मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 274, कुल 1023 में से
संदर्भ में पढ़ेंखं. २ अ. ७० पान १४८
बबंध गणराजवत् ॥२५॥ गते कियति काले वै कपिलस्याश्रमं ययौ । मृगयाभिरतो दैत्यो गणासुर इति स्मृतः ॥२६॥ सेनां बहिः समास्थाप्य एकाकी मुनिमाययौ । कपिलं प्रणनामैव कृतांजलिपुटः स्थितः ॥२७॥ विनीतं तं विलोक्यैव कपिलस्तमुवाच ह । कोऽसि कस्मादिहाऽऽयातो वद सर्वं नरोत्तम ॥२८॥ गणासुर उवाच । गणासुर इति ख्यातो नाम्नाऽहं मुनिसत्तम । मृगयाभिरतो ह्यत्र दैवेनैवोपसादितः ॥२९॥ तवाश्रमे क्षुधायुक्तः श्रांतवाहन एव च । ससैन्यः सहसाऽऽगत्य संतृप्तः सुखदायके ॥३०॥ जलं फलान्यहं पीत्वा भक्षयित्वा ससैनिकः । दर्शनार्थं समायातः सेना मे सरसि स्थिता ॥३१॥ त्वद्दर्शनेन निष्पापो जातोऽहं मुनिसत्तम । आज्ञां देहि गमिष्यामि ससैन्यो नगरं स्वकम् ॥३२॥ तस्य तद्वचनं श्रुत्वा संतुष्टः कपिलोऽवदत् । ससैन्यो भुंक्ष्व किंचित्त्वं महत्तं नृपसत्तम॥३३॥ ममाश्रमे च दैत्येंद्र क्षुधितस्त्वं समागतः । अतस्त्वां प्रार्थये भूप अतिथिं सुसमागतम् ॥३४॥ तथेति संस्थितस्तत्र गणदैत्यः प्रतापवान् । उक्त्वा विनयसंयुक्तः कपिलेन सुसत्कृतः ॥३५॥ ततः कपिलशिष्येण सेनाऽऽनीता गणस्य वै । सेनया सह दैत्येशं पूजयामास तं मुनिः ॥३६॥ चिंतामणिं स संपूज्य प्रार्थयामास भोजनम् । यथारुचि च सर्वेषां तथा देयं महामणे ॥३७॥ ततो मणिप्रसादेन षड्रसैः संयुतं परम् । स्थितं पात्रेषु सर्वत्र प्रेषितं त्वन्नमादरात् ॥३८॥ ततस्तैर्भुक्तमत्यंतं स्वादयुक्तं विशेषतः । ससैन्यो गणदैत्योऽभूद्विस्मितो चेतसा भृशम् ॥३९॥ मुनिं प्रणम्य दैत्येश आर्थयत्तं महामणिम् । न ददौ तं मुनिश्रेष्ठो गाणेशं भूषणं मणिम् ॥४०॥ ततो मुनिं तिरस्कृत्य हस्तात्तस्य प्रगृह्य तम् । मणिं स प्रययौ स्थानं हर्षनिर्भरमानसः ॥४१॥ मुनिः क्षुब्धो महाभाग तस्य नाशाय दुर्मतेः । विचारमकरोचित्ते मणिग्रहणलालसः ॥४२॥ सुसाधुवदहो दैत्योऽविनीतः सुसमागतः । चकार कर्म प्रह्लाद पश्य तत् जातिवत् परम् ॥४३॥ अतो दुष्टोऽविनीतश्च न विश्वास्यः कदाचन । दुष्टसंगतियोगेन ज्ञानभ्रंशः प्रजायते ॥४४॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खंडे एकदंतचरिते चिंतामणिहरणं नाम सप्ततितमोऽध्यायः ॥