मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
न क्षमा वयम् ॥३५॥ अत्र ते वर्णयिष्येऽहमितिहासं पुरातनम् । श्रवणात् संशयस्ते च नाशमेष्यति निश्चितम् ॥३६॥ गोलोके राधया युक्तः कृष्णो गोलोकवासिभिः । उवास तत्र देवेशः सर्ववंद्यः प्रतापवान् ॥३७॥ सर्वेषां मदहंता स जातः स्वस्यैव तेजसा । अस्माकं पालको भूत्वा विघ्नहीनः स्वभावतः ॥३८॥ तथा राधाऽपि देवीनां मदस्य हरणं बलात् । कृत्वा वंद्या स्वयं भूत्वोवास विघ्नविवर्जिता ॥३९॥ त्रिपुरादिभिरुग्रैश्च परस्परविरोधतः । विघ्नयुक्ताः शिवाद्यास्ते शरणं त्वगमन् परम् ॥४०॥ अन्याशरणकृष्णस्य हृदि गर्वः समागतः । सततं मदयुक्तः स बभूव परमाद्भुतः ॥४१॥ अहं ब्रह्मेति यत् प्रोक्तं तदेवाऽहं न संशयः । मदाधारमिदं सर्वं तस्मान्नान्योऽस्ति मत्परः ॥४२॥ मदनुग्रहमात्रेण देवाः शंभुपुरोगमाः । शक्ताः स्वव्यवहारेषु तस्मान्नान्योऽस्ति मत्परः ॥४३॥ एवं मनसि गर्वेण मदेन च समाकुलः । मदयुक्ता तथा राधा बभूव मुनिसत्तम ॥४४॥ ततो विघ्नकरो विघ्नं चकार परमाद्भुतम् । स्वभक्तिभावदानार्थं शांतियोगार्थ- मादरात् ॥४५॥ विररामैकदा युक्तो राधया वनमंडले । रतिक्रीडासमायुक्तो बभूवे कामसंयुतः ॥४६॥ तत्रैका नायिका तस्य प्रीतिदा विरजाऽभवत् । तया संस्मरणं सद्यः कृतं कृष्णस्य तत्क्षणे ॥४७॥ अधः स्थितां परित्यज्य राधां कृष्णो ययौ मुने । विरजां स तया सार्धं क्रीडासक्तो बभूव ह ॥४८॥ ततः संकुपिता राधा रतिभंगेन मानद । जगाद याः समीपस्था गोपिका वचनं तदा ॥४९॥ कुत्र दृष्टो महामानी कृष्णः स्त्रीलंपटाग्रणीः । तं मां वदत वै देव्यस्त्यजामि मनसा पतिम् ॥५०॥ ततस्तां गोपिका काचिदुवाच विनयान्विता । विरजाया मया राधे दृष्ट आश्रमसन्निधौ ॥५१॥ ततः सा क्रोधताम्राक्षी रथोपरि ययौ स्थिता । विरजाश्रमसांनिध्यं गोपीभिः संवृता मुने ॥५२॥ तामागतां समाज्ञाय कृष्णश्चांतर्दधे भयात् । विरजा जलरूपा सा जाता भयसमन्विता ॥५३॥ तया न दृष्टः सस्त्रीको देवेशस्तत्र राधया । पुनः स्वमंदिरे गत्वाऽतिष्ठच्च क्रोधसंयुता ॥५४॥ ततः स प्रकटः कृष्णो बभूव ह चकार ताम् । स्त्रीरूपां जलभावस्थां चिक्रीड भृशहर्षितः ॥५५॥ संतोषणे समायुक्तां कृत्वा स विरजां ययौ । राधां द्वारसमीपे चागतं वीक्ष्य जगाद सा ॥५६॥ राधोवाच । किमर्थं लंपटोऽत्यंतमागतोऽसि ममांतिकम् । गच्छ तां विरजां देव कदा न त्वां स्पृशाम्यहम् ॥५७॥ मदीयसत्तया लोको रचितोऽयं मया पुरा । त्यक्त्वा लोकं मदीयं वै गच्छ त्वं यत्र ते रुचिः ॥५८॥ इत्यादि विविधैर्वाक्यैः पतिं निर्भर्त्स्य राधिका । शशाप क्रोधसंयुक्ता मृत्युलोके पतेति तम् ॥५९॥ ततः शप्तं च तं ज्ञात्वा श्रीदामा गोपनायकः ।
[Header] खं. २ अ. ६७ | पान १४१
न्यभर्त्सयत् स तां क्रुद्धः कृष्णमित्रं प्रतापवान् ॥६०॥ तमतिक्रोधसंयुक्ता राधिका ह्यसुरो भव । शशाप सा मुनिश्रेष्ठ सोऽपि क्रोधयुतोऽभवत् ॥६१॥ राधां शशाप मर्त्येषु भव नारी त्वमंजसा । शतवर्षाणि कृष्णस्य वियोगेन समन्विता ॥६२॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खंडे एकदंतचरिते कृष्णराधाशापवर्णनं नाम षट्षष्टितमोऽध्यायः ॥
॥ श्रीगणेशाय नमः ॥ ब्रह्मोवाच । एवं परस्परं शप्त्वा खेदयुक्ता बभूविरे । गतगर्वाश्च सर्वे ते विचारं चक्रुरादरात् ॥१॥ अहं गोलोकराजोऽहं सर्वाधीशो न संशयः । इयं प्रकृतिरूपा मे कृतौ केनापराधिनौ ॥२॥ कृष्णोऽहं सर्वदेवेश अपि मां विघ्न उत्थितः । अतो वै विघ्नराजः स गणेशः कुरुतेऽखिलम् ॥३॥ हिताहितं न संदेहस्तदाधारमिदं जगत् । सस्त्रीकः शरणं यामि ब्रह्माकारमतश्च तम् ॥४॥ एवं विचार्य देवेशः सस्त्रीको मित्रसंयुतः । पपात भगवान् कृष्णो मृत्युलोके महामुने ॥५॥ मथुरायां च देवक्यां वसुदेवात् समुद्भवः । कृष्णो यादववंशे वै तेषां स सुखदोऽभवत् ॥६॥ वृषभानुसुता जाता राधा सा गोकुले मुने । शंखचूडो बभूवाऽथ श्रीदामाऽसुरसत्तमः ॥७॥ ततश्च गोकुलं कृष्णः कंसस्यैव भयाद्ययौ । तत्र राधासमायुक्तो बभूव स जनार्दनः ॥८॥ ततो विघ्नेशमत्यंतं भेजतुस्तौ स्वभावतः । षोडशाक्षरमंत्रेण परे तपसि संस्थितौ ॥९॥ पुरश्चरणमेकं तौ चक्रतुः परमादरात् । बभूवतुस्ततो ध्यानसमायुक्तौ निरंतरम् ॥१०॥ तपस्त्यक्त्वा तस्य हृदि ध्यानयुक्तौ विशेषतः । तपसोऽधिकमुग्रं वै ध्यानं शास्त्रेषु संमतम् ॥११॥ संवत्सरान् स तत्रैव कृष्णश्चैकादश स्थितः । ततश्च मथुरायां स जगामाक्रूरसंयुतः ॥१२॥ शतवर्षं वियोगेन राधाकृष्णौ बभूवतुः । युक्तौ परमदुःखात्तौ ध्यायंतौ गणनाय कम् ॥१३॥ ततस्तयोश्च संप्राप्तो योगः शांतिप्रदायकः । तेन संतोषमापन्नौ गाणपत्यौ बभूवतुः ॥१४॥ गते वर्षशते विप्र जग्मतुस्तौ सहानुगौ । वैशाखपूर्णिमायां वै मुने बदरिकाश्रमम् ॥१५॥ तत्र शंभुमुखा देवाः सस्त्रीकाश्च समागताः । यात्रार्थं गणनाथस्य मुनयश्च ययुर्मुदा ॥१६॥ शेषादयो महानागा राजानश्च विशेषतः । त्रिलोकस्था जनाः सर्वे जग्मुस्तत्र महामुने ॥१७॥ योगिनः कपिलाद्याश्च तत्राऽहं संगतो मुने । सर्वैर्महोत्सवस्तत्र वार्षिकः क्रियते सदा ॥१८॥ ततस्तं पूजयित्वा ते सर्वे चोपोषणान्विताः । स्थिताश्चक्रुः प्रतिपदि पारणं ते महामुने ॥१९॥ तत्र राधा च कृष्णश्च
