भारतकोश
मुद्गल पुराण (अष्टावतार चरितम्)

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

महर्षि मुद्गल द्वारा

स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)

DevanagariSanskritpublished1,023 पृष्ठ

पृष्ठ 285, कुल 1023 में से

संदर्भ में पढ़ें
पृष्ठ 285

खं. ३ अ. १ पान १ ॥ श्रीगणेशाय नमः ॥ शौनक उवाच । सूत सर्वार्थतत्त्वज्ञ तारितोऽहं त्वया द्विज । गणेशचरितं पुण्यं श्रावितं परमाद्भुतम् ॥१॥ एकदंतस्य माहात्म्यं श्रुतं त्वत्तो द्विजोत्तम । यथा नरः सुधापानात् न तृप्तोऽहं तथाऽभवम् ॥२॥ महोदरस्य माहात्म्यमधुना वद विस्तरात् । कीदृशोऽयं गणेशस्तु कति तस्यावतारकाः ॥३॥ कुरुक्षेत्रं महत्तस्य कस्माद्भूतौ समागतः । इत्यादि सर्वमत्यंतं माहात्म्यं वद तस्य मे ॥४॥ सूत उवाच । शृणु शौनक विप्रेंद्र धन्योऽस्यत्र न संशयः । विवर्धयसि ढुंढेस्त्वं रहस्यं परमाद्भुतम् ॥५॥ अतोऽहं हर्षितः सर्वं कथयिष्यामि विस्तरात् । महोदरस्य माहात्म्यं यथा व्यासाच्छ्रुतं मया ॥६॥ दक्षेणाऽपि तथा पृष्टं यथा त्वं मां प्रपृच्छसि । मुद्गलेन यथा प्रोक्तं तथैव त्वां ब्रवीम्यहम् ॥७॥ दक्ष उवाच । त्वया मुद्गल योगींद्र तारितोऽहं विशेषतः । मंगलायतनां पूर्णां कथां वदसि मानद ॥८॥ अधुना वद मे ब्रह्मन् महोदरचरित्रकम् । विस्तरेण महाभाग भवबंधविमोचनम् ॥९॥ मुद्गल उवाच । धन्योऽसि दक्ष येन त्वं गणेशामृतसत्कथाम् । भावयुक्तश्च पिबसि संक्षेपेण ब्रवीमि ते ॥१०॥ महोदरस्य माहात्म्यं विस्तरेणैव वर्णितुम् । भुवनेष्वर्हति च कः सर्वसिद्धिप्रदायकम् ॥११॥ एवमेव पुरा पृष्टो वालखिल्यैर्महात्मभिः । सूर्यस्तानब्रवीच्च तदेव शृणु यत्नतः ॥१२॥ दक्ष उवाच । कथं स वालखिल्यैश्च पृष्टो भानुर्महायशाः । तत्सर्वं विस्तरेणैव वक्तुमर्हसि मुद्गल ॥१३॥ मुद्गल उवाच । रथस्थं भास्करं नित्यं महर्षय उपासते । वालखिल्या महाभागा भक्तियुक्तेन चेतसा ॥१४॥ तत्र सूर्यं गणेशस्य कीर्तने निरतं मुदा । दृष्ट्वा पप्रच्छुरादित्यं विस्मिता वालखिल्यकाः ॥१५॥ भानो त्वं ब्रह्मरूपश्च वेदेषु प्रतिपादितः । एक एवाद्वितीयाख्योऽमृतात्मा नात्र संशयः ॥१६॥ त्वदीयभजनेनैव सिद्धाः परमयोगिनः । विष्णुमुख्याः सुरेशाना भवंति विविधा जनाः ॥१७॥ कर्मणां मूलरूपेण सगुणस्त्वं विभासि वै । ज्ञानरूपेण सर्वत्र निर्गुणोऽसि दिवाकर ॥१८॥ त्वत्तः परतरं नास्ति वेदादिषु विशेषतः । तदपि त्वं विशेषेण भजसे गणनायकम् ॥१९॥ कोऽसौ गणेशानामा वै तं कथं भजसे वद । मोहयुक्ता वयं जातास्तव दृष्ट्वा चिकीर्षितम् ॥२०॥ अतो नस्तेजसां नाथ वद तत्त्वं यथातथम् । कस्माद्भ्रामयसे सर्वान् गणेशस्त्वनेन वै ॥२१॥ मुद्गल उवाच । इति पृष्टो महातेजाः सूर्य आत्मा शरीरिणाम् । जगाद सकलं तेभ्यस्तच्छृणु त्वं प्रजापते ॥२२॥ सूर्य उवाच । वालखिल्या महाभागाः शृणुध्वं सर्वसंमताः । चरितं गणनाथस्य भविष्यथ च योगिनः ॥२३॥ अहमात्मा च वेदेषु कथितो नात्र संशयः । तत्र ज्ञानं वो वदामि भ्रमनाशकरं महत् ॥२४॥ असत्यं ब्रह्म यत् प्रोक्तं तन्नाहं जीवधारकः । एक एवाद्वितीयश्च सत्यरूपो महर्षयः ॥२५॥