भारतकोश
मुद्गल पुराण (अष्टावतार चरितम्)

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

महर्षि मुद्गल द्वारा

स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)

DevanagariSanskritpublished1,023 पृष्ठ

पृष्ठ 286, कुल 1023 में से

संदर्भ में पढ़ें
पृष्ठ 286

वेदादिभावभिन्नेष्वात्माकारेण व्यवस्थितः । सत्यासत्ये इति द्वंद्वं ज्ञातव्यं विबुधोत्तमैः ॥२६॥ तयोर्भेदभावे यत् समरूपं परात्परम् । आनंद उभयानंदाद्ब्रह्म यद्विष्णुरुच्यते ॥२७॥ समानंदात्तुरीयं यद्ब्रह्माव्यक्तस्वरूपकम् । सर्वेषां नेति कर्ताऽसौ शंकरश्च प्रकथ्यते ॥२८॥ चतुर्णां योगकर्ताऽसौ स्वानंदः परिकीर्तितः । सर्वसंयोगरूपं तद्ब्रह्म वेदेषु कथ्यते ॥२९॥ स्वपदाज्ञ परो योगः संयोगात्मक उच्यते । स एव गणनाथश्च मायायुक्तः प्रकथ्यते ॥३०॥ मायया सर्वभावेषु संयोगाभेदतः स्वयम् । तिष्ठति ब्रह्म विप्रेशास्तेन तन्मायया युतम् ॥३१॥ अयोगश्च परः प्रोक्तः संयोगान्नात्र संशयः । निर्मायिकमिदं ब्रह्म वेदे चैव हि कथ्यते ॥३२॥ तत्र केषां न संयोगस्तस्य केष्वपि नो भवेत् । अयोगस्तेन नामाऽभूदभिन्नोऽपि महर्षयः ॥३३॥ संयोगायोगयोर्योगे गणेशो योगवाचकः । शांतिदो ब्रह्मभावेषु ब्रह्मणस्पतिरुच्यते ॥३४॥ सर्वेषां ब्रह्मणां विप्राः पतिस्तेन प्रकीर्तितः । गणेशस्तं सदा भक्तियुक्तोऽहं प्रभजामि हि ॥३५॥ गणः समूहरूपश्च धातुरुक्तो मनीषिभिः । बाह्यांतरादियोगे वै समूहो जायते द्विजाः ॥३६॥ तेनाऽयं गणराजोऽभूद्ब्रह्मरूपा गणा मताः । तेषां स्वामी न संदेहस्तं भजेऽहं विशेषतः ॥३७॥ आत्माकारं च यद्ब्रह्म तदेवैकगणात्मकम् । सोऽहं स्वामिनमत्यंतं भजे भक्तिपरिप्लुतः ॥३८॥ मुद्गल उवाच । सूर्यस्य वचनं श्रुत्वा वालखिल्या महर्षयः । ऊचुस्तं विस्मिताः सर्वे प्रबद्धकरसंपुटाः ॥३९॥ वालखिल्या ऊचुः । रवे गणेशमाहात्म्यं विस्तराद्वद योगदम् । येन तत्त्वार्थविज्ञाने भवामस्तस्य कौशलाः ॥४०॥ रविरुवाच । शृणुध्वं मुनयः सर्वे कथां सकलसिद्धिदाम् । ब्रह्मणा कथिता मे या सर्वपापप्रणाशिनी ॥४१॥ ॥ ओमिति श्रीमदान्ते पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे तृतीये खंडे महोदरचरिते रविवालखिल्यप्रश्नवर्णनं नाम प्रथमोऽध्यायः ॥ ॥ श्रीगणेशाय नमः ॥ वालखिल्या ऊचुः । वद सूर्य विशेषेण ब्रह्मणा कथितं महत् । गणेशस्य चरित्रं ते श्रवणे लालसा प्रभो ॥१॥ सूर्य उवाच । पुराऽहमात्मरूपे च संस्थितः सर्वलोकगः । गणेशध्यानसंनिष्ठो योगींद्राणां गुरुः स्वयम् ॥२॥ ब्रह्मणा सृष्टमत्यंतं त्रैलोक्यं सचराचरम् । कश्यपस्तत्र मुख्यो वै प्रजापतिसमोऽभवत् ॥३॥ तेन मे वै तपस्तप्तं वर्षाणामयुतं द्विजाः । आकृष्णेनेति मंत्रेण ध्याननिष्ठो बभूव ह ॥४॥ ततस्तं वरदाताऽहं गतस्तस्याश्रमे पुरा । स मां दृष्ट्वा