पान १४२ मिलितौ गणपं निशि । ध्यायन्तौ भावसंयुक्तौ जेपतुर्मन्त्रमुत्तमम् ॥२०॥ ततस्तयोर्गणेशानो दर्शयामास चोत्तमम् । रूपं चतुर्भुजं साक्षाद्गजवक्रादिचिह्नितम् ॥२१॥ तं दृष्ट्वा सहसोत्थाय नेमतुश्चरणाम्बुजे । सरोमांचौ तुष्टुवतुः साश्रुनेत्रौ गणेश्वरम् ॥२२॥ राधाकृष्णावूचतुः । नमस्तुभ्यं पुष्टिफ्ते नमः शंकरसूनवे । ब्रह्मभूताय देवाय सर्वसिद्धिप्रदाय ते ॥२३॥ स्वानंदवासिने तुभ्यं ब्रह्मपुत्राय ते नमः । सिद्धिबुद्धिपते ते वै गणेशाय नमो नमः ॥२४॥ हेरंबाय नमस्तुभ्यं नमो योगमयाय च । सर्वाद्ये च सर्वेश सर्वज्ञाय नमो नमः ॥२५॥ निर्गुणाय नमस्तुभ्यं सगुणाय नमो नमः । गजाननाय वै तुभ्यमभेदाय तयोर्नमः ॥२६॥ शांतिरूपाय शांताय शांतिदाय महोदर । मूषकश्रेष्ठयानाय गाणपत्यप्रियाय ते ॥२७॥ अनंतानन्तरूपाय भक्तसंरक्षकाय च । भक्तिप्रियाय देवाय भक्त्यधीनाय ते नमः ॥२८॥ चतुर्बाहुधरायैव नागयज्ञोपवीतिने । शूर्पकर्णाय शूराय परशोधर ते नमः ॥२९॥ विष्णुपूत्राय सर्वेषां पित्रे मात्रे नमो नमः । विनायकाय विप्राणां पुत्राय च नमो नमः ॥३०॥ सर्वेषां गर्वहंत्रे च सर्वेभ्यः सुखदाय ते । लंबोदराय विघ्नेश ब्रह्मनायक ते नमः ॥३१॥ किं स्तुवस्त्ववां गणाधीश यत्र वेदादयः प्रभो । शंभुः शुकादयश्चैव बभूवुः कुंठिताः परम् ॥३२॥ आवां गर्वयुतौ जातौ ब्रह्माकारौ वृथा प्रभो । तव तत्र च विघ्नेन कृतं गर्वस्य खंडनम् ॥३३॥ साधूनां विघ्नदाता त्वं शांतियोगार्थमंजसा । असाधूनां विनाशाय ह्यतस्त्वां प्रणमावहे ॥३४॥ विघ्नयुक्ततया ढूंढे आवाभ्यां योगसेवया । साक्षात्कारकृतस्त्वं वै समीचीनमिदं कृतम् ॥३५॥ हृदि चिंतामणिं त्वां च पश्यावः सततं प्रभो । अतः स शुभदो विघ्नः संजातो नौ गजानन ॥३६॥ अधुना देहि विघ्नेश भक्तिं ते चरणाम्बुजे । दृढां यया च गर्वेण न भवावः समायुतौ ॥३७॥ इत्युक्त्वा तं ननृततुः प्रणम्यैव मुदान्वितौ । धन्यौ धन्यौ प्रब्रुवंतौ दर्शनाद्गणपस्य तौ ॥३८॥ ब्रह्मोवाच । जगाद गणनांथस्तौ ततो वै भक्तिभावितः । दृष्ट्वा ब्रह्मरसा- ह्लादयुतौ राधाजनार्दनौ ॥३९॥ पुष्टिपतिरुवाच । भो राधे कृष्ण मे वाक्यं शृणुतं जगदीश्वरौ । मदीयां भक्तिमत्यंतं संशयो न करिष्यथः ॥४०॥ संकटे स्मरणेनैव प्रकटः संभवाम्यहम् । यं यमिच्छथ आनंदं सफलः स भविष्यति ॥४१॥ भवत्कृतमिदं स्तोत्रं पठतां शृण्वतां नृणाम् । सर्वसिद्धिप्रदं पूर्णं भविष्यति सुरेश्वरौ ॥४२॥ मत्प्रीतिवर्धनं नित्यं वाञ्छितार्थकरं भवेत् । अंते स्वानंददं कृष्ण भविष्यति न संशयः ॥४३॥ एवमुक्त्वाऽंतर्दधेऽसौ गणेशो ब्रह्मनायकः । तौ तं हृदि विशेषेण पश्यंतौ तस्थतुर्निशि ॥४४॥ ततः पुनश्च गोलोके गतौ राधाहरी स्वके । बभूवतुरखंडैश्वर्यसंयुक्तौ
खं. २ अ. ६८ पान १४३ महामुने ॥४५॥ अतस्त्वं मदहीनश्च शरणं गणपं व्रज । अगस्त्य तेन ते वाञ्छां पूरयिष्यति स प्रभुः ॥४६॥ ब्रह्मांडं वर्तते तस्याऽऽधारेण मुनिसत्तम । सर्वत्र गणनाथोऽयं क्रीडति स्वेच्छया स्वयम् ॥४७॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदंतचरिते राधाकृष्णगोलोकप्राप्तिवर्णनं नाम सप्तषष्टितमोऽध्यायः ॥ ॥ श्रीगणेशाय नमः ॥ गृत्समद उवाच । श्रुत्वा कथां महारम्यामगस्त्यस्तमुवाच ह । प्रणयावनतो भूत्वा ब्रह्माणं सर्ववेदिनम् ॥१॥ अगस्त्य उवाच । भगवन् सर्वतत्त्वज्ञ कथितं सर्वमंजसा । त्वया तेनाहमत्यंतं सुतुष्टो ब्रह्मवित्तम ॥२॥ एतादृशो गणेशोऽयं तस्य ज्ञानं कथं भवेत् । तद्वदस्व दयासिंधो भवेयं दुःखवर्जितः ॥३॥ ततस्तं प्रत्युवाचेदं वचनं स पितामहः । ज्ञानयुक्तं गणेशस्य भक्तिदं परमाद्भुतम् ॥४॥ ब्रह्मोवाच । शृणु पुत्र प्रवक्ष्यामि ज्ञानं योगात्मकं महत् । यस्य त्वं गाणपत्यो वै भविष्यसि सुसेवनात् ॥५॥ देहदेहिमयं ब्रह्म स्वत उत्थानवाचकम् । जानीहि सर्वभावेन बोधरूपं विशेषतः ॥६॥ सांख्यं यद्वदति ब्रह्म परतोत्थानवाचकम् । बोधहीनस्वभावेन लभते स्वसुखस्थितम् ॥७॥ तयोर्भेदयोगे वै स्वसंवेद्यमतः परम् । जानीहि सर्वसंयोगकारकं योगसेवया ॥८॥ पंच भेदा मतास्तस्य ताञ्छृणुष्व महामते । जानीहि भेदरूपं यदसत्यं शक्तिवाचकम् ॥९॥ सत्यं भानुमयं प्रोक्तमात्माकारेण तत्र तु । जानीहि संस्थितं पुत्र सदा भेदादि- वर्जितम् ॥१०॥ तयोः संयोगकर्ता स विष्णुरानंदवाचकः । समात्मकं मतं ब्रह्म जानीहि सुखदं परम् ॥११॥ त्रयाणां नेति कर्ता च शंकरः परिकीर्तितः । अव्यक्तं ब्रह्म जानीहि तत् प्रोक्तं मोहवर्जितम् ॥१२॥ त्रिविधं मोहयुक्तं वै तुरीयं मोह- वर्जितम् । तेषां संयोगभावेन स्वानंदः परिलभ्यते ॥१३॥ स्वसंवेद्यात् परं ब्रह्म नास्ति संयोगधारकम् । सर्वत्राऽयं निजानंदः स्वानंदे सकलो भवेत् ॥१४॥ अयोगवाचकं ब्रह्म निजानंदात् परं मतम् । संयोगहीनभावेन लभ्यते नात्र संशयः ॥१५॥ संयोगायोगयोर्योगे तयोर्नाशे महामुने । स एव योग आख्यातः शांतिरूपेण लभ्यते ॥१६॥ स एव गणनाथोऽयं जानीहि ब्रह्मनायकः । गकारश्चैव संयोगो णकारो योग उच्यते ॥१७॥ तयोः स्वामी स वेदेषु विचारय महामते । तमाराधय यत्नेन ततः सौख्यमवाप्स्यसि ॥१८॥ अधुना त्वं सुसंकष्टयुक्तस्तत्र कुरुष्व भो । चतुर्थीं कृष्णपक्षस्य ध्यात्वा हृदि गजाननम् ॥१९॥
यहाँ प्रस्तुत पृष्ठ का देवनागरी में लिप्यंतरण दिया गया है:
खं. २ अ. ६९ पान १४४ समुद्रगर्वं त्वं तेन हरिष्यसि महाद्भुतम् । तपोवनं तात गच्छ व्यवसायं करोम्यहम् ॥२०॥ गृत्समद उवाच। ब्रह्माणं स नमस्कृत्य ययौ स्वकृतपोवनम् । षडक्षरेण विघ्नेशं तोषयन् मुनिसत्तमः ॥२१॥ सदा ध्यानरतो भूत्वा तताप तप उत्तमम् । संकटहरणीं प्राप्तां चतुर्थीं स चकार ह ॥२२॥ त्रिमासे प्रगते तुष्टो गणेशो व्रतसेवया । ध्यानेन तस्य प्रह्लाद तपसा भक्तिभावतः ॥२३॥ पंचम्यां कृष्णपक्षस्य बभूवाकाशवाक् परा । अगस्त्यस्तत्र शुश्राव तां वाणीं सुखदायिनीम् ॥२४॥ गच्छ त्वं पिब विघ्नेशं स्मृत्वा तं जलधिं मुने । वातापिं जहि तत्रस्थं तपस्तेजःसमन्वितः ॥२५॥ ततः स हर्षितो भूत्वा गत्वा जलधिसंनिधौ । गणेशं मनसा ध्यात्वा पपौ तं क्रोधसंयुतः ॥२६॥ शोषयित्वा जलं सर्वं संस्थितो मुनिसत्तमः । तेजसा ज्वालयामास वातापिं विप्रघातिनम् ॥२७॥ ततो देवगणाः सर्वे तुष्टुवुस्तं महामुनिम् । दैत्यांस्तत्र स्थितान् सर्वान् जघ्नुर्देवा उदायुधैः ॥२८॥ पुनर्गंगां समानीयोदधिमापूर्य तज्जलैः । भगीरथेन देवास्ते संस्थिता विगतज्वराः ॥२९॥ ततोऽगस्त्यः समागम्य वातापिनगरं प्रभुः । राजभिः पुष्कलं द्रव्यं गृहीत्वा स्वस्थलं ययौ ॥३०॥ लोपामुद्रां महातेजा- स्तोषयामास यत्नतः । पश्चात्तपसि संस्थोऽसावजपन् मंत्रमुत्तमम् ॥३१॥ जित्वा पंचविधं चित्तं योगींद्रो योगसेवया । ततो महायशाः शांतिमापेदे गणनायके ॥३२॥ पुनर्भक्त्या गणेशानं मयूरे तं समागतः । क्षेत्रे तत्रापूजयत् स नित्यं हर्षसमन्वितः ॥३३॥ एवं पुष्टिपतेश्चैव महिमा ते निरूपितः । संक्षेपेण मया दैत्य शृणु चिंतामणेः कथाम् ॥३४॥ इदं पुष्टिपतेश्चित्रं चरितं यः शृणोति वा । पठेच्च सकलं तस्य हस्तगं प्रभवेत् ध्रुवम् ॥३५॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदंतचरिते पुष्टिपतिकरितं नामाष्टषष्टितमोऽध्यायः ॥ ॥ श्रीगणेशाय नमः ॥ गृत्समद उवाच। स्वायंभुवो ददौ कन्यां कर्दमाय प्रहर्षितः । देवहूतिं च तस्यां स कपिलः संबभूव ह ॥१॥ साक्षाद्विष्णुः स्वयं देवस्तपसा कर्दमेन सः । आराधितश्च पुत्रोऽभूत्तत्त्वज्ञानप्रकाशकः ॥२॥ तं महोत्सवयुक्तश्चा- पूजयत् स महामुनिः । ब्रह्मादयः समायाता दर्शनार्थं गृहे मुनेः ॥३॥ उपवीतयुतं कृत्वा कर्दमो हर्षनिर्भरः । वेदान् सांगान् स्वपुत्राय ह्यध्यापयत यत्नतः ॥४॥ स च श्रवणमात्रेण जग्राह गुरुणोदितम् । स्वल्पकालेन संपूर्णविद्यायुक्तो बभूव ह ॥५॥
[Header] खं. २ अ. ६९ | पान १४५
ननाम कर्दमः पुत्रमेकदा भक्तिसंयुतः । सस्त्रीकश्च महाभागं पप्रच्छ विनयान्वितः ॥६॥ कर्दम उवाच । त्वं साक्षाद्विष्णुरूपो मां शुक्लः सर्वार्थकोविदः । वद ज्ञानं महाबाहो तारयस्व भवार्णवात् ॥७॥ एवं पृष्टो महात्माऽसौ कपिलस्तमुवाच ह । सर्वसारमयं ज्ञानं गाणेशं तारकः प्रभुः ॥८॥ कपिल उवाच । शृणु तात मया दृष्टमेव तत् शांतिदायकम् । कथयामि महाज्ञानं शांतियोगप्रदं प्रभो ॥९॥ सर्वं मायामयं विद्धि पंचकं पंचकं यतः । त्रिविधं आंतिरूपं यन्नानाभेदमयं भवेत् ॥१०॥ आंतिधारकरूपं यत्तच्चतुर्थं प्रकथ्यते । तेषामभेदसंयोगे ब्रह्मयोगमयं मतम् ॥११॥ पृथ्वी जलं तथा तेजस्त्रिविधं भ्रांतिदायकम् । वायुरांतिधरस्तत्र तुरीयात्मा प्रकथ्यते ॥१२॥ तेषामभेदसंयोग आकाशं ब्रह्म कथ्यते । भूतानां ज्ञानदं कस्माद्भूतं नैव प्रकीर्तितम् ॥१३॥ तथैव पंचकं सर्वं जानीहि मुनिसत्तम । मायामायिकसंयुक्तं ब्रह्म स्वानंदसंज्ञितम् ॥१४॥ कर्मेंद्रियाणि पंचैव पंचज्ञानेंद्रियाणि च । पंचतन्मात्रुकाः प्रोक्ता एवं जानीहि मानद ॥१५॥ पंच देवा निजे देहे कर्मेंद्रियविकाशकाः । तथा ज्ञानेंद्रियाणां च प्रकथ्यंते प्रकाशकाः ॥१६॥ स्थूलं सूक्ष्मं समं चैवात्मप्रतीतिप्रदायकम् । बिंदुः पंचममत्रस्थं देहपंचकमुच्यते ॥१७॥ स्वर्गो मृत्युश्च पातालं ब्रह्मांडं च तुरीयकम् । गुणेशः पंचमः पूर्णोऽडपंचकमुदाहृतम् ॥१८॥ ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चैव महामुने । योगिभिर्वर्णहीनाश्च वर्णपंचकमुच्यते ॥१९॥ ब्रह्मचारी गृहस्थश्च वानप्रस्थो यतिस्तथा । आश्रमैर्हीन रूपश्चाश्रमपंचकमुच्यते ॥२०॥ अंडजः स्वेदजो विप्रैरुद्भिज्जो जारजः स्मृतः । मानसश्चैव विप्रेंद्र योनिपंचकमुच्यते ॥२१॥ रक्तः श्वेतस्तथा श्यामो नीलः पीतश्च पंचमः । एवं कथितुं रंगपंचकं न प्रशक्यते ॥२२॥ देहेषु देहरूपं यदभिमानेन पंचधा । देहिपंचकमेतच्च ज्ञातव्यं मुनिसत्तम ॥२३॥ शक्तिः सूर्यस्तथा ब्रह्मा विष्णू रुद्रो महामते । गुणपंचकमित्युक्तं भिन्नभावधरं पितः ॥२४॥ शक्तिः सूर्यश्च विष्णुश्च शिवश्चाऽत्र तुरीयकः । गणेशः पंचमो विप्रैः पंचायतन- मुच्यते ॥२५॥ प्रकृतिः पुरुषश्चैव स्वत उत्थानसंज्ञितम् । परतोत्थानरूपं च संयोगः पंचमः स्मृतः ॥२६॥ असद्वेदेषु सद्भिैरानंदश्चोभयात्मकः । अव्यक्तश्च निजानंदो नैजं पंचकमुच्यते ॥२७॥ देहो देही च बोधाख्यं सांख्यमत्र चतुर्थकम् । पंचमं च स्वसंवेद्यं भवपंचकमुच्यते ॥२८॥ प्रकृत्यालयसंज्ञश्च विदेहो भवप्रत्ययः । उपायप्रत्ययो योगो योगपंचक- मुच्यते ॥२९॥ एवं सर्वं च जानीहि पंचकं पंचकं परम् । मयाऽशक्यं कथयितुं तस्मान् मुख्यं प्रकीर्तितम् ॥३०॥ तत्र योगे महाशांतिर्लभ्यते योगसेवया । योगाच्च न परं ब्रह्म वेदेषु परिकीर्तितम् ॥३१॥ सर्वब्रह्मसुयोगस्य योगस्तेन महामुने ।
खं. २ अ. ६९ पान १४६ न योगे कस्यचिद्भावो ब्रह्मणश्च प्रजापते ॥३२॥ गृत्समद उवाच । एवं पुत्रं वदंतं स प्रणिपत्य महामुनिः । उवाच कर्दमो यज्ञं योगेप्सुः परमादृतः ॥३३॥ कर्दम उवाच । केनोपायेन भो वत्स योगशांतिः प्रलभ्यते । तदर्थं पूजनीयं किं तद्वदस्व जनार्दन ॥३४॥ कपिल उवाच । गणेशभजनं मुख्यं शांतियोगप्रदं मतम् । योगाकारस्वरूपं तं ब्रह्मेशं भज मानद ॥३५॥ सर्वादिः सर्वपूज्योऽयं सर्वाधारो महामुने । य आदिः प्रलयांते स तिष्ठति श्रुतिसंमतम् ॥३६॥ ज्येष्ठराजं गणेशानं वेदेषु प्रवदंति तम् । गणाः समूहरूपाश्च तेषां स्वामी प्रकथ्यते ॥३७॥ नानाजगत्स्वरूपं वै देहरूपं कृतं मुने । महात्मना तेन कृतं नानाब्रह्ममयं शिरः ॥३८॥ यस्माज्जातंमिदं यन्नांते गच्छति महामते । तद्वेदे गजशब्दाख्यं शिरस्तेन गजाननः ॥३९॥ त्रिविधं भेदयुक्तं यदखंडं वै तुरीयकम् । तयोर्योगे गणेशोऽयं देहमस्तकयोगतः ॥४०॥ चित्तं पंचविधं प्रोक्तं तत्र मोहश्च पंचधा । मोहरूप महासिद्धिर्बुद्धिर्वै मोहधारिका ॥४१॥ तयोः स्वामी गणाधीशश्चित्ते नित्यं प्रतिष्ठितः । चिंतामणिर्महाभागो लभ्यते योगसेवया ॥४२॥ पंचधा चित्तमुत्सृज्य तदैश्वर्यं तथैव च । योगशांतिमयः सद्यः प्राप्यते ब्रह्मणस्पतिः ॥४३॥ तस्मात्तं भज मंत्रेणैकाक्षरेण महामुने । तेन तुष्टो गणेशानो योगं दास्यति शांतिदम् ॥४४॥ एवमुक्त्वा महायोगी कपिलस्तत्त्व- धारकः । विरराम महासाधो विष्णुः प्रह्लाद सोऽव्ययः ॥४५॥ ततः प्रणम्य तं पुत्रं कपिलं कर्दमो मुनिः । ययौ तपोवनं सद्यस्तताप परमं तपः ॥४६॥ एकाक्षरविधानेन परितुष्टो गजाननः । योगं शांतिमयं तस्मै प्रददौ भक्तवत्सलः ॥४७॥ कर्दमः शांतभावेन गणेशमभजत् परम् । विचचार महायोगी धरणीं लोकधारकः ॥४८॥ देवहूतिश्च तत्रैव योगं चासाधयत् परम् । गणेशं हृदि भावेन धृत्वा कपिलसन्निधौ ॥४९॥ क्रमेण शांतिमापन्ना चित्तं त्यक्त्वा महासती । चिंतामणौ तदाकारा बभूव भ्रमवर्जिता ॥५०॥ तां दृष्ट्वा सिद्धिमापन्नां कपिलः स ययौ ततः । गंगाया दक्षिणे तीरेऽभजत्तं गणनायकम् ॥५१॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदंतचरिते देवहूतिकर्दमशांतिप्राप्तिवर्णनं नामैकोनसप्ततितमोऽध्यायः ॥
