मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 267, कुल 1023 में से
संदर्भ में पढ़ें[Header] खं. २ अ. ६७ | पान १४१
न्यभर्त्सयत् स तां क्रुद्धः कृष्णमित्रं प्रतापवान् ॥६०॥ तमतिक्रोधसंयुक्ता राधिका ह्यसुरो भव । शशाप सा मुनिश्रेष्ठ सोऽपि क्रोधयुतोऽभवत् ॥६१॥ राधां शशाप मर्त्येषु भव नारी त्वमंजसा । शतवर्षाणि कृष्णस्य वियोगेन समन्विता ॥६२॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खंडे एकदंतचरिते कृष्णराधाशापवर्णनं नाम षट्षष्टितमोऽध्यायः ॥
॥ श्रीगणेशाय नमः ॥ ब्रह्मोवाच । एवं परस्परं शप्त्वा खेदयुक्ता बभूविरे । गतगर्वाश्च सर्वे ते विचारं चक्रुरादरात् ॥१॥ अहं गोलोकराजोऽहं सर्वाधीशो न संशयः । इयं प्रकृतिरूपा मे कृतौ केनापराधिनौ ॥२॥ कृष्णोऽहं सर्वदेवेश अपि मां विघ्न उत्थितः । अतो वै विघ्नराजः स गणेशः कुरुतेऽखिलम् ॥३॥ हिताहितं न संदेहस्तदाधारमिदं जगत् । सस्त्रीकः शरणं यामि ब्रह्माकारमतश्च तम् ॥४॥ एवं विचार्य देवेशः सस्त्रीको मित्रसंयुतः । पपात भगवान् कृष्णो मृत्युलोके महामुने ॥५॥ मथुरायां च देवक्यां वसुदेवात् समुद्भवः । कृष्णो यादववंशे वै तेषां स सुखदोऽभवत् ॥६॥ वृषभानुसुता जाता राधा सा गोकुले मुने । शंखचूडो बभूवाऽथ श्रीदामाऽसुरसत्तमः ॥७॥ ततश्च गोकुलं कृष्णः कंसस्यैव भयाद्ययौ । तत्र राधासमायुक्तो बभूव स जनार्दनः ॥८॥ ततो विघ्नेशमत्यंतं भेजतुस्तौ स्वभावतः । षोडशाक्षरमंत्रेण परे तपसि संस्थितौ ॥९॥ पुरश्चरणमेकं तौ चक्रतुः परमादरात् । बभूवतुस्ततो ध्यानसमायुक्तौ निरंतरम् ॥१०॥ तपस्त्यक्त्वा तस्य हृदि ध्यानयुक्तौ विशेषतः । तपसोऽधिकमुग्रं वै ध्यानं शास्त्रेषु संमतम् ॥११॥ संवत्सरान् स तत्रैव कृष्णश्चैकादश स्थितः । ततश्च मथुरायां स जगामाक्रूरसंयुतः ॥१२॥ शतवर्षं वियोगेन राधाकृष्णौ बभूवतुः । युक्तौ परमदुःखात्तौ ध्यायंतौ गणनाय कम् ॥१३॥ ततस्तयोश्च संप्राप्तो योगः शांतिप्रदायकः । तेन संतोषमापन्नौ गाणपत्यौ बभूवतुः ॥१४॥ गते वर्षशते विप्र जग्मतुस्तौ सहानुगौ । वैशाखपूर्णिमायां वै मुने बदरिकाश्रमम् ॥१५॥ तत्र शंभुमुखा देवाः सस्त्रीकाश्च समागताः । यात्रार्थं गणनाथस्य मुनयश्च ययुर्मुदा ॥१६॥ शेषादयो महानागा राजानश्च विशेषतः । त्रिलोकस्था जनाः सर्वे जग्मुस्तत्र महामुने ॥१७॥ योगिनः कपिलाद्याश्च तत्राऽहं संगतो मुने । सर्वैर्महोत्सवस्तत्र वार्षिकः क्रियते सदा ॥१८॥ ततस्तं पूजयित्वा ते सर्वे चोपोषणान्विताः । स्थिताश्चक्रुः प्रतिपदि पारणं ते महामुने ॥१९॥ तत्र राधा च कृष्णश्च