मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 262, कुल 1023 में से
संदर्भ में पढ़ेंऽभवत्। तं हनिष्यामि वेगेन द्रक्ष्यसि त्वं गजाननम् ॥४५॥ ततो विष्णुः समायातो गणेशं तस्य दुर्मतेः। वृत्तांतमवदत्तीव्रं श्रुत्वा चुक्रोध विघ्नपः ॥४६॥ बभूव मूषकारूढो तं हंतुं शस्त्रधारकः। देवाः सर्वे च सन्नद्धा बभूवुरसुरेश्वर ॥४७॥ ॥ ओमिति श्रीमदान्द्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खंडे एकदंतचरिते विष्णुदौत्यवर्णनं नाम चतुःषष्टितमोऽध्यायः ॥
॥ श्रीगणेशाय नमः ॥ गृत्समद उवाच । ततः स दैत्यराजोऽपि स्वसेनासंवृतो ययौ । रथारूढो महातेजाः शस्त्रास्त्रैः संयुतो बभौ ॥१॥ दुर्मतिर्गणपं दृष्ट्वा चुकोपाऽतितरां खलः । आज्ञापयत् स्वसेनां वै देवानां कदनाय च ॥२॥ ततो दैत्याश्च देवास्ते युयुधुश्चातिदारुणम् । असंबद्धं महाक्रोधा जग्मुः सप्त च वासराः ॥३॥ देवसेना ततो भग्ना पलायत दिशो दश । भयभीता ततः क्रोधाद्युयुधे शंकरो भृशम् ॥४॥ ततो दुर्मतिना तत्र कृतं युद्धं महाद्भुतम् । मूर्च्छिताः पतिताः केचिद्देवेशाः खंडिताः शरैः ॥५॥ शंभुं विष्णुं च देवेंद्रं सर्वानन्यान् सुमूर्च्छितान् । तान् दृष्ट्वा गणराजस्तु क्रोधयुक्तो बभूव ह ॥६॥ मूषकारूढ एवाऽसौ संग्रामाय समाययौ । तं दृष्ट्वा दुर्मतिः प्राह क्रोधारुणविलोचनः ॥७॥ दुर्मतिरुवाच । किमर्थं मूर्खभावेन युद्धाय समुपागतः । बाणेनैकेन हन्मि त्वां पश्य मे पौरुषं खल ॥८॥ ब्रह्मांडं निर्जितं येन तेन युद्धं करिष्यसि । अज्ञानेनावृतो नूनं गच्छ त्वां नैव हन्म्यहम् ॥९॥ एवं वदंतमुग्रं तं दैत्येशं दुर्मतिं प्रभुः । जगाद हास्यसंयुक्तः पतिः पुष्टेः प्रतापवान् ॥१०॥ पुष्टिपतिरुवाच । मा गर्वं कुरु दैत्येश दुर्मते शृणु मे वचः । त्वां हनिष्यामि नूनं च पश्य मे पौरुषं महत् ॥११॥ इत्युक्तवंत- मप्येनं दुर्मतिः सहसा ययौ । दंतं धृत्वा गणेशस्याकर्षयत् क्रोधसंयुतः ॥१२॥ महाबलेन दैत्येन वामदंतः प्रपातितः । भंक्त्वा स धरणी पृष्ठे तं दंतं गणपोऽग्रहीत् ॥१३॥ दंतेन शिरसि प्रोतो दुर्मतिः स ममार ह। ततः पुष्टिपतिर्देवान् सावधानांश्चकार ह ॥१४॥ ततो दैत्यगणाः सर्वे पलायंत दिशो दश । पातालं जग्मुरत्यंतं भयभीताः समंततः ॥१५॥ ततो देवेश्वरास्तत्र मुनयो हर्षसंयुताः । अपूजयंस्तथा पुष्टिपतिं ते तुष्टुवुः पुनः ॥१६॥ देवर्षय ऊचुः । जय देव गणाधीश जय विघ्नहराव्यय । जय पुष्टिपते ढुंढे जय सर्वेश सत्तम ॥१७॥ जयानंत गुणाधार जय सिद्धिप्रद प्रभो । जय योगेन योगात्मन् जय शांतिप्रदायक ॥१८॥ जय ब्रह्मेश सर्वज्ञ जय सर्वप्रियंकर । जय स्वानंदपस्थायिन् जय वेदविदांवर ॥१९॥