर्दिने नमः ॥२५॥ भक्तिप्रियाय भक्तेभ्यो नानासौख्यप्रदाय ते । अनंताननधारायानंतरूपाय ते नमः ॥२६॥ अनंतशिरसे तुभ्यं ब्रह्मभूताय वेधसे । शिवाय शिववंद्याय शिवदाय नमो नमः ॥२७॥ अखंडविभवायैव मूषकध्वजिने नमः । मूषकश्रेष्ठवाह्यास्थायैकदंताय ते नमः ॥२८॥ आदिमध्यांतरूपाय सर्वकार्याय ते नमः । पाशांकुशधरायैव सर्वभोक्त्रे नमो नमः ॥२९॥ त्वां स्तोतुं कः समर्थः स्याद्योगाकारस्वरूपिणम् । अतोऽहं प्रणमामीह तेन तुष्टो भव प्रभो ॥३०॥ धन्योऽहं सर्वभावेन येन दृष्टो गणेश्वरः । अधुना रक्ष मां भक्तं शरणागतवत्सल ॥३१॥ एवं स्तुवंतमत्यंतमुवाच गणनायकः । यमं परमभक्तं च सूर्यपुत्रं यशस्विनम् ॥३२॥ गणेश उवाच । वरं वृणु महाभाग यम त्वं मनसीप्सितम् । दास्यामि ते महाभक्त्या तोषितोऽहं न संशयः ॥३३॥ ततस्तं भानुजस्त्रोत्रोवाच देहि गजानन । भक्तिं त्वदीयपादे वै सुदृढां मे महोदर ॥३४॥ अन्यं वरं च मे देहि मातृशापाहरं परम् । ययदिच्छामि देवेश तत्तत् सिध्यतु विप्रप ॥३५॥ एवं तस्य वचः श्रुत्वा तथेति गणपोऽब्रवीत् । मदीया ते महाभक्तिर्भविष्यति न संशयः ॥३६॥ मातृशापस्य योगेन किंचिद् दुःखमवाप्स्यसि । कृद्यपादाच्च मांसं ते कीटाः संसृज्य सत्वरम् ॥३७॥ पतिष्यंति पृथिव्यां ते त्वं सुपादो भविष्यसि । यद्यदिच्छसि तत्तत्ते सुलभं प्रभविष्यति ॥३८॥ दक्षिणस्यां दिशि प्राज्ञ दिक्पालस्त्वं भविष्यसि । धर्मराज इति ख्यातो नाम्ना सर्वत्र पूजितः ॥३९॥ स्वधर्मपालकेषु त्वं श्रेष्ठो धर्मकरो मतः । जीवानां कर्मयोगेन फलदश्च भविष्यसि ॥४०॥ त्वदीयाऽऽज्ञा त्रिलोकेषु वर्ततां धर्मभावतः । त्वया स्तोत्रमिदं पुण्यं कृतं तच्च सुसिद्धिदम् ॥४१॥ पठते शृण्वते पूर्णं भविष्यति न संशयः । यमस्य यातनां घोरां स्तोत्रेण प्रस्तुतो

[पान १२६]

यम ॥४२॥ हरामि नात्र संदेहोऽन्ते स्वानंदं ददाम्यहम् । त्वया यत्र कृतं स्नानं नित्यं मद्भक्तिभाविना ॥४३॥ गणेशतीर्थ- संज्ञं तद्भविष्यति न संशयः । अत्रैव स्नानमात्रेण सर्वपापक्षयो भवेत् ॥४४॥ सुबुद्धिप्रदमेतच्च तत्क्षणात् प्रभविष्यति । एवमुक्त्वांतर्दधेऽसौ यमस्तत्र स्थितोऽभवत् ॥४५॥ संस्थाप्य मूर्तिमचलां हेरंबस्य महाद्विजैः । कुंडं चकार भावेन गणेशपदलाञ्छितम् ॥४६॥ हेरंबगणपो नाम्ना तत्र ख्यातो बभूव ह । यमः शापविहीनश्च बभूव स दिशोधिपः ॥४७॥ सदा गणपतिं चित्तेऽध्यायद्वै रविनंदनः । समः सर्वत्र संजातः सर्वमान्यो महायशाः ॥४८॥ एतत्ते कथितं दिव्यं चरित्रं कुंडसंभवम् । यमेन रचितं पुण्यं सर्वसिद्धकरं महत् ॥४९॥ एतद्यमस्य माहात्म्यं यः शृणोति नरोत्तमः । पठेद्वा शुभदं तस्मै सर्वदं प्रभविष्यति ॥५०॥ अधुना शृणु दैत्येंद्र प्रकृतं यत् कथानकम् । भ्रूशुंडिनश्च पापघ्नं वाञ्छितार्थप्रदं परम् ॥५१॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदंतचरिते कुंडसंभवचरित्रं नामैकोनषष्टितमोऽध्यायः ॥

॥ श्रीगणेशाय नमः ॥ गृत्समद उवाच । कैवर्तकस्ततो नामा महादुष्टो ददर्श ह । मुद्गलं मुनिशार्दूलं स्थितं तत्र महावने ॥१॥ दृष्ट्वा मुनिवरं हृष्टः पापचेता बभूव सः । खड्गमुद्यम्य तं हंतुं ययौ नामा दृढाग्रहः ॥२॥ यावत् समीपगो भूत्वा हंतुं तमुपचक्रमे । तावत्तस्य करात् खड्गः पपात धरणीतले ॥३॥ शस्त्राण्यन्यानि सर्वाणि दृढबद्धानि सर्वतः । पेतुर्धरातले तानि तेनाऽसौ विस्मितोऽभवत् ॥४॥ अपश्यन्मुद्गलं दुष्टो वदन्नेवं किमुद्भुतम् । तेन निर्मलचित्तोऽसौ प्रबभूवाऽतिदारुणः ॥५॥ तं प्रणम्य महादुष्ट उवाच प्रांजलिर्मुनिम् । योगिदर्शनमात्रेण यथा साधुस्तथा वचः ॥६॥ नामोवाच । आजन्मनोऽद्यपर्यंतं बुद्धिर्मे पापनिश्चया । तया कृतानि पापानि तेषां संख्या न विद्यते ॥७॥ अधुना कुंडजेनैव किंचित् स्नानेन चांजसा । जाता निर्मलभावा सा पापाद्वै संबिभेति च ॥८॥ तवदर्शनमात्रेण संतोषे संस्थिता मुने । मुक्तिमिच्छति मे बुद्धिर्महापापिन आदरात् ॥९॥ शस्त्राणि गलितान्येव न ग्रहीष्यामि तानि वै । उपदेशं वद प्राज्ञ संसारोत्तारणात्मकम् ॥१०॥ तस्य तद्वचनं श्रुत्वा मुद्गलस्तमुवाच ह । गच्छ त्वं स्वगृहं तात स्वशस्त्राणि प्रगृह्य च ॥११॥ ततस्तं मुनिशार्दूलं जगादाऽसौ महाखलः । कैवर्तकः प्रणम्याऽऽदौ रुदन्नश्रुजलाविलः ॥१२॥ नामोवाच । शिष्यं मां कुरु योगींद्र नोचेद् देहं त्यजाम्यहम् ।