॥ श्रीगणेशाय नमः ॥ गृत्समद उवाच । एकदा कपिलस्यैवाश्रमं देवपतिर्ययौ । सर्वामरसमायुक्तस्तं ननाम कृतांजलिः ॥१॥ अपराह्ने च संप्राप्तमिंद्रं दृष्ट्वा महामुनिः । न्यमंत्रयत् क्षुधायुक्तं सर्वैर्योगीश्वरो मुदा ॥२॥ सिद्धियुक्तं गणेशानं ध्यात्वा ह्यमृतमुत्तमम् । देवार्थं कल्पयित्वा स भोजयामास तेन तान् ॥३॥ पृथिव्यमृतभोगेन संतुष्टः सुरनायकः । मुनये वायुनाऽऽनाय्य प्रददौ मणिमुत्तमम् ॥४॥ गणेशभूषणं चिंतामणिर्मुख्यं प्रकथ्यते । योगी धृत्वा तमात्मानं मन्यते स्म कृतार्थकम् ॥५॥ कपिलस्तत्र मनसि विचारमकरोत् परम् । गणेशोऽहं न भिन्नश्च योगमार्गपरायणः ॥६॥ अतो गणेश- देवेन प्रेरितोऽयं मणिर्महान् । कंठे च तं बबंधाऽसौ यथा गणपतिस्तथा ॥७॥ तं दृष्ट्वा हर्षिता देवा सेन्द्राः स्वस्वस्थलं ययुः । कपिलः स्वाश्रमे तत्र संस्थितो मणिसंयुतः ॥८॥ प्रह्लाद उवाच । स्वानंदवासकारी च गणेशो ब्रह्मनायकः । तस्येन्द्रेण मणियोंगिन् कथं लब्धो वदस्व माम् ॥९॥ गृत्समद उवाच । शृणु प्रह्लाद माहात्म्यं चिंतामणिसमुद्भवम् । कथयामि च ते प्रीत्या सर्वपापप्रणाशनम् ॥१०॥ एकदा विष्णुना पूर्वं तपस्तप्तं सुदारुणम् । तेन शांतिरनुप्राप्ता षडक्षरविधानतः ॥११॥ तस्मै भक्तिपरीक्षार्थं ददौ चिंतामणिं प्रभुः । गणेशो भक्तिदानार्थं चिंतितार्थप्रदायिनम् ॥१२॥ विष्णुना पूजने क्षिप्तो मणिंश्चितामणिः प्रभो । अहं भक्तो गणेशस्य न योग्यो धारणे मणिः ॥१३॥ भूषणं गणनाथस्य पूजनीयं विशेषतः । न धार्यं देवदासैस्तत् पूजा कार्या च नित्यदा ॥१४॥ शांतियोगेन विघ्नेशो मया हृदि हृतः स्वके । न भिन्नस्तदपि स्वामी स दासोऽहं स्वभावतः ॥१५॥ ततो बहुगते काल इन्द्रस्तपसि संस्थितः । एकाक्षरविधानेनाऽतोषयद्गणनायकम् ॥१६॥ बभूव युक्तो ध्यानेन सततं देवनायकः । योगयुक्तः क्रमेणैव गाणपत्यो बभूव सः ॥१७॥ शांतिं प्राप्य स्वयं देवो गणेशाभेदतां गतः । आययौ स्वगृहं पश्चाद् देवराज्यं चकार ह ॥१८॥ एतस्मिन्नंतरे दैत्यगृहे शुश्राव केशवः । अशरीरां महावाणीं शृणु तत् कथयामि ते ॥१९॥ चिंतामणिं महाविष्णो देहीन्द्राय महामते । शांतियोगधरायाद्य मद्भक्ताय ददाम्यहम् ॥२०॥ श्रुत्वाऽऽकाशभवां वाणीं ययौ विष्णुर्ददौ परम् । महेंद्रायमरावत्यां मणिं तं चिंतितार्थदम् ॥२१॥ मघवा दासभावेन संस्थाप्याऽपूजयन् मणिम् । न योगमदतां प्राप्तो महेंद्रश्च प्रतापवान् ॥२२॥ तं मणिं कपिलं दृष्ट्वा शांतियोगधरं प्रभुम् । ददौ तस्मै महेंद्रः स भावयुक्तेन चेतसा ॥२३॥ अयं सिद्धेश्वरः साक्षाद्योग्यः संधारणे मणेः । वयं गृहस्थसंशीला न योग्या इत्यधारयत् ॥२४॥ एवं क्रमेण जानीहि चिंतामणिसमागमम् । कपिलः स्वगले नित्यं
खं. २ अ. ७० पान १४८
बबंध गणराजवत् ॥२५॥ गते कियति काले वै कपिलस्याश्रमं ययौ । मृगयाभिरतो दैत्यो गणासुर इति स्मृतः ॥२६॥ सेनां बहिः समास्थाप्य एकाकी मुनिमाययौ । कपिलं प्रणनामैव कृतांजलिपुटः स्थितः ॥२७॥ विनीतं तं विलोक्यैव कपिलस्तमुवाच ह । कोऽसि कस्मादिहाऽऽयातो वद सर्वं नरोत्तम ॥२८॥ गणासुर उवाच । गणासुर इति ख्यातो नाम्नाऽहं मुनिसत्तम । मृगयाभिरतो ह्यत्र दैवेनैवोपसादितः ॥२९॥ तवाश्रमे क्षुधायुक्तः श्रांतवाहन एव च । ससैन्यः सहसाऽऽगत्य संतृप्तः सुखदायके ॥३०॥ जलं फलान्यहं पीत्वा भक्षयित्वा ससैनिकः । दर्शनार्थं समायातः सेना मे सरसि स्थिता ॥३१॥ त्वद्दर्शनेन निष्पापो जातोऽहं मुनिसत्तम । आज्ञां देहि गमिष्यामि ससैन्यो नगरं स्वकम् ॥३२॥ तस्य तद्वचनं श्रुत्वा संतुष्टः कपिलोऽवदत् । ससैन्यो भुंक्ष्व किंचित्त्वं महत्तं नृपसत्तम॥३३॥ ममाश्रमे च दैत्येंद्र क्षुधितस्त्वं समागतः । अतस्त्वां प्रार्थये भूप अतिथिं सुसमागतम् ॥३४॥ तथेति संस्थितस्तत्र गणदैत्यः प्रतापवान् । उक्त्वा विनयसंयुक्तः कपिलेन सुसत्कृतः ॥३५॥ ततः कपिलशिष्येण सेनाऽऽनीता गणस्य वै । सेनया सह दैत्येशं पूजयामास तं मुनिः ॥३६॥ चिंतामणिं स संपूज्य प्रार्थयामास भोजनम् । यथारुचि च सर्वेषां तथा देयं महामणे ॥३७॥ ततो मणिप्रसादेन षड्रसैः संयुतं परम् । स्थितं पात्रेषु सर्वत्र प्रेषितं त्वन्नमादरात् ॥३८॥ ततस्तैर्भुक्तमत्यंतं स्वादयुक्तं विशेषतः । ससैन्यो गणदैत्योऽभूद्विस्मितो चेतसा भृशम् ॥३९॥ मुनिं प्रणम्य दैत्येश आर्थयत्तं महामणिम् । न ददौ तं मुनिश्रेष्ठो गाणेशं भूषणं मणिम् ॥४०॥ ततो मुनिं तिरस्कृत्य हस्तात्तस्य प्रगृह्य तम् । मणिं स प्रययौ स्थानं हर्षनिर्भरमानसः ॥४१॥ मुनिः क्षुब्धो महाभाग तस्य नाशाय दुर्मतेः । विचारमकरोचित्ते मणिग्रहणलालसः ॥४२॥ सुसाधुवदहो दैत्योऽविनीतः सुसमागतः । चकार कर्म प्रह्लाद पश्य तत् जातिवत् परम् ॥४३॥ अतो दुष्टोऽविनीतश्च न विश्वास्यः कदाचन । दुष्टसंगतियोगेन ज्ञानभ्रंशः प्रजायते ॥४४॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खंडे एकदंतचरिते चिंतामणिहरणं नाम सप्ततितमोऽध्यायः ॥
