भारतकोश
मुद्गल पुराण (अष्टावतार चरितम्)

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

महर्षि मुद्गल द्वारा

स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)

DevanagariSanskritpublished1,023 पृष्ठ

पृष्ठ 287, कुल 1023 में से

संदर्भ में पढ़ें
पृष्ठ 287

[Header] सं. ३ अ. २ पान ३

[Text] नमस्कृत्याऽपूजयद्भक्तिसंयुतः ॥५॥ ततस्तुष्टाव मां विप्रः प्रबद्धकरसंपुटः । वरदं सर्वभावेन भक्तिनम्रात्मकंधरः ॥६॥ कश्यप उवाच । नमस्ते जगदाधार आत्मने परमात्मने । सूर्याय त्रिविधायैव त्रिकालज्ञाय ते नमः ॥७॥ भेदाभेदविहीनाय नानाभेदधराय ते । अनाकाराय देवाय शाश्वताय नमो नमः ॥८॥ अमेयशक्तये तुभ्यं कर्माधाराय भानवे । सर्वकर्ममयायैव त्रिरूपाय नमो नमः ॥९॥ अमृताय सदा ब्रह्मनिष्ठाय त्वंतरात्मने । अर्यम्णे रवये चैव हरिदश्वाय ते नमः ॥१०॥ आदिमध्यांतहीनाय तदाधाराय ते नमः । अनंतविभवायैव तेजोराशे नमो नमः ॥११॥ दीननाथाय सर्वाय दिनानां पतये नमः । नमो हंत्रे स्वभक्तानां पालकाय नमो नमः ॥१२॥ भक्तिमुक्तिप्रदायैव नानाखेलकराय च । नमो नमः परेशाय पुरुषाय दिवस्पते ॥१३॥ एकस्मै चाद्वितीयाय मायाधाराय मायिने । संज्ञापते नमस्तुभ्यं रक्ष मां शरणागतम् ॥१४॥ आत्माकारं च सर्वत्र किं स्तौमि त्वां दिवाकरम् । समर्था नाभवन् वेदा अतस्त्वां प्रणमामहे ॥१५॥ देहि मे परमेशान भक्तिं ते चरणांबुजे । अन्यं वरं ययाचेऽहं त्वं मे पुत्रो भव प्रभो ॥१६॥ सूर्य उवाच । एवं वदंतमानंदयुक्तं मुनिवरं द्विजाः । अवदं तं प्रसन्नोऽहं भावयुक्तं तपस्विनम् ॥१७॥ तव पुत्रो भविष्यामि द्वादशादित्यरूपवान् । मदीया भक्तिरुग्रा ते भविष्यति महामुने ॥१८॥ यद्यदिच्छसि विप्रेंद्र तत्तत्ते सफलं भवेत् । भवामि स्मरणेनाऽहं प्रत्यक्षस्ते पुरो मुने ॥१९॥ त्वया कृतमिदं स्तोत्रं मदीयं सर्वदं भवेत् । भुक्तिं मुक्तिं प्रदास्यामि मुने स्तोत्रेण तोषितः ॥२०॥ एवमुक्त्वा वालखिल्याः सौरलोके गतोऽभवम् । अंतर्धाय स्वमात्मानं सोऽपि संमुदितोऽभवत् ॥२१॥ अदित्यापि तथा तप्तं तपो मे परमाद्भुतम् । तयाऽपीदं च विप्रेन्द्रा याचितं तन्मया कृतम् ॥२२॥ अहं पुत्रस्य भावेन कश्यपाज्जठरे गतः । अदित्याश्च सुकाले सा सुषुवे मां महर्षयः ॥२३॥ जातकर्मादिकं सर्वं चकार मुनिसत्तमः । काले मौंज्यादिकं कर्म वेदाध्ययनमादिशत् ॥२४॥ तथा तताप पुत्र्यर्थं विश्वकर्मा तपो द्विजाः । संज्ञाऽग्रे भविता पुत्री कर्मरूपा सुसिद्धिदा ॥२५॥ तया तस्मै वरो दत्तः साऽपि पुत्री बभूव ह । मह्यं ततस्तेन भावेन दत्ता विश्वकर्मणा ॥२६॥ अहं च ब्रह्मणा तत्राभिषिक्तो ज्योतिषां तथा । ग्रहाणां कर्मणां राज्ये ततोऽहं मुदितोऽभवम् ॥२७॥ सदाधारमिदं सर्वं त्रैलोक्यं सचराचरम् । वृष्ट्यादिना तथा काले तत्करोमि स्म तर्पितम् ॥२८॥ कर्मणां फलदाताऽहं कर्माधारः प्रकीर्तितः । वेदे सर्वजनानामंतरात्मा जगदात्मनाम् ॥२९॥ ततो बहौ गते कालेऽभवं मनसि गर्वितः । निराधारोऽहमेको वै मदाधारमिदं बभौ ॥३०॥ कश्यपस्य सुतोऽहं वै जातस्तत्र मया द्विजाः ।