खं. २ अ. ६० पान १२७ सन्निधौ ते महाभाग नेच्छामि विषये सुखम् ॥१३॥ इति तस्य वचः श्रुत्वा शरणागतवत्सलः । गणेशाय नमो मंत्रं योगी तस्मै ददौ स्वयम् ॥१४॥ स्वयष्टिं तत्र योगींद्रः समारोप्य जगाद तम् । शुष्कामत्रैव तिष्ठ त्वं जपन्मंत्रं महाखल ॥१५॥ यावद्यष्टिश्च नामान् मे सांकुरा प्रभविष्यति । तावत्त्वं जप तं मंत्रं तदा शुद्धो भविष्यसि ॥१६॥ न फलं न जलं मूलं पर्णमन्नादिकं कदा । भक्षस्व वायुमात्रं त्वं तदा शुद्धो भविष्यसि ॥१७॥ एवमुक्त्वा महादुष्टं मुद्गलो गाणपाग्रणीः । अंतर्धानं चकारैव सोऽपि तादृशमाचरत् ॥१८॥ गते वर्षसहस्रे तु वल्मीकोऽल्पस्तदंगके । समुत्पन्नस्तृणौघाद्यैः संवृतः सर्वतो बभौ ॥१९॥ तथापि नाममंत्रं स नामाऽजापीच्च भावतः । नाममंत्रप्रभावेण सांकुरा यष्टिराबभौ ॥२०॥ पापं सर्वं लयं प्राप्तं तस्य मंत्रप्रभावतः । पुण्यराशिः समुत्पन्नोऽपाररूपो महासुर ॥२१॥ अतिपुण्येन भक्त्या च शुंडा तस्य विनिःसृता । भ्रूमध्यात्तेन संजातो गजानन इवाऽपरः ॥२२॥ ततस्तत्र समायातो मुद्गलश्च महायशाः । शिष्यं कैवर्तकं दैवात् सोऽस्मरत् साधुसत्तमः ॥२३॥ ततो यष्टिं ददर्शाऽसौ सांकुरा विस्मितोऽभवत् । अहो दुष्टमतिर्नामा तपसे संस्थितो- ऽभवत् ॥२४॥ चंचलं भावमुत्सृज्य देहशोषणतत्परः । कुत्राऽस्ति स मया शिष्यो दृश्यते न महातपाः ॥२५॥ ततो वल्मीकरूपं स चाऽपश्यत्तत्र मुद्गलः । कैवर्तकस्य तस्यैव नेत्रे दृष्टे ततः किल ॥२६॥ ततो यष्ट्या स वल्मीकमुत्खाय च जलेन तम् । सिषेच तेन नामाऽपि सावधानो बभूव ह ॥२७॥ गुरुं दृष्ट्वा समुत्तस्थौ तं प्रणम्य पुरःस्थितः । ततः संमान्य योगीशो धृत्वाऽऽलिंग्य जगाद तम् ॥२८॥ वल्मीकात्त्वं समुत्पन्नः पुत्रो मे नात्र संशयः । भव ब्राह्मणमुख्यश्च भृशुंडी संज्ञयाऽधुना ॥२९॥ सिद्धोऽसि नाममंत्रेण सर्ववंद्यो भविष्यसि । तव दर्शनमात्रेण नरा मुक्तिमवाप्नुयुः ॥३०॥ लक्ष- कल्पमयं कालं जीवं स्थास्यसि भो मुने । कल्पे कल्पे च शिष्यास्ते भविष्यंति शिवादयः ॥३१॥ एवमुक्त्वा गणेशस्य ददौ तस्मै महामनुम् । एकाक्षरं विधानेन ततोऽंतर्धानमाययौ ॥३२॥ सोऽपि तत्र पुनस्तेन तताप तप उत्तमम् । वर्षमात्रेण तस्याऽग्रे प्रत्यक्षोऽभूद्गजाननः ॥३३॥ उवाच तं महाभक्तं किं वाञ्छसि वदस्व मे । ततस्तं स्तोतुमारेभे स्तोत्रैः स्वानु- भवात्मकैः ॥३४॥ भृशुंड्युवाच । नमो नमस्ते गणनांथ ढुंढे सदा सुशांतिप्रद शांतिमूर्ते । अपारयोगेन च योगिनस्त्वां भजंति भावेन नमो नमस्ते ॥३५॥ प्रजापतीनां त्वमथो विधाता सुपालकानां गणनांथ विष्णुः । हरोऽसि संहारकरेषु देव कलांश- मात्रेण नमो नमस्ते ॥३६॥ क्रियात्मकानां जगदंबिका त्वं प्रकाशकानां रविरेव ढुंढे । यत्नप्रदानां च गुणेश नामा कलांश-

पान १२८ मात्रेण नमो नमस्ते ॥३७॥ शरीरभाजां त्वमथासि बिंदुः शरीरिणां सोऽहमथो विभासि । सुबोधरूपः स्वत उत्थकानां कलांशमात्रेण नमो नमस्ते ॥३८॥ विदेहकानामसि सांख्यरूपः समाधिदानां च निजात्मकस्त्वम् । निवृत्तियोगे त्वमयोगधारी कलांशमात्रेण नमो नमस्ते ॥३९॥ गणास्त एते गणनाथ नाम्ना त्वमेव वेदादिषु योगकीर्ते । सदा सुशांतिप्रद संस्थितोऽसि भक्तेश भक्तिप्रिय ते नमो वै ॥४०॥ गकारसिद्धिस्त्वपि मोहदात्री णकारबुद्धिस्त्वथ मोहधात्री । तयोर्विलासी पतिरेव नाम्ना गणेश्वरस्त्वं च नमो नमस्ते ॥४१॥ गकाररूपेण भवान् स गौणो णकाररूपेण च निर्गुणोऽसि । तयोर्भेदे गणनाथ- नामा योगेश भक्तेश नमो नमस्ते ॥४२॥ किं वदामि गणाधीश महिमानं महाद्भुतम् । यत्र वेदादयो भ्रांता इव जाताः प्रवर् Rene ॥४३॥ पतितानामहं श्रेष्ठः पतितोत्तम एव च । तव नामप्रभावेण जातोऽहं ब्राह्मणोत्तमः ॥४४॥ किंचित् संस्कार- योगेन विश्वामित्रादयः प्रभो । जाता वै ब्राह्मणत्वस्य ब्राह्मणा निर्मलाः पुरा ॥४५॥ अहं संस्कारहीनश्च जात्या कैवर्तकोद्भवः । तत्राऽपि पापसक्तात्मा त्वया च ब्राह्मणः कृतः ॥४६॥ एवमुक्त्वा नतं विप्रं प्रांजलिं पुरतः स्थितम् । भक्तिभावेन संतुष्टस्तमुवाच गजाननः ॥४७॥ गणेश उवाच । वरान् वरय दास्यामि यांस्त्वं विप्र प्रवाञ्छसि । त्वत्समो नैव तेजस्वी भक्तो मे प्रभविष्यति ॥४८॥ तस्य तद्वचनं श्रुत्वा साश्रुनेत्रो महामुनिः । भ्रशुंडी गद्गदोक्त्या च तं जगाद गजाननम् ॥४९॥ यदि प्रसन्नभावेन वरदोऽसि गजानन । त्वदीयां भक्तिमुग्रां मे देहि संपूर्णभावतः ॥५०॥ तथेति तमुवाचाऽथ गणेशो भक्तवत्सलः । क्षेत्रं त्वदीयमत्रैव भविष्यति मदाज्ञया ॥५१॥ अमलाश्रमकं नाम्ना जनानां सेविनां सदा । अज्ञानजं मलं हत्वा ज्ञानं दास्यति निर्मलम् ॥५२॥ एवमुक्त्वाऽंतर्दधे च गणेशो देवनायकः । भ्रशुंडी भक्तिभावेन भेजे वै तं निरंतरम् ॥५३॥ नान्यत् स मनसा क्वापि क्षेत्रं देवादिकं मुनिः । तीर्थं जज्ञौ स योगींद्रो गणेशानान्न संशयः ॥५४॥ ततस्तत्र महाक्षेत्रे ब्राह्मणाद्या ययुर्मुदा । तत्रैव गणनाथं ते भेजिरे भक्तिभावतः ॥५५॥ शिष्यास्तस्य महाभागा जाता ब्रह्मर्षयोऽमलाः । क्षेत्रसंन्यासभावेन तेऽसेवंत महामुनिम् ॥५६॥ भ्रशुंडिनस्तत्र तीर्थं गणेशस्य च सुंदरम् । भुक्तिमुक्तिप्रदं प्रोक्तं स्नानमात्रेण जंतवे ॥५७॥ तस्यैवं दर्शनार्थं च मुनयः कश्यपादयः । शुकादियोगिनः सर्वे गत्वा तेऽपूजयन् मुदा ॥५८॥ कृतार्थं मन्यमानाश्च स्वस्थलं ते ययुः पुनः । प्रशंसंतो मुनिं सर्वे साक्षाच्छुंडाधरं प्रभुम् ॥५९॥ इंद्रादयस्तमेवं च दर्शनार्थं समागताः । कृतकृत्याः स्वभावेन स्वालयं ते ययुः पुनः ॥६०॥ ब्रह्मविष्णुमहेशाद्या

खं. २ अ. ६१ पान १२९ ईश्वरास्ते महामुने । नित्यदर्शनसंसक्ता बभूवुर्हृष्टमानसाः ॥६१॥ एवं प्रभावयुक्तः स भ्रूशुंडी कथितो मया । चांडालो ब्राह्मणो जातो गणेशस्मरणेन वै ॥६२॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदंतचरिते भ्रूशुंडिबाह्मणत्ववर्णनं नाम षष्टितमोऽध्यायः ॥