खं. २ अ. ७१ पान १४९ ॥ श्रीगणेशाय नमः ॥ प्रह्लाद उवाच । कोऽसौ गणासुरो दैत्यो येन चासत्कृतो मुनिः । समर्थः कपिलः साक्षात् प्रलयाग्नि- समद्युतिः ॥१॥ यस्य क्रोधयुता दृष्टिः सगरान् प्रददाह सा । तं तिरस्कृत्य जीवन् स कथं स्वनगरे गतः ॥२॥ गृत्समद उवाच । शृणु प्रह्लाद यत्नेन गणासुरविचेष्टितम् । सर्वं वदामि पापघ्नं गणेशचरिताश्रितम् ॥३॥ अभिजित्नाम राजर्षिरपुत्रः संबभूव ह । पुत्रार्थं स वनं राजा ययौ त्यक्त्वा स्वराज्यकम् ॥४॥ भ्रमन् ददर्श योगीशं वैशंपायनमंजसा । तं प्रणम्य सपत्नीकः पप्रच्छ विनयान्वितः ॥५॥ पुत्रप्राप्तेरुपायं मे वद सर्वज्ञ ते नमः । मुनिना मंत्रराजस्तु दत्तस्तस्मै प्रजापते ॥६॥ चातुर्मास्यप्रयोगं तं विधियुक्तं नृपस्य सः । उपदिश्य ततस्तीर्थं प्रभासं संस्थितोऽभवत् ॥७॥ अभिजित्तं प्रणम्यैव सस्त्रीकः प्रययौ महत् । तीर्थं तत्र यथायोग्यमनुष्ठानपरोऽभवत् ॥८॥ तत्र ब्रह्मा तपस्तेपे सरस्वत्या समन्वितः । स्नानार्थं सुतया युक्तः कदाचित् स जगाम ह ॥९॥ तत्रैकवस्त्रसंयुक्तां विधिर्दृष्ट्वा सरस्वतीम् । यौवनस्थां कुचाभ्यां तां रूपिणीं विस्मितोऽभवत् ॥१०॥ अकस्माज्जलमध्येऽसौ कामबाणार्दितोऽभवत् । पुत्रीभावं समागृह्य चंचलं चित्तमाददे ॥११॥ कामेनात्यंतमुग्रेण पीडितस्य जगद्गुरोः । वीर्यं तस्यास्खलत्तत्र जलमध्ये सुरेश्वर ॥१२॥ ततः सुमनसा युक्तः सत्यलोकं ययौ विधिः । प्रयोगोऽभिजितः सोऽथ समाप्तस्तद्दिनेऽभवत् ॥१३॥ सस्त्रीकः स्नानसिद्ध्यर्थं ययौ तीर्थं नृपस्तदा । तृषिता तस्य पत्नी सा जलपानरताऽभवत् ॥१४॥ दैवयोगेन तद्वीर्यं ब्रह्मणो वारिणा सह । तस्या उदरगं जातममोघ- मसुरोत्तम ॥१५॥ राजा समाप्य तत् सर्वं मंत्रानुष्ठानमादरात् । ययौ स्वनगरं पूर्णं चक्रे वै राज्यमुत्तमम् ॥१६॥ कालेन सुषुवे राज्ञी पुत्रं सा चारुहासिनी । तेजोयुक्तं महावीर्यं लक्षणैरुपशोभितम् ॥१७॥ जातकर्मादिकं राजा चकार विधिवद् द्विजैः । दत्त्वोपवीतदानं स वेदाभ्यासे मतिं ददौ ॥१८॥ स्वल्पकालेन पुत्रोऽसौ गणो नाम्ना महाबलः । वेदशास्त्रनिधि- र्जातस्ततोऽयात् स वनं स्वयम् ॥१९॥ मार्गे च सहसाऽऽगत्य शुक्रः पंचाक्षरीं ददौ । तस्मै दीक्षां शिवस्याऽसौ तथा चक्रे स भावतः ॥२०॥ शिवं ध्यात्वा तपस्तेपे महोग्रं वायुभक्षकः । दशवर्षसहस्रैस्तं ययौ भक्त्या सदाशिवः ॥२१॥ आगतं शंकरं दृष्ट्वाऽपूजयद् भक्तिभावतः । तुष्टाव विविधैस्तोत्रैर्वरदं तं जगाद सः ॥२२॥ आरोग्यादिसमायुक्तं त्रिगुणान्न भयं च मे । त्रैलोक्यराज्यमुग्रं वै देहि मे त्वं सदाशिव ॥२३॥ ओमित्युक्त्वा महादेवः स्वस्थानं प्रजगाम ह । गणश्च स्वगृहं दैत्य ययौ परमहर्षितः ॥२४॥ सर्वानानंदयामास सुहृदः पितरौ स्वकौ । ततो विजिग्ये पृथिवीं सेनया स्वेन तेजसा ॥२५॥
खं. २ अ. ७१ पान १५० ततो पित्राऽभिषिक्तोऽभूत् स्वराज्ये वनगेन सः । सपत्नीकेन भूपालो गणः स्थाने बभूव ह ॥२६॥ ततो दैत्यैः समायातैर्नानादिग्भ्यो नृपो गणः । तैर्युक्तः सकलां पृथ्वीं विजिग्ये द्वीपसंयुताम् ॥२७॥ पातालं स ततो नागैर्जिगाय बलसंयुतः । युद्धं कृत्वा महाघोरं ततः स्वर्गं ययौ गणः ॥२८॥ स्वर्गं जित्वा सहेंद्रैः स ततो ब्रह्माणमंजसा । विष्णुं शिवं क्रमेणैवाजयत्तेजःसमन्वितः ॥२९॥ ततस्तान् करदान् कृत्वा स्थापयामास देवपान् । स्वस्वस्थानेषु तत्रैकं दैत्यं न्यस्य धरां ययौ ॥३०॥ एवं त्रैलोक्यराज्यं स जित्वा सर्वांश्चकार ह । ततश्चिंतामणिं दुष्टो जहार कपिलस्य सः ॥३१॥ कपिलो गणनाथस्य भक्तः परमभाविकः । तताप स तपो घोरं गणेशस्य महात्मनः ॥३२॥ वर्षेणैकेन देवेशो ययौ मूषकवाहनः । सिद्धिवुद्धिसमायुक्तो बोधयत्तं महामुनिम् ॥३३॥ कपिलस्तं गणाध्यक्षमागतं पूजयन् प्रभुम् । तुष्टाव साश्रुनेत्रश्च प्रेमगद्गदया गिरा ॥३४॥ कपिल उवाच । नमस्ते विघ्नराजाय नमस्ते विघ्नहारिणे । अभक्तानां विशेषेण विघ्नकर्त्रे नमो नमः ॥३५॥ आकाशाय च भूतानां मनसे चामरेषु ते । बुद्धयै चेंद्रियवर्गेषु त्रिविधाय नमो नमः ॥३६॥ देहानां बिंदुरूपाय सोऽहंरूपाय देहिनाम् । तयोर्भेदभावेषु बोधाय तु नमो नमः ॥३७॥ सांख्याय वै विदेहानां सयोगानां निजात्मने । चतुर्णां पंचमायैव सर्वत्र तु नमो नमः ॥३८॥ नामरूपात्मकानां वै शक्तिरूपाय ते नमः । आत्मनां रवये तुभ्यं हेरंबाय नमो नमः ॥३९॥ आनंदानां महाविष्णुरूपिणे नेतिधारिणाम् । शंकराय च सर्वेषां संयोगे गणपाय ते ॥४०॥ कर्मणां कर्मयोगाय ज्ञानयोगाय जानताम् । समेषु समरूपाय लंबोदर नमोऽस्तु ते ॥४१॥ स्वाधीनानां गणाध्यक्ष सहजाय नमो नमः । तेषामभेदभावेषु स्वानं- दाय च ते नमः ॥४२॥ निर्मायिकस्वरूपाणामयोगाय नमो नमः । योगानां योगरूपाय गणेशाय नमो नमः ॥४३॥ शांतियोग- प्रदात्रे ते शांतियोगमयाय च। किं स्तौमि तत्र देवेश अतस्त्वां प्रणमाम्यहम् ॥४४॥ जगाद गणनाथो वै ततस्तं भक्तमुत्तमम् । हर्षेण महता युक्तो हर्षयन् मुनिसत्तमम् ॥४५॥ गणेश उवाच । त्वया कृतं मदीयं यत् स्तोत्रं योगप्रदं भवेत् । धर्मार्थ- काममोक्षाणां दायकं च न संशयः ॥४६॥ वरं वरय दास्यामि मत्तस्त्वं भक्तियंत्रितः । त्वत्समो न भवेत्तात तत्त्वज्ञान- प्रकाशकः ॥४७॥ तस्य तद्वचनं श्रुत्वा कपिलस्तमुवाच ह । त्वदीयामचलां भक्तिं देहि विघ्नेश मे पराम् ॥४८॥ त्वदीय- भूषणं दैत्यो गणो हृत्वा जगाम ह । मत्तश्चिंतामणिं नाथ जहि तं मणिमानय ॥४९॥ स्मरामि चेद्यदाऽहं त्वां तदात्मानं प्रदर्शय । एतमेव वरं पूर्णं देहि नाथ नमोऽस्तु ते ॥५०॥ गृत्समद उवाच । तस्य तद्वचनं श्रुत्वा हर्षयुक्तो गजाननः । उवाच
