मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 272, कुल 1023 में से
संदर्भ में पढ़ेंखं. २ अ. ६९ पान १४६ न योगे कस्यचिद्भावो ब्रह्मणश्च प्रजापते ॥३२॥ गृत्समद उवाच । एवं पुत्रं वदंतं स प्रणिपत्य महामुनिः । उवाच कर्दमो यज्ञं योगेप्सुः परमादृतः ॥३३॥ कर्दम उवाच । केनोपायेन भो वत्स योगशांतिः प्रलभ्यते । तदर्थं पूजनीयं किं तद्वदस्व जनार्दन ॥३४॥ कपिल उवाच । गणेशभजनं मुख्यं शांतियोगप्रदं मतम् । योगाकारस्वरूपं तं ब्रह्मेशं भज मानद ॥३५॥ सर्वादिः सर्वपूज्योऽयं सर्वाधारो महामुने । य आदिः प्रलयांते स तिष्ठति श्रुतिसंमतम् ॥३६॥ ज्येष्ठराजं गणेशानं वेदेषु प्रवदंति तम् । गणाः समूहरूपाश्च तेषां स्वामी प्रकथ्यते ॥३७॥ नानाजगत्स्वरूपं वै देहरूपं कृतं मुने । महात्मना तेन कृतं नानाब्रह्ममयं शिरः ॥३८॥ यस्माज्जातंमिदं यन्नांते गच्छति महामते । तद्वेदे गजशब्दाख्यं शिरस्तेन गजाननः ॥३९॥ त्रिविधं भेदयुक्तं यदखंडं वै तुरीयकम् । तयोर्योगे गणेशोऽयं देहमस्तकयोगतः ॥४०॥ चित्तं पंचविधं प्रोक्तं तत्र मोहश्च पंचधा । मोहरूप महासिद्धिर्बुद्धिर्वै मोहधारिका ॥४१॥ तयोः स्वामी गणाधीशश्चित्ते नित्यं प्रतिष्ठितः । चिंतामणिर्महाभागो लभ्यते योगसेवया ॥४२॥ पंचधा चित्तमुत्सृज्य तदैश्वर्यं तथैव च । योगशांतिमयः सद्यः प्राप्यते ब्रह्मणस्पतिः ॥४३॥ तस्मात्तं भज मंत्रेणैकाक्षरेण महामुने । तेन तुष्टो गणेशानो योगं दास्यति शांतिदम् ॥४४॥ एवमुक्त्वा महायोगी कपिलस्तत्त्व- धारकः । विरराम महासाधो विष्णुः प्रह्लाद सोऽव्ययः ॥४५॥ ततः प्रणम्य तं पुत्रं कपिलं कर्दमो मुनिः । ययौ तपोवनं सद्यस्तताप परमं तपः ॥४६॥ एकाक्षरविधानेन परितुष्टो गजाननः । योगं शांतिमयं तस्मै प्रददौ भक्तवत्सलः ॥४७॥ कर्दमः शांतभावेन गणेशमभजत् परम् । विचचार महायोगी धरणीं लोकधारकः ॥४८॥ देवहूतिश्च तत्रैव योगं चासाधयत् परम् । गणेशं हृदि भावेन धृत्वा कपिलसन्निधौ ॥४९॥ क्रमेण शांतिमापन्ना चित्तं त्यक्त्वा महासती । चिंतामणौ तदाकारा बभूव भ्रमवर्जिता ॥५०॥ तां दृष्ट्वा सिद्धिमापन्नां कपिलः स ययौ ततः । गंगाया दक्षिणे तीरेऽभजत्तं गणनायकम् ॥५१॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदंतचरिते देवहूतिकर्दमशांतिप्राप्तिवर्णनं नामैकोनसप्ततितमोऽध्यायः ॥