॥ श्रीगणेशाय नमः ॥ गृत्समद उवाच । नित्यं स मानसीं पूजामकरोत् ब्राह्मणोत्तमः । बाह्यां चैव महाभागो गणेशस्य यथाविधि ॥१॥ मानसी या त्वया पृष्टा तां शृणुष्व महामते । यथा स्वल्पेन कालेन गाणपत्यो नरो भवेत् ॥२॥ चतुर्धा मानसी पूजा ज्ञातव्या चासुरोत्तम । साधारा द्विविधा प्रोक्ता निराधारा तथा द्विधा ॥३॥ हृदि मूर्तिं गणेष्य ध्यात्वा तत्रोपचारकैः । मानसिः पूजयेद्देवं साधारा सा मता बुधैः ॥४॥ अन्या ह्येकाग्रचित्तेन सर्वत्रैकात्मभावना । तया यत्तस्य भोगादि कृतं तत् पूजनं भवेत् ॥५॥ तत्रैकात्मस्वरूपश्चाधारः प्राप्तो जनेन वै । तेन साधाररूपा सा प्रोक्ता पूजा मनीषिभिः ॥६॥ निरोधचित्तवृत्त्या यज्जनैः सर्वात्मवर्जितम् । मनोवाणीमयं सर्वमुपचारेण चार्पितम् ॥७॥ तदेव पूजनं तेन कृतं प्रह्लाद निश्चितम् । निराधारा मता पूजा गणेशस्य महात्मनः ॥८॥ चित्तस्य पंच भूमीनां लयं कृत्वा समा स्थितिः । तत्र शांतिस्वरूपं यद्योगकारेण दृश्यते ॥९॥ योगे विधिनिषेधादि सर्वं तेनोपचारकैः । समर्पितं गणेशाय तदेवं पूजनं भवेत् ॥१०॥ शांतियोगे निराधारा पूजा प्रोक्ता च योगिभिः । एवं मानसजं दैत्य चतुर्धा पूजनं भवेत् ॥११॥ एवं भ्रूशुंडिना तेन कृता पूजा विशेषतः । भक्तिभावेन काश्यां सा प्राप्ताऽभूद्रुणपाय च ॥१२॥ इदं भ्रूशुंडिनश्चित्रं चरित्रं च नरोत्तमः । यः शृणोति श्रावयति स वै स्वानंदगो भवेत् ॥१३॥ यं यमिच्छति तं तं वै लभते नाऽत्र संशयः । महापुण्यतमं श्रेष्ठं कथितं ते कथानकम् ॥१४॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदंतचरिते भ्रूशुंडिचरितं नामैकषष्टितमोऽध्यायः ॥

Here is the complete Devanagari transcription of the page, line by line:

पान १३० ॥ श्रीगणेशाय नम ॥ गृत्समद उवाच । ततो विनायकस्तत्र काश्यां बालगणैः सह । चिक्रीड प्राकृतो भूत्वा भक्तानंद- विवर्धनः ॥१॥ ततो गणकरूपेण दैत्यो हेमासुरो ययौ । तं मायया गणेशानो मारयामास दैत्यप ॥२॥ ततः कृपाणुरस्तत्र कंदरेण सहागतः । परस्परविभेदेन तौ हतौ गणपेन च ॥३॥ ततोंऽभोसुरनामा यः प्रतापी च तथाऽन्धकः । तुंगासुरस्त्रयः प्राप्ता ब्रह्मलब्धवराः खलाः ॥४॥ खगरूपगणेशेन हता मुक्तिं प्रलेभिरे । विनायकस्य हस्तस्य स्पर्शनादिप्रभावतः ॥५॥ तेषां माता समायाता भ्रमरी नाम राक्षसी । रूपं कृत्वा ह्यदित्याश्च सा हता तेन दैत्यप ॥६॥ परीक्ष्य विस्मितास्तत्र मानवा भोजनार्थिनः । निमंत्र्य तं ययुः सर्वे काशिराजसमन्विताः ॥७॥ एकस्मिन् दिवसे तत्र गेहे गेहे महोत्सवः । भोजनार्थं काश्यपस्य सामग्रीं चक्रिरे जनाः ॥८॥ तत्र शुक्लो महाभक्तः काशीप्रांतनिवासकः । शुक्लवृत्त्याऽचरद्भिक्षां प्रभोः शुश्राव चेष्टितम् ॥९॥ शुक्लो दारिद्र्यसंयुक्तः संतोषी भजने रतः । विद्रुमा तस्य पत्नी सा पतिभक्तियुताऽभवत् ॥१०॥ सर्वस्वदानभावेन चक्रतुस्तौ महोत्सवम् । भोजनार्थं काश्यपस्य मार्जितं स्वांगणं तया ॥११॥ दर्भान् बद्ध्वा महायष्ठ्यां ध्वजं चक्रे महामुनिः । सर्वधान्यस्य पिष्टेन चक्रे वै भास्करीं सती ॥१२॥ तंदुलान्नं जलैर्युक्तं चक्रे परमहर्षिता । प्रयत्न- नाल्पतैलं च शुक्ल आनयदादरात् ॥१३॥ गृहे पलानि शुक्लस्य त्रीणि संचयमानतः । तंदुलानां हि पिष्टस्याऽभवन् पंच पलानि च ॥१४॥ काश्यपस्य च भक्ष्यार्थं पाकं चक्रे च भावतः । शुष्कामलकखंडं सोऽस्थापयन् मुखशुद्धये ॥१५॥ नैवेद्यं वैश्वदेवं च कृत्वा ध्यानपरोऽभवत् । विनायकस्य शुक्लोऽपि महाभक्तिपरायणः ॥१६॥ एतस्मिन्नंतरे तत्र सनकश्च सनंदनः । दर्शनार्थं समायातौ काश्यपस्य महात्मनः ॥१७॥ राज्ञा संमानितौ विप्रौ दृष्ट्वा बालसमन्वितम् । विनायकं तथा तौ निर्भर्त्स्य गंगां प्रजग्मतुः ॥१८॥ विनायको ययौ बालैः शुक्लस्याऽऽदौ गृहं प्रति । कुत्सितान्नं बभक्षैव ददौ संपत्तिमुत्तमाम् ॥१९॥ ततो विनायको देवोऽनंतरूपधरः स्वयम् । स काशिराजतां प्राप्य गेहे गेहे बभक्ष सः ॥२०॥ एतस्मिन् समये तौ तं सनकश्च सनंदनः । भिक्षार्थं वै ददृशतुः पर्यटंतौ च काश्यपम् ॥२१॥ गृहे गृहे च दृष्ट्वा तं भ्रष्टाचारयुतं मुनी । त्यक्त्वा काशीं क्षुधायुक्तौ जग्मतुर्बाहिरेव तौ ॥२२॥ ततो विनायकेनेव सर्वं रूपं प्रदर्शितम् । पुनस्तौ शरणं भ्रांत्यावेव तं जग्मतुर्मुदा ॥२३॥ ततो गाणेशकं ज्ञानं दत्तं तेन महात्मना । गाणपत्यस्वभावेन चेरतुस्तौ गतौ ततः ॥२४॥ काशिराजेन तत्सर्वं न ज्ञातं चेष्टितं महत् । भ्रांतो राजा स तं नेतुं ययौ शुक्लगृहं मुदा ॥२५॥ शिबिकायां गणेशं संस्थापयित्वा ययौ नृपः । स्वगृहं

खं. २ अ. ६२ पान १३१ तत्र दैत्यौ द्वौ विद्युद्रूपौ प्रपेततुः ॥२६॥ विनायकेन तौ त्यक्तौ शिखां संधृत्य दैत्यपौ । प्रजग्मतुः स्ववृत्तांतं कथयित्वा नरांतकम् ॥२७॥ राजाऽपि स्वगृहं प्राप ततो दैत्यः समाययौ । श्रुत्वा वृत्तांतमत्यर्थं ताभ्यां सर्वं नरांतकः ॥२८॥ गुल्मस्था नगरद्वारि काशिराजं ययुर्जनाः । अवदन् दैत्यवृत्तांतं नरांतक उपागतः ॥२९॥ सन्नद्धः सर्वसैन्येन काशिराजः स तं ययौ । युयुधे तेन दैत्येन धृतो राजा क्षणेन वै ॥३०॥ ततो विनायकः क्रुद्धः सिद्धिमाज्ञापयत् प्रभुः । तया सृष्टं महासैन्यं कालरूपं च तद्बभौ ॥३१॥ तत्रैको नायकः क्रूरः प्रणम्य गणनायकम् । ययौ तस्य महासेनां भक्षयन् पश्यतः क्षणात् ॥३२॥ धृत्वा नरांतकं सोऽपि जगाम च विनायकम् । विनायकेन सैन्येशो मुखे लीनः कृतः स्वके ॥३३॥ तस्योदरे गणेशेन रक्षितः काशिपालकः । तेन सार्धं गणेशस्य देहे लीनोऽभवन्नृपः ॥३४॥ तं नृपं जठरे देवो दर्शयित्वा जगत् पुनः । रोममार्गेण पुत्राभ्यां बहिश्चक्रे स विघ्नपः ॥३५॥ प्रधानाभ्यां च पुत्राभ्यां निःसृतं नृपसत्तमम् । विस्मितं मायया तं स मोहितं प्रचकार ह ॥३६॥ तत् दृष्ट्वा दैत्यराजः स विस्मितो तर्कयत् स्वयम् । अयं ब्रह्ममयो देवः कश्यपात्मज एव च ॥३७॥ अस्य हस्तेन मे मृत्युर्भविता चेत् सुमंगलम् । ब्रह्मभूयकरं तस्माद्युद्धेयं हर्षसंयुतः ॥३८॥ नरांतकेन कृत्वा च युद्धं तेन महत्ततः । मोहयित्वा तं जघान विराड्रूपेण विघ्नपः ॥३९॥ ममार दैत्यराजस्तु मस्तकस्तस्य वै गृहे । पतितस्तं विलोक्यैव शुशोच जननी पिता ॥४०॥ शिरो धृत्वा गतौ स्वर्गे दृष्ट्वा देवांतको हि तत् । सोऽपि क्रोधसमायुक्तो ययौ काश्यां स दैत्यपः ॥४१॥ कृत्वा युद्धं महाघोरं तेन सार्धं विनायकः । गजाननस्वरूपं च दर्शयामास शत्रवे ॥४२॥ दृष्ट्वा दैत्येन दंतस्तु भग्नॊ वामोऽस्य तत्क्षणात् । दैत्येंद्रं तेन दंतेन मारयामास विघ्नपः ॥४३॥ ततो हर्षयुतैर्देवैः स्तुतो देवर्षिभिः प्रभुः । प्रविवेश नृपेणाऽसौ काशीं भक्तपरायणः ॥४४॥ राजपुत्रस्य देवेशो विवाहं च चकार ह । राज्ञा संपूजितो ढुंढिः स्वाश्रमं गंतुमुत्सकः ॥४५॥ ततो लोका महा भक्तास्त्यक्त्वा गेहादिकं ययुः । तेभ्यो ज्ञानं ददौ देवः शांतिं प्राप्ता गृहान् ययुः ॥४६॥ राज्ञा रथेन शीघ्रं वै स्वाश्रमं स जगाम ह । काशिराजं च काश्यामप्रेषयद्गणनायकः ॥४७॥ लोकैर्नृपो ढुंढिराजं स्थापयामास वै पुरे । नित्यं तं पूजयामास सर्वैर्भक्तिसमन्वितः ॥४८॥ अदितिं कश्यपं देवस्तौ प्रोवाच विनायकः । भूभारहरणार्थं च जातोऽहं युवयोः सुतः ॥४९॥ तच्च सर्वं कृतं कर्माधुना यामि निजं पुरम् । एवमुक्त्वा ददौ ताभ्यां ज्ञानं सोऽन्तर्हितो- ऽभवत् ॥५०॥ ततस्ताभ्यां गणेशस्य मूर्तिः संस्थापिता प्रभोः । विनायकेति नाम्ना सा विख्याता प्रबभूव ह ॥५१॥