खं. २ अ. ७२ पान १५१ तं महाभागं प्रेमयुक्तं विशेषतः ॥५१॥ गणेश उवाच । त्वया यत् प्रार्थितं विष्णो तत् सर्वं प्रभविष्यति । तव पुत्रो भविष्यामि गणासुरवधाय च ॥५२॥ एवमुक्त्वांतर्दधेऽसौ ढुंढिराजः प्रतापवान् । मुनिस्तं हृदि संचिंत्य स्वाश्रमस्थो बभूव ह ॥५३॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खंडे एकदंतचरिते कपिलवरप्रदानं नामैकसप्ततितमोऽध्यायः ॥ ॥ श्रीगणेशाय नमः ॥ गृत्समद उवाच । ततः स्वल्पे गते काले मुनिहौमपरायणः । हुत्वाऽग्निं ध्याननिष्ठोऽभूद्गणेशस्य महात्मनः ॥१॥ ततोऽग्निकुंडमध्याद्वै गणेशो निःसृतः पुरः । चतुर्बाहुधरो रक्तः स बभौ परमश्रिया ॥२॥ सिद्धिबुद्धि- समायुक्तं सिंहगं परशोर्धरम् । एकदंतं विशालाक्षं शुंडादंडविराजितम् ॥३॥ नाभिशेषं क्वणत्पादं ददर्श कपिलः परम् । उत्थाय तं ननामाऽसौ भक्तियुक्तेन चेतसा ॥४॥ पूजयित्वा प्रतुष्टावाथर्वशीर्षभवेन वै । स्तोत्रेण तेन संतुष्टस्तमुवाच गजाननः ॥५॥ गणेश उवाच । तव पुत्रो मुनेऽहं वै जातो गणवधाय च । हनिष्यामि महादैत्यं ग्रहीष्यामि महामणिम् ॥६॥ ततस्तं मुनिशार्दूलः प्रणम्य प्रत्युवाच ह । धन्यं मे जन्म देवेश पितरौ तप आश्रमः ॥७॥ विद्या व्रतादिकं सर्वं तव पादस्य दर्शनात् । पुत्रभावेन संप्राप्तस्तारणान् मां न संशयः ॥८॥ ततस्तस्य महाभक्तिं चक्रे वै नित्यमादरात् । तेन भक्तिरहस्यं यत्तज्ज्ञात्वा दुःखितोऽभवत् ॥९॥ ततः स्वात्मानमत्युग्रं निंदयामास मानसे । अहो मानबरूपोऽहं शांतियोगेन संगतः ॥१०॥ मया ज्ञानमदेनैव गले चिंतामणिर्धृतः । गणेशवन्न संदेहस्तद्भक्त्या हीनचेतसा ॥११॥ देवस्य समता नैव कर्तव्या भजनार्थिना । ब्रह्मणस्पतिनामा स गणेशश्चैकराट् बभौ ॥१२॥ तस्य देहे मदर्थं वै सत्ता पूर्णा प्रवर्तते । योगिदेहेन सा सत्ता तस्मात्तं भजते महान् ॥१३॥ चिंतामणिर्मया प्राप्तः पूजायां स्थापितो न सः । गले धृतो मया मोहाद्धत- श्चिंतामणिर्ध्रुवम् ॥१४॥ देवस्य भक्तिमाहात्म्यात् प्राप्तं भक्तेन भूषणम् । वस्त्रं वाहनकार्यं च पूजनीयं न संशयः ॥१५॥ गंधपुष्पादिकं तस्योच्छिष्टं धार्यं विशेषतः । नैवेद्यं भक्षणीयं वै सदा भक्त्याऽऽदरेण च ॥१६॥ न देवसमता कार्या दासैर्वै नित्यमादरात् । भययुक्तेन संसेवा कार्या भक्तेन धीमता ॥१७॥ मदीयसंगतश्चिंतामणिश्चाहो सुदुःखितः । गतो दैत्यकरे साक्षादसुरस्तं प्रपीडयेत् ॥१८॥ अतो गणेशमत्यंतं प्रार्थयामि वधाय च । गणस्य तद्वधाच्चिंतामणिः सद्यः
[header] खं. २ अ. ७२ पान १५२ [/header]
सुलभ्यते ॥१९॥ विचार्येति स योगींद्र एकदंतं जगाद च । स्वामिन् हत्वा गणं शीघ्रं मणिमानय विघ्नप ॥२०॥ कपिलस्य वचः श्रुत्वा हृष्टस्तं त्वेकदंतकः । जगाद ते प्रियं तात करिष्यामि न संशयः ॥२१॥ एकदंतेन तद्रात्रौ स्वप्नो दत्तो गणस्य च । स्वप्नेन भ्रांतारूपोऽभूद्विचारमकरोत् स्वयम् ॥२२॥ सिंहारूढश्चतुर्बाहुः कुंजराननधारकः । परश्वधधरः क्रूरः कोऽयं स्वप्ने प्रदर्शितः ॥२३॥ कपिलेन समादिष्टो मस्तकं मे च सोऽच्छिनत् । मणिं समागृह्य ददौ कपिलाय महात्मने ॥२४॥ अयं स्वप्नो मया दुष्टो दृष्टः किं वा भविष्यति । अतः कपिलनाशार्थं यामि सैन्यसमन्वितः ॥२५॥ ततो धृत्वा च शस्त्रादीन् नानावीरसमन्वितः । रात्रौ कपिलमुग्रोऽसौ ययौ हंतुं तदाश्रमम् ॥२६॥ प्रभाते दैत्यराजः स संप्राप्तः कपिलाश्रमम् । शिष्यैर्दृष्टो महादुष्टः कपिलं ते ययुस्ततः ॥२७॥ स्वामिन् समागतो दैत्यो गणनामा ससैनिकः । ऊचुः शिष्याः प्रणम्यैनं कपिलं भयसंयुताः ॥२८॥ ततो गणपतिं नत्वा वधार्थं तस्य वै मुनिः । प्रार्थयामास शीघ्रं स गणस्य विनयान्वितः ॥२९॥ ततः क्रुद्धो गणेशानः सिंहारूढो ययौ गणम् । गणेन पुरुषो दृष्टः स्वप्नगः स च निश्चितम् ॥३०॥ ततो गणेन योधाश्च दैत्येशाः प्रेरिता रणे । उदायुधा महोग्रास्त आययुर्देवसंनिधिम् ॥३१॥ तान् दृष्ट्वा कुपिता देवी सिद्धिर्वामांगसंस्थिता । गणेशं मनसि ध्यात्वा पुत्रं सा निर्ममेऽतुलम् ॥३२॥ तेन सर्वं हतं सैन्यं प्रेरितेन गणस्य वै । सिद्ध्या पलायत ततः सैन्यं तस्य दिशो दश ॥३३॥ विजयी पुरुषः सोऽपि गणेशं प्रणनाम ह । सस्त्रीकं तेन नाम्ना स कृतो लक्ष इति प्रभुः ॥३४॥ जगति ब्रह्मणि त्वं वै तिष्ठ सर्वत्र पुत्रक । नरेण यादृशं लक्षं क्रियते भुंक्ष्व तादृशम् ॥३५॥ हृदि लक्षप्रतापी त्वं सर्वेभ्यो नाऽत्र संशयः । सिद्धिपुत्र महाभाग मद्भक्तान् रक्ष यत्नतः ॥३६॥ बुद्धिपुत्रः स्वयं लाभः फलदाता भविष्यति । अनुसारेण लक्ष्यस्य तव भ्राता महाबलः ॥३७॥ भुक्तौ मुक्तौ तथा पापे हृदि ब्रह्मणि जंतवः । लक्षं कुर्वति ये तेषां लाभश्चैतादृशो भवेत् ॥३८॥ एवमुक्त्वा स्वपुत्रं तं लक्षमेकरदस्ततः । युद्धाय स ययौ तत्र यत्र दैत्याधिपोऽभवत् ॥३९॥ तमागतं स विज्ञाय प्रतापी स गणासुरः । हंतुं शस्त्रममोघं यदाददे धनुषि स्वयम् ॥४०॥ तावच्च गणराजेन पर्शुना तूर्गवेणिना । दैत्यराजगणस्यैव शिरश्छिन्नं पपात सः ॥४१॥ हाहाकृत्वाऽसुराः सर्वे पातालं विविशुस्ततः । देवा हर्षयुताः सर्वे मुनयस्ते ययुर्विभुम् ॥४२॥ कपिलं सांत्वयामासागृह्य दत्वा मणिं पुनः । कपिलायैकदंतस्तु कपिलः प्रणनाम तम् ॥४३॥ जगाद भक्तिसंयुक्तः कपिलो गणनायकम् । स्वामिंस्त्वदीयमेतद्वै भूषणं तद् गृहाण भोः ॥४४॥ अस्माभिः पूजनीयं
खं. २ अ. ७३ पान १५३
तद्योग्यं धारणे प्रभो । अतस्त्वमेव विभ्रंश स्वगले धारयस्व तत् ॥४५॥ चित्ते निवासिना स्वामिंस्त्वया ज्ञातमतः प्रभो । मदीयं चिंतितं सर्वं तादृशं सफलं कृतम् ॥४६॥ अतस्ते भविता चिंता मणिर्नाम न संशयः । एवमुक्त्वा स्वयं तस्यारोपयच्चं मणिं गले ॥४७॥ ततः स मणिमादाय स्वानंदं चैकदंतकः । अंतर्धानं चकाराऽपि देवेशा विस्मिता ययुः ॥४८॥ कपिलेन सदा ध्यानबलेन हृदये विभुः । चिंतामणिः सुभावेन पूजितस्तत्त्वबोधिना ॥४९॥ एवं गणासुरं हत्वा भक्तिं दत्वा सुरेश्वर । कपिलायैकदंतस्तु चक्रे वै साधुरक्षणम् ॥५०॥ इदमेकरदस्यैव चरितं सर्वदं परम् । शृणुयात् सर्वपापघ्नं पठेद्वा तस्य संभवेत् ॥५१॥
॥ ओमिति श्रीमदंत्ये पुराणोपनिषदि श्रीमन्महोद्दले महापुराणे द्वितीये खंडे एकदंतचरिते गणासुरवधो नाम द्विसप्ततितमोऽध्यायः ।
❖❖❖
