मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 273, कुल 1023 में से
संदर्भ में पढ़ें॥ श्रीगणेशाय नमः ॥ गृत्समद उवाच । एकदा कपिलस्यैवाश्रमं देवपतिर्ययौ । सर्वामरसमायुक्तस्तं ननाम कृतांजलिः ॥१॥ अपराह्ने च संप्राप्तमिंद्रं दृष्ट्वा महामुनिः । न्यमंत्रयत् क्षुधायुक्तं सर्वैर्योगीश्वरो मुदा ॥२॥ सिद्धियुक्तं गणेशानं ध्यात्वा ह्यमृतमुत्तमम् । देवार्थं कल्पयित्वा स भोजयामास तेन तान् ॥३॥ पृथिव्यमृतभोगेन संतुष्टः सुरनायकः । मुनये वायुनाऽऽनाय्य प्रददौ मणिमुत्तमम् ॥४॥ गणेशभूषणं चिंतामणिर्मुख्यं प्रकथ्यते । योगी धृत्वा तमात्मानं मन्यते स्म कृतार्थकम् ॥५॥ कपिलस्तत्र मनसि विचारमकरोत् परम् । गणेशोऽहं न भिन्नश्च योगमार्गपरायणः ॥६॥ अतो गणेश- देवेन प्रेरितोऽयं मणिर्महान् । कंठे च तं बबंधाऽसौ यथा गणपतिस्तथा ॥७॥ तं दृष्ट्वा हर्षिता देवा सेन्द्राः स्वस्वस्थलं ययुः । कपिलः स्वाश्रमे तत्र संस्थितो मणिसंयुतः ॥८॥ प्रह्लाद उवाच । स्वानंदवासकारी च गणेशो ब्रह्मनायकः । तस्येन्द्रेण मणियोंगिन् कथं लब्धो वदस्व माम् ॥९॥ गृत्समद उवाच । शृणु प्रह्लाद माहात्म्यं चिंतामणिसमुद्भवम् । कथयामि च ते प्रीत्या सर्वपापप्रणाशनम् ॥१०॥ एकदा विष्णुना पूर्वं तपस्तप्तं सुदारुणम् । तेन शांतिरनुप्राप्ता षडक्षरविधानतः ॥११॥ तस्मै भक्तिपरीक्षार्थं ददौ चिंतामणिं प्रभुः । गणेशो भक्तिदानार्थं चिंतितार्थप्रदायिनम् ॥१२॥ विष्णुना पूजने क्षिप्तो मणिंश्चितामणिः प्रभो । अहं भक्तो गणेशस्य न योग्यो धारणे मणिः ॥१३॥ भूषणं गणनाथस्य पूजनीयं विशेषतः । न धार्यं देवदासैस्तत् पूजा कार्या च नित्यदा ॥१४॥ शांतियोगेन विघ्नेशो मया हृदि हृतः स्वके । न भिन्नस्तदपि स्वामी स दासोऽहं स्वभावतः ॥१५॥ ततो बहुगते काल इन्द्रस्तपसि संस्थितः । एकाक्षरविधानेनाऽतोषयद्गणनायकम् ॥१६॥ बभूव युक्तो ध्यानेन सततं देवनायकः । योगयुक्तः क्रमेणैव गाणपत्यो बभूव सः ॥१७॥ शांतिं प्राप्य स्वयं देवो गणेशाभेदतां गतः । आययौ स्वगृहं पश्चाद् देवराज्यं चकार ह ॥१८॥ एतस्मिन्नंतरे दैत्यगृहे शुश्राव केशवः । अशरीरां महावाणीं शृणु तत् कथयामि ते ॥१९॥ चिंतामणिं महाविष्णो देहीन्द्राय महामते । शांतियोगधरायाद्य मद्भक्ताय ददाम्यहम् ॥२०॥ श्रुत्वाऽऽकाशभवां वाणीं ययौ विष्णुर्ददौ परम् । महेंद्रायमरावत्यां मणिं तं चिंतितार्थदम् ॥२१॥ मघवा दासभावेन संस्थाप्याऽपूजयन् मणिम् । न योगमदतां प्राप्तो महेंद्रश्च प्रतापवान् ॥२२॥ तं मणिं कपिलं दृष्ट्वा शांतियोगधरं प्रभुम् । ददौ तस्मै महेंद्रः स भावयुक्तेन चेतसा ॥२३॥ अयं सिद्धेश्वरः साक्षाद्योग्यः संधारणे मणेः । वयं गृहस्थसंशीला न योग्या इत्यधारयत् ॥२४॥ एवं क्रमेण जानीहि चिंतामणिसमागमम् । कपिलः स्वगले नित्यं