प्रह्लाद काशिराजोऽपि मुद्गलस्योपदेशतः । सदेहः स ययौ राजा स्वानंदे गणनायकम् ॥५२॥ एतत्ते कथितं सर्वं विनायक- चरित्रकम् । संक्षेपेण महाभाग एकदंतावतारजम् ॥५३॥ शृणुयाद्यः पठेद्वाऽपि स लभेदीप्सितं फलम् । अंते स्वानंदवासेने ब्रह्मभूतो भविष्यति ॥५४॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदंतचरिते विनायकचरितं नाम द्विषष्टितमोऽध्यायः ॥

॥ श्रीगणेशाय नमः ॥ गृत्समद उवाच । शृणु पुष्टिपतेः ख्यातं सर्वपापहरं परम् । भुक्तिमुक्तिप्रदं चैव गणेशस्य महात्मनः ॥१॥ शकुनेश्च महामानी पुत्रोऽभूद् दुर्मतिः पुरा । दैत्यराजस्य तेजस्वी महापर्वतसन्निभः ॥२॥ तताप तप उग्रं स शक्तिं ध्यात्वा महासुरः । नवार्णेन सुमंत्रेण शुक्रशिष्यः प्रतापवान् ॥३॥ सहस्त्रवर्षे प्रगते शक्तिः सा वरदाऽभवत् । आययौ भक्तमुख्यं साऽबोधयत्तं वरं वृणु ॥४॥ तेनाऽपि पूजिता देवी माहात्म्येन च संयुता । शक्तेस्तेन प्रसन्ना सा तस्मै सर्वाऽभयं ददौ ॥५॥ त्रैलोक्यराजमुग्रं च संग्रामे जयमादरात् । आरोग्यं च स्वलोके सा प्रययौ सिंहवाहिनी ॥६॥ तत्र तेन क्रमेणैव जितं सर्वं चराचरम् । विष्णुमुख्याः सुराः सर्वे वने वासं प्रचक्रिरे ॥७॥ शक्तिं शिवेन संयुक्तां पीडयित्वा महाखलः । पत्नीं कर्तुं समुद्युक्तो देवीं दैत्याधिपोऽभवत् ॥८॥ शक्तिर्लोकं परित्यज्य शिवेन सहिता ययौ । अंतर्धाय स्वमात्मानं वने वासं चकार ह ॥९॥ गते कियति काले तौ नारदस्तत्र चागतः । जगाद विघ्नराजस्य ताभ्यां चोपासनां शुभाम् ॥१०॥ पुत्रभावेन देवेशो भविष्यति गणेश्वरः । आराधितो न संदेहो दुर्मतिं स हनिष्यति ॥११॥ एवमुक्त्वा गते चैव नारदे शक्तिशंकरौ । तेपाते तप उग्रं तौ षोडशाक्षरमानतः ॥१२॥ मंत्रं षोडशवर्णाख्यं जपतुर्गणपस्य च । एवं वर्षशते पूर्णे गणेशो वरदोऽभवत् ॥१३॥ आगतं गणपं दृष्ट्वा नेमतुश्चरणांबुजे । गणाधीशं तुष्टुवतुः शिवशक्ती कृतांजली ॥१४॥ शक्तिशिवावूचतुः । नमस्ते गणनाधाय गणानां पतये नमः । भक्तिप्रियाय देवेश भक्तेभ्यः सुखदायक ॥१५॥ स्वानंदवासिने तुभ्यं सिद्धिबुद्धिवराय च । नाभिशेषाय देवाय ढुंढिराजाय ते नमः ॥१६॥ वरदाभयहस्ताय नमः परशुधारिणे । अनामयाय सर्वाय सर्वपूज्याय ते नमः ॥१७॥ सगुणाय नमस्तुभ्यं ब्रह्मणे निर्गुणाय च । ब्रह्मभ्यो

खं. २ अ. ६३ पान १३३ ब्रह्मदात्रे च गजानन नमोऽस्तु ते ॥१८॥ ज्येष्ठाय चादिपूज्याय ज्येष्ठराजाय ते नमः । मात्रे पित्रे च सर्वेषां हेरंबाय नमो नमः ॥१९॥ अनादये च विघ्नेश विघ्नकर्त्रे नमो नमः । विघ्नहर्त्रे स्वभक्तानां लंबोदर नमोऽस्तु ते ॥२०॥ त्वदीय- भक्तियोगेन योगीशाः शांतिमागताः । किं स्तुवो योगरूपं त्वां प्रणमावश्च विघ्नप ॥२१॥ तेन तुष्टो भव स्वामिन्नित्युक्त्वा तं प्रणेमतुः । तावुत्थाप्य गणाधीश उवाचाऽसौ महेश्वरौ ॥२२॥ गणेश उवाच । भवत्कृतमिदं स्तोत्रं मम भक्तिविवर्धनम् । पठते शृण्वते चैव भविष्यति सुखप्रदम् ॥२३॥ भुक्तिमुक्तिप्रदं चैव पुत्रपौत्रादिकं तथा । धनधान्यादिकं सर्वं लभते तेन निश्चितम् ॥२४॥ वरं च वदतं देवौ प्रसन्नोऽहं ददामि तम् । भवतोर्भक्तिभावेन विभुः स्तोत्रेण तोषितः ॥२५॥ शक्तिशिवावूचतुः । यदि प्रसन्नभावेन वरदोऽसि गजानन । तदा नौ पुत्रतां याहि कृतकृत्यौ तया विभो ॥२६॥ भक्तिं देहि दृढां देव त्वदीये पादपंकजे । दुर्मतिं जहि विघ्नेश त्रैलोक्यं च सुखीकुरु ॥२७॥ गृत्समद उवाच । तयोर्वचनमाकर्ण्यामि- त्युक्त्वाऽन्तर्दधे विभुः । शिवौ संतोषयुक्तौ च तत्र संचेतुरभयात् ॥२८॥ एकदा पार्वती शंभुर्वैशाखस्नानमादरात् । चक्रतुर्गणनाथस्य प्रीतये हिमपर्वते ॥२९॥ भागीरथीजले नित्यं स्नात्वाऽपूजयतां च वै । दूर्वादिभिर्मृन्मयं तौ गणनाथं सुभक्तितः ॥३०॥ वैशाखपूर्णिमायां तावुषःकाले तु भक्तितः । स्नात्वा मूर्तिं शिवौ कृत्वा ध्यानं चक्रतुरादरात् ॥३१॥ ध्यात्वा हृद्यावाहयतां गणाधीशं तमंजसा । मूर्तौ सा ह्यचला मूर्तिः सचैतन्या बभूव ह ॥३२॥ चतुर्भुजधरस्तत्र गणराजो बभौ स्वयम् । उवाच पितरौ देवः पुत्रोऽहं वां न संशयः ॥३३॥ वरदानप्रभावेण वैशाखस्नानजेन च । तपसा पुत्ररूपं मां रक्षतं पितरौ सदा ॥३४॥ ततः प्रणम्य तं देवः शंकरः शक्तिसंयुक्तः । तुष्टावाथर्ववेदोक्तोपनिषद्भिर्महायशाः ॥३५॥ ततो गणपतिः प्रीत्या मोहयामास मायया । शिवं सशक्तिकं तत्र पुत्रभावप्रकाशनात् ॥३६॥ ततस्तस्य स संस्कारान् कारयामास वै द्विजैः । शिवश्च जातकर्मादीन् हर्षयुक्तेन चेतसा ॥३७॥ ततो लक्ष्मीसुता पुष्टिस्तपसा च बभूव ह । तां ददौ स गणेशाय विष्णुः परमहर्षितः ॥३८॥ एकदा तत्र संयातो ग्रहोत्तमशनैश्चरः । दर्शनार्थं गणेशस्य सस्त्रीकस्य महामतिः ॥३९॥ प्रणनाम स सस्त्रीकं गणेशं दैत्यनायक। जगाद भक्तिसंयुक्तो वचनं सर्वसन्निधौ ॥४०॥ धन्यं मे जन्म विद्या च तपो विद्यादिकं महत् । येन ते दर्शनं प्राप्तं सस्त्रीकस्य गजानन ॥४१॥ त्वं साक्षायोगरूपश्च पुष्टिः पोषणकारिणी । विश्वंभरा

