मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 263, कुल 1023 में से
संदर्भ में पढ़ेंखं. २ अ. ६५ | पान १३७
जय वेदांतवादज्ञ जय वेदांतकारण । जय बुद्धीश्वर प्राज्ञ जय सर्वामरप्रिय ॥२०॥ जय मायामये खेलिन् जयाव्यक्त गजानन । जय लंबोदरः साक्षिन् जय दुर्मतिनाशन ॥२१॥ जयैकदंतहस्तस्त्वं जयैकरदधारक । जय योगिहृदिस्थ त्वं जय ब्राह्मणपूजित ॥२२॥ जय कर्म तपोरूप जय ज्ञानप्रदायक । जयामेय महाभाग जय पूर्णमनोरथ ॥२३॥ जयानंद गणेशान जय पाशांकुशप्रिय । जय परशुधर त्वं वै जय पावनकारक ॥२४॥ जय भक्ताभयाध्यक्ष जय भक्तमहाप्रिय । जय भक्तेश विघ्नेश जय नाथ महोदर ॥२५॥ नमो नमस्ते गणनायकाय नमो नमस्ते सकलात्मकाय । नमो नमस्ते भव- मोचनाय नमो नमस्तेऽतिसुखप्रदाय ॥२६॥ इति स्तुत्वा गणाधीशं प्रणेमुस्तं महामते । उत्थाय ननृतुः सर्वे हर्षयुक्ताः सुरर्षयः ॥२७॥ तेषां महोत्सवं दृष्ट्वा तान् जगाद महाप्रभुः । प्रसन्नात्मा पुष्टिपतिर्भक्तान् भक्तप्रियंकरः ॥२८॥ पुष्टिपतिरुवाच । भवत्कृतमिदं स्तोत्रं यः पठिष्यति नित्यशः । श्रोष्यते सकलं तस्य जयरूपं भविष्यति ॥२९॥ पठनाच्छ्रवणादस्य सर्वं जयति मानवः । अंते मदीयसायुज्यं प्राप्नोत्यत्र न संशयः ॥३०॥ एवमुक्तवांतर्दधेऽसौ पतिः पुष्टेर्गणेश्वरः । देवाश्च मुनयः सर्वे विस्मिता अभवंस्तदा ॥३१॥ स्वे स्वे पदे च ते जग्मुर्यथा सुखरताः पुरा । तथा पुनः स्वलोकस्था मोदंते स्म च तत्पराः ॥३२॥ स्वाचारं मुनयश्चकुर्वर्णाश्रमरता जनाः । बभूवुरभजंस्तं ते स्वधर्मेण गजाननम् ॥३३॥ शिवश्च शक्तिसंयुक्तस्तमेव हृदये स्थितम् । अभजत् भावयुक्तश्च गाणपत्यः प्रतापवान् ॥३४॥ मूर्ति चक्रुर्गणेशस्य स्थापयामासुरादरात् । वैशाखपूर्णिमायां चाभवत्तत्र महोत्सवः ॥३५॥ तत्र सिद्धिरनुप्राप्ता शिवेन ननु मानद । चक्रुः सिद्धाश्रमं नाम्ना क्षेत्रं देवर्षयः परम् ॥३६॥ तत्रैव सिद्धिमापन्ना देवा ब्रह्मर्षयः पुरा । सनकाद्या महात्मानो गाणेशास्तेऽभवंस्ततः ॥३७॥ अत्र ते वर्णयिष्येऽहमितिहासं पुरातनम् । अगस्त्यस्य च संवादयुक्तं च ब्रह्मणः पुरा ॥३८॥ एकदा वनगो भूत्वाऽगस्त्यस्तपसि संस्थितः । लोपामुद्रा च सेवायां रता पत्नी तथाऽभवत् ॥३९॥ राजपुत्री महाभागा पातिव्रत्यपरायणा । सुकुमाराऽभवत्तत्र कर्षिता सेवनोत्सुका ॥४०॥ घर्मेण सकलं व्याप्तं वपुस्तस्या रजोयुतम् । शिरो जटायुतं वीक्ष्य तुतोष मुनिसत्तमः ॥४१॥ तामुवाच वरं ब्रूहि दास्येऽहं भावयंत्रितः । सोवाच राजभोगेन युक्तं देहि मुने ऋतुम् ॥४२॥ ततः स राजभोगार्थं द्रव्येप्सुश्च समागतः । राजानं याचनार्थाय सार्वभौमं ययाच वै ॥४३॥ दिलीपस्तमुवाचाथ कियन्मानं धनं वद । दास्यामि भाव- संयुक्तस्तुभ्यं तत्तापसोत्तम ॥४४॥ राज्ञो वचनमाकर्ण्यावाच तं मुनिसत्तमः । व्ययादुवरितं यन् मे धनं देहि सुपुष्कलम् ॥४५॥