॥ श्रीगणेशाय नमः ॥ गृत्समद उवाच । एवं नानावतारा य एकदंतस्य धीमतः । तेषां चरित्रविस्तारं मया वक्तुं न शक्यते ॥१॥ यत्र वेदादयो दैत्य न समर्था भवंति वै । तत्र कोऽहं महासाद्यो स्वल्पबुद्धिप्रधारकः ॥२॥ गणेश एकदंतोऽयं सोऽहं ब्रह्माणि संस्थितः । देहिनां ज्ञानदाने च स्वस्वव्यापारके प्रभुः ॥३॥ एकदंतः स सर्वेशः पूर्णयोगस्य धारकः । तत्रार्थांतरभावेन ज्ञातव्यो विबुधैः परः ॥४॥ एकवाच्या महामाया तत्र सत्ताप्रधारकः । दंतश्च मायिकः प्रोक्तस्तयोर्योगे हि स स्मृतः ॥५॥ तं भजस्व महाभाग प्रह्लाद विधिपूर्वकम् । नष्टशापश्च भावी त्वमेकदंतप्रसादतः ॥६॥ मुद्गल उवाच । पुनर्गृत्समदं प्राह प्रह्लादो विनयान्वितः । गणेशज्ञानभोगार्थं वैष्णवानां शिरोमणिः ॥७॥ प्रह्लाद उवाच । विष्णुभक्तोऽहमत्यंतं मुने जन्मादितः खलु । अतः केन प्रकारेण भजामि गणनायकम् ॥८॥ सर्वज्ञस्त्वं विशेषेण पृच्छामि त्वामतः प्रभो । वद सर्वं गणेशस्य योगसाधनमुत्तमम् ॥९॥ गृत्समद उवाच । गणेशस्यावताराश्च चत्वारः परिकीर्तिताः । गौणांस्तांस्ते वदाम्यहं संशयच्छेदनाय वै ॥१०॥ स्वानंदGeneric/नगरे देवो गणेशानः प्रतिष्ठते । स्वयं ससर्ज लीलार्थं जगद्रूपा सुरेश्वर ॥११॥ तेषु नानाविधां क्रीडां करोति गणनायकः । जगत्सु ब्रह्म जानीहि स त्वं तं योगसेवया ॥१२॥ स ब्रह्माणि चतुर्थो वै जातः क्रीडार्थमादरात् । पंचमो निजलोकस्थस्तेषां संयोगधारकः ॥१३॥ चतुरो मोहयित्वा वै मायया स गणेश्वरः । तिष्ठति
खं. २ अ. ७३ | पान १५४ स्वस्वरूपेण तेषां हृदि गजाननः ॥१४॥ नामरूपात्मकेष्वेव ब्रह्म यत् परितिष्ठति । जानीहि वेदेषु तदसद्रूपं शक्ति- वाचकम् ॥१५॥ तेष्वात्माऽमृतरूपश्च भानुः सद्द्रूपवाचकः । तयोर्भेदभावेष्वानन्दो विष्णुः स उच्यते ॥१६॥ त्रिष्व- व्यक्तस्वरूपं यन्नेति कर्ता विशेषतः । निर्मोहः शिव एवाऽसौ तुर्यो वेदे प्रकथ्यते ॥१७॥ चतुर्णां चैव संयोगे स्वानंदः परिकीर्तितः । तद्ब्रह्म गणनाथोऽयं नानाखेलकरोऽभवत् ॥१८॥ एवं तस्यावताराश्च चत्वारः परिकीर्तिताः । चतुर्भाव- प्रसिद्धयर्थं गौणरूपास्ततोऽभवन् ॥१९॥ आनंदात्मकलांशेन विष्णुं गणरूपिणम् । जानीहि तं गणेशानान्न भिन्नं दानवोत्तम ॥२०॥ चतुर्णां भजनेनैव मनः शुद्धिमवाप्नुयात् । ततो गाणेशयोगे सोऽधिकारी भवति स्वयम् ॥२१॥ यथाऽऽश्रम- विभागेन नरः क्रमपरायणः । एकं त्यक्त्वा स गृह्णाति द्वितीयं भक्तिसंयुतः ॥२२॥ अंते योगी स शांतिस्थ आश्रमै रहितो भवेत् । तद्वत् क्रमेण गाणेशा भवेयुर्वैष्णवादिकाः ॥२३॥ अधुना शृणु देवस्य साधनं योगदं परम् । साधयित्वा स्वयं योगी भविष्यति न संशयः ॥२४॥ स्वानंदः स विहारेण संयुक्तश्च विशेषतः । सर्वसंयोगकारित्वाद्गणेशो मायया युतः ॥२५॥ विहारेण विहीनश्चायोगो निर्मायिकः स्मृतः । संयोगाभेदहीनत्वाद्व्रव्ह्वा गणनायकः ॥२६॥ संयोगायोगयोर्योगः पूर्णयोगः प्रकीर्तितः । प्रह्लाद गणनाधस्तु पूर्णो ब्रह्ममयः परः ॥२७॥ योगेन तं गणाधीशं प्राप्नुवंतीह योगिनः । तं विद्धि पूर्णभावेन संयोगायोगवर्जितम् ॥२८॥ तस्य माया द्विधा प्रोक्ता सिद्धिर्बुद्धिश्च दैत्यप । बुद्धिः सा पंचधा जाता चित्तरूपा स्वभावतः ॥२९॥ क्षिप्तं मूढं च विक्षिप्तमेकाग्रं च निरोधकम् । पंचधा चित्तवृत्तिश्च सा माया गणपस्य वै ॥३०॥ क्षिप्तं मूढं च चित्तं यत् कर्मण्यपि विकर्मणि । संस्थितं तेन विश्वं वै चलति स्वस्वभावतः ॥३१॥ अकर्मणि च विक्षिप्तं चित्तं जानीहि मानद । तेन मोक्षमवाप्नोति शुक्लगत्या न संशयः ॥३२॥ एकाग्रमष्टधा चित्तं तदेवैकात्मनि स्थितम् । संप्रज्ञात- समाधिस्थं साधु जानीहि सत्तम ॥३३॥ निरोधसंज्ञितं चित्तं निवृत्ते रूपधारकम् । असंप्रज्ञातयोगस्थं जानीयाद्योग- सेवया ॥३४॥ पंचधा चित्तवृत्तिश्च बुद्धिरूपा प्रकीर्तिता । माया सा गणनाधस्य त्यक्तव्या योगसेवया ॥३५॥ सिद्धिर्नाना- विधा प्रोक्ता भ्रांतिदा तत्र संमता । सिद्ध्यर्थं तत्र लोकाश्च भ्रमयुक्ता भवंत्यतः ॥३६॥ धर्मार्थकाममोक्षाणां सिद्धिर्भिन्ना प्रकीर्तिता । ब्रह्मभूतकरी सिद्धिस्त्यक्तव्या पंचधा सदा ॥३७॥ मोहदा सिद्धिरत्यंतं मोहधारकतां गता । बुद्धिश्चैव स सर्वत्र ताभ्यां खेलति विघ्नपः ॥३८॥ बुद्ध्या यद् बुध्यते तत्र पश्चान् मोहः प्रवर्तते । अतो गणेशभक्त्या स मायाभ्यां
यहाँ प्रस्तुत पृष्ठ का देवनागरी में पंक्ति-वार (Line-by-Line) प्रतिलेखन है:
खं. २ अ. ७४ \hspace{10cm} पान १५५
वर्जितो भवेत् ॥३९॥ पंचधा चित्तवृत्तिं च पंचधा सिद्धिमादरात् । त्यक्त्वा गाणेशयोगेन गणेशं भज भावतः ॥४०॥ ततः स गणराजस्य मंत्रं तस्मै ददौ स्वयम् । गणानां त्वेति वेदोक्तं स विधिं मुनिसत्तमः ॥४१॥ तेन संपूजितो योगी प्रह्लादेन महात्मना । ययौ गृत्समदो दक्ष स्वगलोकं विहायसा ॥४२॥ प्रह्लादश्च तथा साधुः साधयित्वा विशेषतः । योगी योगींद्रवंद्यः स शांतिसंधारकोऽभवत् ॥४३॥ विरोचनाय राज्यं स ददौ पुत्राय दैत्यपः । गणेशभजने योगी संसक्तः सर्वदाऽभवत् ॥४४॥ सगुणं विष्णुरूपं च निर्गुणं ब्रह्मवाचकम् । गणेशेन धृतं सर्वं कलांशेन न संशयः ॥४५॥ एवं ज्ञात्वा महायोगी प्रह्लादोऽभेदमाश्रितः । हृदि चिंतामणिं ज्ञात्वाऽभजच्चानन्यभावतः ॥४६॥ स्वल्पकालेन दैत्येंद्रः शांतियोग- परायणः । शांतिं प्राप्तो गणेशे चैकभावः सोऽभवत्परः ॥४७॥ शापश्चैव गणेशेन प्रह्लादस्य निराकृतः । न पुनर्दुष्टसंगेना- ऽभवद् भ्रांतः स मानद ॥४८॥ एवं मदं परित्यज्यैकदंतस्य समाश्रयात् । असुरोऽपि महायोगी प्रह्लादः संबभूव ह ॥४९॥ एतत् प्रह्लादमाहात्म्यं यः शृणोति नरोत्तमः । पठेत्तु तस्य वै दक्ष भवेदीप्सितदायकम् ॥५०॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खंडे एकदंतचरिते गृत्समदप्रह्लादसंवादसमाप्तिवर्णनं नाम त्रिसप्ततितमोऽध्यायः ॥ ॥ श्रीगणेशाय नमः ॥ दक्ष उवाच । एकदंतस्य यत् क्षेत्रं संक्षेपेण मया श्रुतम् । यात्रादि विस्तरेणैव कथयस्व महामुने ॥१॥ मुद्गल उवाच । अग्निकोणे दिशां प्रांते स्वस्वखंडेषु मानद । एकदंतस्य च क्षेत्रं ज्ञातव्यं जलधेस्तटे ॥२॥ दश योजनविस्तारं समंतात्तत्र मध्यगः । एकदंतो गणेशानः पूज्यते सिद्धसाधकैः ॥३॥ तद्वामांगे स्वयं सिद्धिर्दक्षिणांगे प्रजापते । बुद्धिश्च मूषकस्तस्य समीपे संस्थितः प्रभोः ॥४॥ सिद्धयोऽष्टौ पुरस्तस्य संस्थिता भक्तिकारिकाः । वामे देवादयः सर्वे भक्त्या तिष्ठंति संयुताः ॥५॥ दक्षिणांगे च वेदादि शास्त्राणि प्रस्तुवंति तम् । पृष्ठे काश्यादि क्षेत्राणि तीर्थानि च भजंति तम् ॥६॥ श्रेष्ठस्वरूपकाः संस्थाः सर्वे त्रिभुवनेषु ये । ते क्षेत्रवासिनो भूत्वा भजंते त्वेकदंतकम् ॥७॥ समुद्रे स्नानकर्तारः स्वस्वनामांकितेषु वै । तीर्थेषु सूक्ष्मरूपेषु सूक्ष्मरूपधराः सदा ॥८॥ तत्रैकदंततीर्थं वै सर्वलोकेषु विश्रुतम् । दर्शनात् सर्वपापघ्नं भुक्तिमुक्तिप्रदं भवेत् ॥९॥ भाद्रशुक्लचतुर्थ्यां महोत्सवस्तत्र वर्तते । यात्रार्थं सर्वलोकश्च त्रिलोकस्था