महाशक्तिस्तस्माद्वां वै नमो नमः ॥४२॥ एतस्मिन्नंतरे तत्र शक्तिः स्वयमुपागता । प्रणतं रविपुत्रं तमुवाच प्रेमनिर्भरा ॥४३॥ पश्य पश्य ग्रहश्रेष्ठ सम्यक् सर्वत्र भावतः । ततस्तां स शनिर्देवीमवोचद् दुःखितो भृशम् ॥४४॥ ॥ ओमिति श्रीमदांद्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खंडे एकदंतचरिते शनिसमागमो नाम त्रिषष्टितमोऽध्यायः ॥ ॥ श्रीगणेशाय नमः ॥ प्रह्लाद उवाच । किमर्थं दुःखितो देवः शनिस्तत्र बभूव ह । तन्मे त्वं सकलं ब्रूहि रविपुत्रस्य चेष्टितम् ॥१॥ गृत्समद उवाच । शृणु तत्रैव संजातं वृत्तांतं साधुसत्तम । तेन ते सर्वसंदेहो नाशं यास्यति निश्चितम् ॥२॥ शनिरुवाच । शृणु शक्ते महामाये एकदाऽहं गृहे स्थितः । सूर्यपूजनसंशीलो ध्याननिष्ठोऽभवं पुरा ॥३॥ निशि तत्र समायाता पत्नी मे वेषधारिणी । भूषणैर्भूषिता सर्वैर्मां जगाद सुविह्वला ॥४॥ ऋतुदानमिदानीं त्वं मह्यं देह्येव भानुज । पश्य मां सर्व- शृंगारयुक्तां भर्तर्नमोऽस्तु ते ॥५॥ अहं ध्यानसमायुक्तो नाऽपश्यं च हि तां प्रियाम् । द्विमुहूर्ते गते सा मां शशाप क्रोधसंयुता ॥६॥ यदि मां पश्यसि न च भर्तस्त्वं विफलं ऋतुम् । करोषि तेन दृष्टं यत्त्वया नष्टं भविष्यति ॥७॥ एवमुक्त्वा गता सा वै तदहादहमंजसा । न पश्यामि कदा कुत्र जगदंब यथायथम् ॥८॥ तस्य तद्वचनं श्रुत्वा जगदंबा तमब्रवीत् । पश्य त्वं ग्रह वै ढुंढिं तेन सर्वं शुभं भवेत् ॥९॥ एवमुक्तः शनिस्तत्र गणेशानमलोकयत् । सर्वांगैः शोभमानं वै सस्त्रीकं साधुसत्तम ॥१०॥ ततस्तस्य गणेशस्य मस्तकं सहसा गतम् । अंतर्धानं च तद् दृष्ट्वा हाहाकारो बभूव ह ॥११॥ मुहूर्ते प्रगते तत्र पुनस्तं देवविप्रपाः । अपश्यन् शिरसा युक्तं सर्वावयवसुंदरम् ॥१२॥ ततो हर्षयुताः सर्वे तुष्टुवुस्तं गजाननम् । शनिः प्रणतभावेन तुष्टाव गणनायकम् ॥१३॥ शनिरुवाच । नमस्ते गणनाधाय पुष्टिकांताय ते नमः । विश्वंभराय सर्वादिपूज्याय तु नमो नमः ॥१४॥ सर्वेषां मातृरूपेण स्थितेयं पुष्टिकारिका । पिता त्वं पुष्टिदाता च सत्तारूपेण संस्थितः ॥१५॥ क्षमस्वैतं चापराधं मदीयं गणनायक । पुत्रोऽहं ते महाभाग प्रार्थये द्विरदानन ॥१६॥ किं स्तौमि त्वां च हेरंब योगरूपं सनातनम् । वेदाद्यैर्यौगिभिः स्तोतुं शक्यते न नमाम्यहम् ॥१७॥ तथापि बुद्धिप्रामाण्यात् स्तुवंति त्वां महेश्वराः । अतोऽहं त्वां महाराज स्तौमि भक्तिसमन्वितः ॥१८॥ नमस्ते बुद्धिकांताय सिद्धिनाथ नमोऽस्तु ते । ब्रह्मणं पतये तुभ्यं हेरंबाय नमो नमः ॥१९॥

सगुणत्वे सरूपाय नैर्गुण्ये गजरूपिणे । तयोर्योगे च योगाय शांतिरूपाय ते नमः ॥२०॥ पुन्नामनरकान्त्राता पुत्रस्तेन प्रकीर्तितः । शिवपुत्राय वै तुभ्यं गणेशाय नमो नमः ॥२१॥ सिद्धिर्माया च वामांगे मायिके दक्षिणे च धीः । तयोर्भेद- योगे त्वमेकदंताय ते नमः ॥२२॥ एवमुक्त्वा प्रहर्षेण सरोमांचो बभूव ह । प्रणनाम स साष्टांगं भक्तिभावेन संप्लुतः ॥२३॥ तमुत्थाप्य गणाधीशो जगाद स शनैश्चरम् । वरं वरय दास्यामि यस्ते चित्ते प्रवर्तते ॥२४॥ त्वया कृतमिदं स्तोत्रं मम प्रीतिकरं भवेत् । यः पठिष्यति यो मर्त्यः शृणुयात् सर्वदं भवेत् ॥२५॥ ततस्तं गणनाथं स उवाच रविनंदनः । भक्तिं देहि त्वदीयां मे शापान् मोचय मां प्रभो ॥२६॥ ततस्तं गणराजश्च स जगादासुरेश्वर । भक्तिर्मदीया भविता दृढा सौरे न संशयः ॥२७॥ क्रूरदृष्ट्या च यं कंचित् पश्यसि त्वं शनैश्चर । स एव नाशमायातु निःशापो भव सर्वदा ॥२८॥ ततो विष्णुं जगामाऽसौ तं प्रणम्य च भानुजः । उवाच देहि मे नाथ गणेशोपासनां शुभाम् ॥२९॥ ततस्तेन समाख्यातं कवचादिक- मुत्तमम् । गीतासारं ददौ तस्मा एकाक्षरमनुं प्रभोः ॥३०॥ ततस्तं प्रययौ गेहे प्रणम्य स शनैश्चरः । योगं च साधयामास गाणपत्यो बभूव ह ॥३१॥ ततः कियति काले च गते शंकरमब्रवीत् । गणेशो भावयुक्तं यद्वचनं भक्तवत्सलः ॥३२॥ किं तात देवदेवेशैर्मुनिभिश्च सदाशिव । वनवासं करोषि त्वं वद कारणमत्र माम् ॥३३॥ जगाद शंकरो हृष्टस्ततस्तं भक्ति- भावितः । जगत् सर्वं दुर्मतिनाऽसुरेशेन पराजितम् ॥३४॥ ब्रह्मांडाधिपतिः सोऽपि प्रजातो वरदानतः । अस्माकं सकलैश्वर्यं हृत्वा श्रेष्ठोऽभवत् स्वयम् ॥३५॥ गृत्समद उवाच । शिवस्य वचनं श्रुत्वा क्रोधयुक्तो बभूव ह । गजाननो जगादेदं वचनं हितकारकम् ॥३६॥ गणेश उवाच । मयि ते पुत्रतां याते दुर्लभं किं च ते भवेत् । हनिष्यामि महादैत्यं पश्य मे पौरुषं शिव ॥३७॥ एवमुक्त्वा महादेवं सन्नद्धः स गजाननः । मूषकारूढको भूत्वा त्वगमद्दैत्यनायकम् ॥३८॥ तमनु प्रययुर्देवा मुनयो भक्तितत्पराः । नगरप्रांतभागे च स गत्वा संस्थितोऽभवत् ॥३९॥ दूतं संप्रेषयामास विष्णुं देववरं ततः । स गत्वा दुर्मतिं दुष्टमबोधीद्युक्तिभिश्च तम् ॥४०॥ विष्णुरुवाच । स्वानंदवासकारी यो गणेशो ब्रह्मनायकः । शिवेन तपसा सोऽपि याचितः पुत्रकाम्यया ॥४१॥ स एव पुत्रतां प्राप्तः पुष्टीशो यः समागतः । त्वां बोधितुं च मां सोऽपि प्रेषयामास दुर्मते ॥४२॥ देवानां द्वेषमुत्सृज्य वस पातालमंडले । स्वस्वधर्मरता लोका भवंतु विगतज्वराः ॥४३॥ एवमुक्तो महादैत्यस्तमुवाच जनार्दनम् । दूत्येन त्वं समायातो नो चेद्धन्मि प्रभावतः ॥४४॥ कः स्वानंदपतिः सोऽपि देवपक्षधरो-

