भारतकोश
मुद्गल पुराण (अष्टावतार चरितम्)

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

महर्षि मुद्गल द्वारा

स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)

DevanagariSanskritpublished1,023 पृष्ठ

पृष्ठ 266, कुल 1023 में से

संदर्भ में पढ़ें
पृष्ठ 266

न क्षमा वयम् ॥३५॥ अत्र ते वर्णयिष्येऽहमितिहासं पुरातनम् । श्रवणात् संशयस्ते च नाशमेष्यति निश्चितम् ॥३६॥ गोलोके राधया युक्तः कृष्णो गोलोकवासिभिः । उवास तत्र देवेशः सर्ववंद्यः प्रतापवान् ॥३७॥ सर्वेषां मदहंता स जातः स्वस्यैव तेजसा । अस्माकं पालको भूत्वा विघ्नहीनः स्वभावतः ॥३८॥ तथा राधाऽपि देवीनां मदस्य हरणं बलात् । कृत्वा वंद्या स्वयं भूत्वोवास विघ्नविवर्जिता ॥३९॥ त्रिपुरादिभिरुग्रैश्च परस्परविरोधतः । विघ्नयुक्ताः शिवाद्यास्ते शरणं त्वगमन् परम् ॥४०॥ अन्याशरणकृष्णस्य हृदि गर्वः समागतः । सततं मदयुक्तः स बभूव परमाद्भुतः ॥४१॥ अहं ब्रह्मेति यत् प्रोक्तं तदेवाऽहं न संशयः । मदाधारमिदं सर्वं तस्मान्नान्योऽस्ति मत्परः ॥४२॥ मदनुग्रहमात्रेण देवाः शंभुपुरोगमाः । शक्ताः स्वव्यवहारेषु तस्मान्नान्योऽस्ति मत्परः ॥४३॥ एवं मनसि गर्वेण मदेन च समाकुलः । मदयुक्ता तथा राधा बभूव मुनिसत्तम ॥४४॥ ततो विघ्नकरो विघ्नं चकार परमाद्भुतम् । स्वभक्तिभावदानार्थं शांतियोगार्थ- मादरात् ॥४५॥ विररामैकदा युक्तो राधया वनमंडले । रतिक्रीडासमायुक्तो बभूवे कामसंयुतः ॥४६॥ तत्रैका नायिका तस्य प्रीतिदा विरजाऽभवत् । तया संस्मरणं सद्यः कृतं कृष्णस्य तत्क्षणे ॥४७॥ अधः स्थितां परित्यज्य राधां कृष्णो ययौ मुने । विरजां स तया सार्धं क्रीडासक्तो बभूव ह ॥४८॥ ततः संकुपिता राधा रतिभंगेन मानद । जगाद याः समीपस्था गोपिका वचनं तदा ॥४९॥ कुत्र दृष्टो महामानी कृष्णः स्त्रीलंपटाग्रणीः । तं मां वदत वै देव्यस्त्यजामि मनसा पतिम् ॥५०॥ ततस्तां गोपिका काचिदुवाच विनयान्विता । विरजाया मया राधे दृष्ट आश्रमसन्निधौ ॥५१॥ ततः सा क्रोधताम्राक्षी रथोपरि ययौ स्थिता । विरजाश्रमसांनिध्यं गोपीभिः संवृता मुने ॥५२॥ तामागतां समाज्ञाय कृष्णश्चांतर्दधे भयात् । विरजा जलरूपा सा जाता भयसमन्विता ॥५३॥ तया न दृष्टः सस्त्रीको देवेशस्तत्र राधया । पुनः स्वमंदिरे गत्वाऽतिष्ठच्च क्रोधसंयुता ॥५४॥ ततः स प्रकटः कृष्णो बभूव ह चकार ताम् । स्त्रीरूपां जलभावस्थां चिक्रीड भृशहर्षितः ॥५५॥ संतोषणे समायुक्तां कृत्वा स विरजां ययौ । राधां द्वारसमीपे चागतं वीक्ष्य जगाद सा ॥५६॥ राधोवाच । किमर्थं लंपटोऽत्यंतमागतोऽसि ममांतिकम् । गच्छ तां विरजां देव कदा न त्वां स्पृशाम्यहम् ॥५७॥ मदीयसत्तया लोको रचितोऽयं मया पुरा । त्यक्त्वा लोकं मदीयं वै गच्छ त्वं यत्र ते रुचिः ॥५८॥ इत्यादि विविधैर्वाक्यैः पतिं निर्भर्त्स्य राधिका । शशाप क्रोधसंयुक्ता मृत्युलोके पतेति तम् ॥५९॥ ततः शप्तं च तं ज्ञात्वा श्रीदामा गोपनायकः ।