यहाँ दिए गए पृष्ठ का पंक्ति-दर-पंक्ति देवनागरी लिप्यंतरण प्रस्तुत है:
खं. २ अ. ७४ पान १५६ व्रजंति तम् ॥१०॥ ब्रह्मभूयकरं क्षेत्रं गाणेशं शास्त्रसंमतम् । मरणे तत्र संप्राप्ते स्वानंदे वसतिर्भवेत् ॥११॥ संक्षेपेण मया प्रोक्तं यत्क्षेत्रस्य यशोऽमलम् । अयुतायुतवर्षैश्च विस्तारे कः क्षमो भवेत् ॥१२॥ एतच्चरित्रमाद्यं वै कथितं ते महामते । एकदंतस्य माहात्म्यं संक्षेपेण तथा मया ॥१३॥ विस्तरेण न शेषोऽपि ब्रह्मा विष्णुर्महेश्वरः । शुको नैव समर्थश्च भवेत् कथयितुं कदा ॥१४॥ य एतदेकदंतस्य चरित्रं सर्वसिद्धिदम् । शृणुयाच्छावयेद्वापि पठेत् स लभतेऽखिलम् ॥१५॥ पुत्रपौत्रादिकं सर्वं धनधान्यसमन्वितम् । कलत्रं सुखदं जंतुर्लभते नात्र संशयः ॥१६॥ अनेन भावसंयुक्त एकदंतं प्रजापते । नित्यं स्तुयात् स एवैकदन्तरूपो धरातले ॥१७॥ तस्य दर्शनमात्रेण कृतकृत्या भवंति च । देवादयो न संदेहो ब्रह्माकारस्वरूपिणः ॥१८॥ श्रवणेनैव खंडस्य कृतकृत्यो नरो भवेत् । नारी वा पशुरूपो वा निश्चितं मुनिभिः पुरा ॥१९॥ सर्वतीर्थेषु यः स्नायात् सर्वदानं करोति यः । तपांसि यस्तपेन्नित्यं यात्राः सर्वाः करोति यः ॥२०॥ इष्टापूर्तादिकं सर्वं कुरुते भक्तिसंयुतः । तेभ्यः संश्रवणात् पुण्यं लभेदस्य शताधिकम् ॥२१॥ धर्मार्थकाममोक्षान् वै लभते श्रवणेन च । खंडस्यास्य न संदेहो ब्रह्मभूतो भवेन्नरः ॥२२॥ यद्यदिच्छति तत्तद्वै सफलं प्रभवेत् सदा । श्रवणेनैकदंतस्य चरित्रस्य नरो महान् ॥२३॥ संपूर्णो महिमा दक्ष न वक्तुं शक्यते मया । ब्रह्मादिभिश्च तस्मात्ते कथितं सारमंजसा ॥२४॥ सूत उवाच । एवमुक्त्वा महायोगी मुद्गलो विरराम ह । दक्षस्तं हर्षितोऽत्यंतं प्रणनाम कृतांजलिः ॥२५॥ महोदरस्य माहात्म्यश्रवणे लालसी स्वयम् । दक्षस्तं पुनरप्याह तदग्रे वर्णयाम्यहम् ॥२६॥ एतच्छौनक मुख्यं ते चरित्रं कथितं मया । यथा दक्षेण सर्वं वै मुद्गलात् संश्रुतं तथा ॥२७॥ सर्वसिद्धिकरं प्रोक्तमेकदंतचरित्रकम् । श्रुतं भावेन भो विप्र किं भूयः श्रोतुमिच्छसि ॥२८॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदंतचरिते चरितमाहात्म्यं नाम चतुःसप्ततितमोऽध्यायः ॥ ॥ इति द्वितीयः खंडः समाप्तः ॥
॥ इति श्रीमुद्गलपुराणे द्वितीयः खंडः समाप्तः ॥
॥ अथ श्रीमुद्गलपुराणे तृतीयः खंडः प्रारभ्यते ॥
खं. ३ अ. १ पान १ ॥ श्रीगणेशाय नमः ॥ शौनक उवाच । सूत सर्वार्थतत्त्वज्ञ तारितोऽहं त्वया द्विज । गणेशचरितं पुण्यं श्रावितं परमाद्भुतम् ॥१॥ एकदंतस्य माहात्म्यं श्रुतं त्वत्तो द्विजोत्तम । यथा नरः सुधापानात् न तृप्तोऽहं तथाऽभवम् ॥२॥ महोदरस्य माहात्म्यमधुना वद विस्तरात् । कीदृशोऽयं गणेशस्तु कति तस्यावतारकाः ॥३॥ कुरुक्षेत्रं महत्तस्य कस्माद्भूतौ समागतः । इत्यादि सर्वमत्यंतं माहात्म्यं वद तस्य मे ॥४॥ सूत उवाच । शृणु शौनक विप्रेंद्र धन्योऽस्यत्र न संशयः । विवर्धयसि ढुंढेस्त्वं रहस्यं परमाद्भुतम् ॥५॥ अतोऽहं हर्षितः सर्वं कथयिष्यामि विस्तरात् । महोदरस्य माहात्म्यं यथा व्यासाच्छ्रुतं मया ॥६॥ दक्षेणाऽपि तथा पृष्टं यथा त्वं मां प्रपृच्छसि । मुद्गलेन यथा प्रोक्तं तथैव त्वां ब्रवीम्यहम् ॥७॥ दक्ष उवाच । त्वया मुद्गल योगींद्र तारितोऽहं विशेषतः । मंगलायतनां पूर्णां कथां वदसि मानद ॥८॥ अधुना वद मे ब्रह्मन् महोदरचरित्रकम् । विस्तरेण महाभाग भवबंधविमोचनम् ॥९॥ मुद्गल उवाच । धन्योऽसि दक्ष येन त्वं गणेशामृतसत्कथाम् । भावयुक्तश्च पिबसि संक्षेपेण ब्रवीमि ते ॥१०॥ महोदरस्य माहात्म्यं विस्तरेणैव वर्णितुम् । भुवनेष्वर्हति च कः सर्वसिद्धिप्रदायकम् ॥११॥ एवमेव पुरा पृष्टो वालखिल्यैर्महात्मभिः । सूर्यस्तानब्रवीच्च तदेव शृणु यत्नतः ॥१२॥ दक्ष उवाच । कथं स वालखिल्यैश्च पृष्टो भानुर्महायशाः । तत्सर्वं विस्तरेणैव वक्तुमर्हसि मुद्गल ॥१३॥ मुद्गल उवाच । रथस्थं भास्करं नित्यं महर्षय उपासते । वालखिल्या महाभागा भक्तियुक्तेन चेतसा ॥१४॥ तत्र सूर्यं गणेशस्य कीर्तने निरतं मुदा । दृष्ट्वा पप्रच्छुरादित्यं विस्मिता वालखिल्यकाः ॥१५॥ भानो त्वं ब्रह्मरूपश्च वेदेषु प्रतिपादितः । एक एवाद्वितीयाख्योऽमृतात्मा नात्र संशयः ॥१६॥ त्वदीयभजनेनैव सिद्धाः परमयोगिनः । विष्णुमुख्याः सुरेशाना भवंति विविधा जनाः ॥१७॥ कर्मणां मूलरूपेण सगुणस्त्वं विभासि वै । ज्ञानरूपेण सर्वत्र निर्गुणोऽसि दिवाकर ॥१८॥ त्वत्तः परतरं नास्ति वेदादिषु विशेषतः । तदपि त्वं विशेषेण भजसे गणनायकम् ॥१९॥ कोऽसौ गणेशानामा वै तं कथं भजसे वद । मोहयुक्ता वयं जातास्तव दृष्ट्वा चिकीर्षितम् ॥२०॥ अतो नस्तेजसां नाथ वद तत्त्वं यथातथम् । कस्माद्भ्रामयसे सर्वान् गणेशस्त्वनेन वै ॥२१॥ मुद्गल उवाच । इति पृष्टो महातेजाः सूर्य आत्मा शरीरिणाम् । जगाद सकलं तेभ्यस्तच्छृणु त्वं प्रजापते ॥२२॥ सूर्य उवाच । वालखिल्या महाभागाः शृणुध्वं सर्वसंमताः । चरितं गणनाथस्य भविष्यथ च योगिनः ॥२३॥ अहमात्मा च वेदेषु कथितो नात्र संशयः । तत्र ज्ञानं वो वदामि भ्रमनाशकरं महत् ॥२४॥ असत्यं ब्रह्म यत् प्रोक्तं तन्नाहं जीवधारकः । एक एवाद्वितीयश्च सत्यरूपो महर्षयः ॥२५॥