ऽभवत्। तं हनिष्यामि वेगेन द्रक्ष्यसि त्वं गजाननम् ॥४५॥ ततो विष्णुः समायातो गणेशं तस्य दुर्मतेः। वृत्तांतमवदत्तीव्रं श्रुत्वा चुक्रोध विघ्नपः ॥४६॥ बभूव मूषकारूढो तं हंतुं शस्त्रधारकः। देवाः सर्वे च सन्नद्धा बभूवुरसुरेश्वर ॥४७॥ ॥ ओमिति श्रीमदान्द्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खंडे एकदंतचरिते विष्णुदौत्यवर्णनं नाम चतुःषष्टितमोऽध्यायः ॥

॥ श्रीगणेशाय नमः ॥ गृत्समद उवाच । ततः स दैत्यराजोऽपि स्वसेनासंवृतो ययौ । रथारूढो महातेजाः शस्त्रास्त्रैः संयुतो बभौ ॥१॥ दुर्मतिर्गणपं दृष्ट्वा चुकोपाऽतितरां खलः । आज्ञापयत् स्वसेनां वै देवानां कदनाय च ॥२॥ ततो दैत्याश्च देवास्ते युयुधुश्चातिदारुणम् । असंबद्धं महाक्रोधा जग्मुः सप्त च वासराः ॥३॥ देवसेना ततो भग्ना पलायत दिशो दश । भयभीता ततः क्रोधाद्युयुधे शंकरो भृशम् ॥४॥ ततो दुर्मतिना तत्र कृतं युद्धं महाद्भुतम् । मूर्च्छिताः पतिताः केचिद्देवेशाः खंडिताः शरैः ॥५॥ शंभुं विष्णुं च देवेंद्रं सर्वानन्यान् सुमूर्च्छितान् । तान् दृष्ट्वा गणराजस्तु क्रोधयुक्तो बभूव ह ॥६॥ मूषकारूढ एवाऽसौ संग्रामाय समाययौ । तं दृष्ट्वा दुर्मतिः प्राह क्रोधारुणविलोचनः ॥७॥ दुर्मतिरुवाच । किमर्थं मूर्खभावेन युद्धाय समुपागतः । बाणेनैकेन हन्मि त्वां पश्य मे पौरुषं खल ॥८॥ ब्रह्मांडं निर्जितं येन तेन युद्धं करिष्यसि । अज्ञानेनावृतो नूनं गच्छ त्वां नैव हन्म्यहम् ॥९॥ एवं वदंतमुग्रं तं दैत्येशं दुर्मतिं प्रभुः । जगाद हास्यसंयुक्तः पतिः पुष्टेः प्रतापवान् ॥१०॥ पुष्टिपतिरुवाच । मा गर्वं कुरु दैत्येश दुर्मते शृणु मे वचः । त्वां हनिष्यामि नूनं च पश्य मे पौरुषं महत् ॥११॥ इत्युक्तवंत- मप्येनं दुर्मतिः सहसा ययौ । दंतं धृत्वा गणेशस्याकर्षयत् क्रोधसंयुतः ॥१२॥ महाबलेन दैत्येन वामदंतः प्रपातितः । भंक्त्वा स धरणी पृष्ठे तं दंतं गणपोऽग्रहीत् ॥१३॥ दंतेन शिरसि प्रोतो दुर्मतिः स ममार ह। ततः पुष्टिपतिर्देवान् सावधानांश्चकार ह ॥१४॥ ततो दैत्यगणाः सर्वे पलायंत दिशो दश । पातालं जग्मुरत्यंतं भयभीताः समंततः ॥१५॥ ततो देवेश्वरास्तत्र मुनयो हर्षसंयुताः । अपूजयंस्तथा पुष्टिपतिं ते तुष्टुवुः पुनः ॥१६॥ देवर्षय ऊचुः । जय देव गणाधीश जय विघ्नहराव्यय । जय पुष्टिपते ढुंढे जय सर्वेश सत्तम ॥१७॥ जयानंत गुणाधार जय सिद्धिप्रद प्रभो । जय योगेन योगात्मन् जय शांतिप्रदायक ॥१८॥ जय ब्रह्मेश सर्वज्ञ जय सर्वप्रियंकर । जय स्वानंदपस्थायिन् जय वेदविदांवर ॥१९॥

खं. २ अ. ६५ | पान १३७

जय वेदांतवादज्ञ जय वेदांतकारण । जय बुद्धीश्वर प्राज्ञ जय सर्वामरप्रिय ॥२०॥ जय मायामये खेलिन् जयाव्यक्त गजानन । जय लंबोदरः साक्षिन् जय दुर्मतिनाशन ॥२१॥ जयैकदंतहस्तस्त्वं जयैकरदधारक । जय योगिहृदिस्थ त्वं जय ब्राह्मणपूजित ॥२२॥ जय कर्म तपोरूप जय ज्ञानप्रदायक । जयामेय महाभाग जय पूर्णमनोरथ ॥२३॥ जयानंद गणेशान जय पाशांकुशप्रिय । जय परशुधर त्वं वै जय पावनकारक ॥२४॥ जय भक्ताभयाध्यक्ष जय भक्तमहाप्रिय । जय भक्तेश विघ्नेश जय नाथ महोदर ॥२५॥ नमो नमस्ते गणनायकाय नमो नमस्ते सकलात्मकाय । नमो नमस्ते भव- मोचनाय नमो नमस्तेऽतिसुखप्रदाय ॥२६॥ इति स्तुत्वा गणाधीशं प्रणेमुस्तं महामते । उत्थाय ननृतुः सर्वे हर्षयुक्ताः सुरर्षयः ॥२७॥ तेषां महोत्सवं दृष्ट्वा तान् जगाद महाप्रभुः । प्रसन्नात्मा पुष्टिपतिर्भक्तान् भक्तप्रियंकरः ॥२८॥ पुष्टिपतिरुवाच । भवत्कृतमिदं स्तोत्रं यः पठिष्यति नित्यशः । श्रोष्यते सकलं तस्य जयरूपं भविष्यति ॥२९॥ पठनाच्छ्रवणादस्य सर्वं जयति मानवः । अंते मदीयसायुज्यं प्राप्नोत्यत्र न संशयः ॥३०॥ एवमुक्तवांतर्दधेऽसौ पतिः पुष्टेर्गणेश्वरः । देवाश्च मुनयः सर्वे विस्मिता अभवंस्तदा ॥३१॥ स्वे स्वे पदे च ते जग्मुर्यथा सुखरताः पुरा । तथा पुनः स्वलोकस्था मोदंते स्म च तत्पराः ॥३२॥ स्वाचारं मुनयश्चकुर्वर्णाश्रमरता जनाः । बभूवुरभजंस्तं ते स्वधर्मेण गजाननम् ॥३३॥ शिवश्च शक्तिसंयुक्तस्तमेव हृदये स्थितम् । अभजत् भावयुक्तश्च गाणपत्यः प्रतापवान् ॥३४॥ मूर्ति चक्रुर्गणेशस्य स्थापयामासुरादरात् । वैशाखपूर्णिमायां चाभवत्तत्र महोत्सवः ॥३५॥ तत्र सिद्धिरनुप्राप्ता शिवेन ननु मानद । चक्रुः सिद्धाश्रमं नाम्ना क्षेत्रं देवर्षयः परम् ॥३६॥ तत्रैव सिद्धिमापन्ना देवा ब्रह्मर्षयः पुरा । सनकाद्या महात्मानो गाणेशास्तेऽभवंस्ततः ॥३७॥ अत्र ते वर्णयिष्येऽहमितिहासं पुरातनम् । अगस्त्यस्य च संवादयुक्तं च ब्रह्मणः पुरा ॥३८॥ एकदा वनगो भूत्वाऽगस्त्यस्तपसि संस्थितः । लोपामुद्रा च सेवायां रता पत्नी तथाऽभवत् ॥३९॥ राजपुत्री महाभागा पातिव्रत्यपरायणा । सुकुमाराऽभवत्तत्र कर्षिता सेवनोत्सुका ॥४०॥ घर्मेण सकलं व्याप्तं वपुस्तस्या रजोयुतम् । शिरो जटायुतं वीक्ष्य तुतोष मुनिसत्तमः ॥४१॥ तामुवाच वरं ब्रूहि दास्येऽहं भावयंत्रितः । सोवाच राजभोगेन युक्तं देहि मुने ऋतुम् ॥४२॥ ततः स राजभोगार्थं द्रव्येप्सुश्च समागतः । राजानं याचनार्थाय सार्वभौमं ययाच वै ॥४३॥ दिलीपस्तमुवाचाथ कियन्मानं धनं वद । दास्यामि भाव- संयुक्तस्तुभ्यं तत्तापसोत्तम ॥४४॥ राज्ञो वचनमाकर्ण्यावाच तं मुनिसत्तमः । व्ययादुवरितं यन् मे धनं देहि सुपुष्कलम् ॥४५॥

अ. ६६ | पान १३८ ततो दिलीपो राजा तं जगाद व्ययमानकम् । द्रव्यं मेऽस्ति महाभाग तस्मात् संख्यां वदस्व भो ॥४६॥ जगाद मुनिशार्दूलः ततस्तं विस्मयान्वितः । न ग्रहीष्यामि ते द्रव्यं दरिद्रस्य न संशयः ॥४७॥ मया द्रव्यं त्वदीयं वै गृहीतं चेन्नराधिप । तदा सर्वे जना राजन् भवंति च निपीडिताः ॥४८॥ अतस्त्वं राजभिर्युक्तश्चल शीघ्रं नराधिप । मया सार्धं महद् द्रव्यं यत्र वै संचितं भवेत् ॥४९॥ ततो राजा च वृत्तांतं कथयामास तं मुनिम् । वातापिर्दैत्यपोऽगस्त्यद्रव्ययुक्तो भवत्यपि ॥५०॥ देवैरवध्यतां प्राप्य हंति विप्रांश्च नित्यशः । पशुं कृत्वाऽनुजं दुष्ट इल्वलं श्राद्धकर्मणि ॥५१॥ देवानां निधनार्थाय कर्ममूल- निकृंतनः । अखिलं ब्राह्मणाधारं कर्म तेन हिनस्ति तत् ॥५२॥ इल्वलश्चाऽपि योगींद्र वरयुक्तप्रभावतः । गत्वोदरे कामरूपो वाताप्याहूत एव सः ॥५३॥ तदा तेषां नखेनैव स्फोटयित्वा महोदरम् । निर्गत्य पूर्वदेहसंयुक्तो भवतीत्यहो ॥५४॥ अतस्त्वं गच्छ योगींद्र तं हत्वा द्रव्यसंचयम् । गृहाणास्माभिरत्यंतं वातापिं भ्रातृसंयुक्तम् ॥५५॥ दिलीपस्य वचः श्रुत्वा हर्षयुक्तो महामुनिः । राजभिर्ब्राह्मणैर्युक्तस्तत्र गंतुं मनो दधे ॥५६॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदंतचरिते पुष्टिपत्युपाख्याने अगस्त्यस्य द्रव्यप्रयत्नो नाम पंचषष्टितमोऽध्यायः ॥

॥ श्रीगणेशाय नमः ॥ गृत्समद उवाच । अगस्त्यो राजभिर्युक्तो ब्राह्मणैश्च समन्वितः । वातापेः सुस्थलं रम्यं ययौ क्रोधसमन्वितः ॥१॥ तमागतं स विज्ञाय वातापिर्हर्षितो ययौ । प्रणम्य प्रत्युवाचेदं वचनं विनयान्वितः ॥२॥ वातापिरुवाच । स्वामिंस्ते स्वागतं मेऽद्य भाग्यं सुफलितं महत् । ब्राह्मणै राजभिः सार्धं प्रपश्यामीऽह तापसम् ॥३॥ श्राद्धं मे भगवन्नद्य पितुरत्र समागतम् । निमंत्रयाम्यहं सर्वैस्त्वां महाभाग वै सह ॥४॥ जगाद तं तथेत्येव दैत्यः संहर्षितो- ऽभवत् । इल्वलं पशुभावस्थं कृत्वा संछिद्य दैत्यपः ॥५॥ पपाच विधिवन्मांसं ब्राह्मणार्थं विधानवित् । ततोऽगस्त्यं समायातं भोजनार्थं सहानुगम् ॥६॥ विधिवत् पूजयित्वा तं स्थापयामास चासने । तेनांगुष्ठेन भूमिः सा पीडिता मुनिना कृतः ॥७॥ गर्तस्तत्र च सर्वान्नं पूरितं दैत्यदेहजम् । तज्ज्ञात्वा विस्मितो दैत्यो न किंचित्तमुवाच ह ॥८॥ अन्यान् सर्वान् सुभोज्येन भोजयामास चांधसा । अगस्त्यः सकलं भुक्त्वा चान्नमाल्वलजं महत् ॥९॥ मंत्रेण वैदिकेनाऽसौ

खं. २ अ. ६६ पान १३९ मंत्रयामास चोदरम् । तस्य मंत्रप्रभावेण दैत्यः संजीर्णतां गतः ॥१०॥ अपानवायुरत्युग्रो निःसृतो धूलिमुद्वहन् । तेन नादेन सर्वे ते विस्मिताः प्रबभूविरे ॥११॥ ततो मुनिः समुत्तस्थौ मुखप्रक्षालनाय च । क्षालयित्वा स हस्तादि संस्थितः स महाधने ॥१२॥ ततो वातापिना भ्रातैहीत्याहूतोऽभवत्तदा । उवाच मुनिशार्दूलस्ततस्तं दैत्यपुंगवम् ॥१३॥ स मृतो मे च मंत्रेण संजीर्णो जठरेऽधुना । अधुना त्वां हनिष्यामि दुष्ट ब्राह्मणहिंसकम् ॥१४॥ पलायत स तच्छ्रुत्वा वातापिर्भय- संकुलः । ततः सराजका विप्राः स्थापिता मुनिनाऽमुना ॥१५॥ तत्रैव स्वयमेनं तमगमत् दैत्यनायकम् । अगस्त्यः पृष्ठगं दृष्ट्वा समुद्रं शरणं ययौ ॥१६॥ वातापिस्तेन दैत्येंद्रः स्थापितः स्वजलेऽभवत् । ततस्तं जलधिं विप्र उवाच क्रोधसंयुतः ॥१७॥ देहि दैत्यं समुद्र त्वं नोचेच्छापं ददाम्यहम् । ततोऽगस्त्यं समुद्रश्च जगाद भयसंकुलः ॥१८॥ स्वभावो मे महाभाग अतो नाऽहं ददामि तम् । दैत्या देवभयाद्विप्र शरणं मामुपागताः ॥१९॥ अन्ये पर्वतभूपाश्च न दत्तास्ते मया मुने । अतस्त्वां प्रार्थयामीह कृपां कुरु दयानिधे ॥२०॥ त्यक्त्वा दैत्यं मुनिश्रेष्ठ गच्छ त्वं प्रणमाम्यहम् । क्षुभितोऽभूत्ततोऽगस्त्यो गर्विष्ठोऽयं महोदधिः ॥२१॥ मदमस्य हरिष्यामि तादृशं न ददर्श ह । ततो मुनिर्विधातारं शरणं वै जगाम ह ॥२२॥ प्रणम्य लोकनाथं तं पप्रच्छ च जगद्गुरुम् ॥२३॥ अगस्त्य उवाच । स्वामिन् समुद्रसंग्रस्तो वातापिर्द्विजहिंसकः । तदर्थं जलधिं नाथ शोषयामि मदान्वितम् ॥२४॥ तत्रोपायं वद ब्रह्मन् तं करिष्यामि यत्नतः । त्वं सर्वज्ञश्च सर्वेषां पितामह विशेषतः ॥२५॥ एवं तस्य वचः श्रुत्वा तं जगाद महामुनिम् । अगस्त्यं लोकनाथस्तु हर्षयुक्तेन चेतसा ॥२६॥ ब्रह्मोवाच । शृणु पुत्र महाभाग गर्विष्ठोऽयं महोदधिः । अधर्मचारिणो दैत्या रक्षितास्तेन निश्चितम् ॥२७॥ वातापिरधुनाऽरक्ष्यः सत्कृतस्तेन पुत्रक । अतस्तच्छोषणार्थाय गणपं शरणं व्रज ॥२८॥ तस्य तद्वचनं श्रुत्वा जगाद स पितामहम् । कथं त्यक्त्वा विधे देवान् गणेशानं प्रशंससि ॥२९॥ ततस्तं मुनिमुख्यं स ब्रह्मोवाच प्रजापतिः । शृणु पुत्र महाभाग कथां पापप्रणाशिनीम् ॥३०॥ विघ्नकर्ता च तद्धर्ता गणेशोऽयं न संशयः । तेन विघ्नेश्वरो नाम्ना वर्तते सर्वमंडले ॥३१॥ विघ्नाः सत्तात्मकाः प्रोक्तास्तेषां स्वामी गणेश्वरः । सर्वसत्ताधरः पूर्णस्तस्मात्तं कथयाम्यहम् ॥३२॥ अन्यच्च शृणु पुत्र त्वं विनायक इति श्रुतिः । नायकैः सेव्यते सर्वैः स्वस्वकार्यार्थमादरात् ॥३३॥ नायकैर्वर्जितः साक्षात्तेन स्वाधीनतां गतः । संसृष्टं सकलं विश्वं कलांशेन महामुने ॥३४॥ स्वस्वाधिकारसंयुक्ता कलांशजविभूतयः । समुद्रस्तासु तं पुत्र चालितुं

न क्षमा वयम् ॥३५॥ अत्र ते वर्णयिष्येऽहमितिहासं पुरातनम् । श्रवणात् संशयस्ते च नाशमेष्यति निश्चितम् ॥३६॥ गोलोके राधया युक्तः कृष्णो गोलोकवासिभिः । उवास तत्र देवेशः सर्ववंद्यः प्रतापवान् ॥३७॥ सर्वेषां मदहंता स जातः स्वस्यैव तेजसा । अस्माकं पालको भूत्वा विघ्नहीनः स्वभावतः ॥३८॥ तथा राधाऽपि देवीनां मदस्य हरणं बलात् । कृत्वा वंद्या स्वयं भूत्वोवास विघ्नविवर्जिता ॥३९॥ त्रिपुरादिभिरुग्रैश्च परस्परविरोधतः । विघ्नयुक्ताः शिवाद्यास्ते शरणं त्वगमन् परम् ॥४०॥ अन्याशरणकृष्णस्य हृदि गर्वः समागतः । सततं मदयुक्तः स बभूव परमाद्भुतः ॥४१॥ अहं ब्रह्मेति यत् प्रोक्तं तदेवाऽहं न संशयः । मदाधारमिदं सर्वं तस्मान्नान्योऽस्ति मत्परः ॥४२॥ मदनुग्रहमात्रेण देवाः शंभुपुरोगमाः । शक्ताः स्वव्यवहारेषु तस्मान्नान्योऽस्ति मत्परः ॥४३॥ एवं मनसि गर्वेण मदेन च समाकुलः । मदयुक्ता तथा राधा बभूव मुनिसत्तम ॥४४॥ ततो विघ्नकरो विघ्नं चकार परमाद्भुतम् । स्वभक्तिभावदानार्थं शांतियोगार्थ- मादरात् ॥४५॥ विररामैकदा युक्तो राधया वनमंडले । रतिक्रीडासमायुक्तो बभूवे कामसंयुतः ॥४६॥ तत्रैका नायिका तस्य प्रीतिदा विरजाऽभवत् । तया संस्मरणं सद्यः कृतं कृष्णस्य तत्क्षणे ॥४७॥ अधः स्थितां परित्यज्य राधां कृष्णो ययौ मुने । विरजां स तया सार्धं क्रीडासक्तो बभूव ह ॥४८॥ ततः संकुपिता राधा रतिभंगेन मानद । जगाद याः समीपस्था गोपिका वचनं तदा ॥४९॥ कुत्र दृष्टो महामानी कृष्णः स्त्रीलंपटाग्रणीः । तं मां वदत वै देव्यस्त्यजामि मनसा पतिम् ॥५०॥ ततस्तां गोपिका काचिदुवाच विनयान्विता । विरजाया मया राधे दृष्ट आश्रमसन्निधौ ॥५१॥ ततः सा क्रोधताम्राक्षी रथोपरि ययौ स्थिता । विरजाश्रमसांनिध्यं गोपीभिः संवृता मुने ॥५२॥ तामागतां समाज्ञाय कृष्णश्चांतर्दधे भयात् । विरजा जलरूपा सा जाता भयसमन्विता ॥५३॥ तया न दृष्टः सस्त्रीको देवेशस्तत्र राधया । पुनः स्वमंदिरे गत्वाऽतिष्ठच्च क्रोधसंयुता ॥५४॥ ततः स प्रकटः कृष्णो बभूव ह चकार ताम् । स्त्रीरूपां जलभावस्थां चिक्रीड भृशहर्षितः ॥५५॥ संतोषणे समायुक्तां कृत्वा स विरजां ययौ । राधां द्वारसमीपे चागतं वीक्ष्य जगाद सा ॥५६॥ राधोवाच । किमर्थं लंपटोऽत्यंतमागतोऽसि ममांतिकम् । गच्छ तां विरजां देव कदा न त्वां स्पृशाम्यहम् ॥५७॥ मदीयसत्तया लोको रचितोऽयं मया पुरा । त्यक्त्वा लोकं मदीयं वै गच्छ त्वं यत्र ते रुचिः ॥५८॥ इत्यादि विविधैर्वाक्यैः पतिं निर्भर्त्स्य राधिका । शशाप क्रोधसंयुक्ता मृत्युलोके पतेति तम् ॥५९॥ ततः शप्तं च तं ज्ञात्वा श्रीदामा गोपनायकः ।

[Header] खं. २ अ. ६७ | पान १४१


न्यभर्त्सयत् स तां क्रुद्धः कृष्णमित्रं प्रतापवान् ॥६०॥ तमतिक्रोधसंयुक्ता राधिका ह्यसुरो भव । शशाप सा मुनिश्रेष्ठ सोऽपि क्रोधयुतोऽभवत् ॥६१॥ राधां शशाप मर्त्येषु भव नारी त्वमंजसा । शतवर्षाणि कृष्णस्य वियोगेन समन्विता ॥६२॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खंडे एकदंतचरिते कृष्णराधाशापवर्णनं नाम षट्षष्टितमोऽध्यायः ॥

॥ श्रीगणेशाय नमः ॥ ब्रह्मोवाच । एवं परस्परं शप्त्वा खेदयुक्ता बभूविरे । गतगर्वाश्च सर्वे ते विचारं चक्रुरादरात् ॥१॥ अहं गोलोकराजोऽहं सर्वाधीशो न संशयः । इयं प्रकृतिरूपा मे कृतौ केनापराधिनौ ॥२॥ कृष्णोऽहं सर्वदेवेश अपि मां विघ्न उत्थितः । अतो वै विघ्नराजः स गणेशः कुरुतेऽखिलम् ॥३॥ हिताहितं न संदेहस्तदाधारमिदं जगत् । सस्त्रीकः शरणं यामि ब्रह्माकारमतश्च तम् ॥४॥ एवं विचार्य देवेशः सस्त्रीको मित्रसंयुतः । पपात भगवान् कृष्णो मृत्युलोके महामुने ॥५॥ मथुरायां च देवक्यां वसुदेवात् समुद्भवः । कृष्णो यादववंशे वै तेषां स सुखदोऽभवत् ॥६॥ वृषभानुसुता जाता राधा सा गोकुले मुने । शंखचूडो बभूवाऽथ श्रीदामाऽसुरसत्तमः ॥७॥ ततश्च गोकुलं कृष्णः कंसस्यैव भयाद्ययौ । तत्र राधासमायुक्तो बभूव स जनार्दनः ॥८॥ ततो विघ्नेशमत्यंतं भेजतुस्तौ स्वभावतः । षोडशाक्षरमंत्रेण परे तपसि संस्थितौ ॥९॥ पुरश्चरणमेकं तौ चक्रतुः परमादरात् । बभूवतुस्ततो ध्यानसमायुक्तौ निरंतरम् ॥१०॥ तपस्त्यक्त्वा तस्य हृदि ध्यानयुक्तौ विशेषतः । तपसोऽधिकमुग्रं वै ध्यानं शास्त्रेषु संमतम् ॥११॥ संवत्सरान् स तत्रैव कृष्णश्चैकादश स्थितः । ततश्च मथुरायां स जगामाक्रूरसंयुतः ॥१२॥ शतवर्षं वियोगेन राधाकृष्णौ बभूवतुः । युक्तौ परमदुःखात्तौ ध्यायंतौ गणनाय कम् ॥१३॥ ततस्तयोश्च संप्राप्तो योगः शांतिप्रदायकः । तेन संतोषमापन्नौ गाणपत्यौ बभूवतुः ॥१४॥ गते वर्षशते विप्र जग्मतुस्तौ सहानुगौ । वैशाखपूर्णिमायां वै मुने बदरिकाश्रमम् ॥१५॥ तत्र शंभुमुखा देवाः सस्त्रीकाश्च समागताः । यात्रार्थं गणनाथस्य मुनयश्च ययुर्मुदा ॥१६॥ शेषादयो महानागा राजानश्च विशेषतः । त्रिलोकस्था जनाः सर्वे जग्मुस्तत्र महामुने ॥१७॥ योगिनः कपिलाद्याश्च तत्राऽहं संगतो मुने । सर्वैर्महोत्सवस्तत्र वार्षिकः क्रियते सदा ॥१८॥ ततस्तं पूजयित्वा ते सर्वे चोपोषणान्विताः । स्थिताश्चक्रुः प्रतिपदि पारणं ते महामुने ॥१९॥ तत्र राधा च कृष्णश्च