भारतकोश
मुद्गल पुराण (अष्टावतार चरितम्)

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

महर्षि मुद्गल द्वारा

स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)

DevanagariSanskritpublished1,023 पृष्ठ

पृष्ठ 288, कुल 1023 में से

संदर्भ में पढ़ें
पृष्ठ 288

खं. ३ अ. २ पान ४ गणेशाराधनं किंचिन्न कृतं कर्मधारिणा ॥३१॥ एवं क्रमेण तत्राऽपि बहुः कालो गतोऽभवत् । ततोऽकस्माच्च मे विघ्नः समुत्पन्नः सुदारुणः ॥३२॥ माली सुमालिको दैत्यौ तेपतुस्तप उत्तमम् । दिव्यवर्षसहस्राणि शिवः संतोषितोऽभवत् ॥३३॥ वरं ददौ स ताभ्यां यथाचितं तादृशं परम् । सूर्यतेजःसमं दिव्यं विमानं प्रापतुस्तदा ॥३४॥ ताभ्यां विमाननिष्ठाभ्यां जितं सर्वं चराचरम् । राज्यं तौ चक्रतुर्दैत्यौ त्रिलोकस्य महर्षयः ॥३५॥ ततो बहौ गते काले धर्षयंतौ च मां द्विजाः । विमाने संस्थितौ दैत्यौ जग्मतुर्दिवि भानुवत् ॥३६॥ विमानतेजसा सर्वं व्याप्तं त्रैलोक्यमंडलम् । रात्रिलोपं च सर्वत्र चक्रतुः परमाद्भुतौ ॥३७॥ अहमस्तंगतो दैत्यौ विमाने तत्र संस्थितौ । उदये समनुप्राप्तौ ततश्च दिवसोऽभवत् ॥३८॥ एवं मां तौ निरर्थं वै चक्रतुर्दैत्यपुंगवौ । अर्कतेजःसमानेन विमानेन महौजसौ ॥३९॥ अहं संक्षुभितोऽत्यंतं जातस्तदपि भो द्विजाः । असहे वरदानस्य बलं ज्ञात्वा विशेषतः ॥४०॥ एवं सप्त गतास्तत्र दिवसास्तदपि द्विजाः । न समे संस्थितौ दैत्यौ लोकाः सर्वे सुविस्मताः ॥४१॥ कर्मलोपश्च सर्वत्र भ्रमाज्जातो महर्षयः । तेजसा दग्धरूपा वै पृथिवी जाता तथा जनाः ॥४२॥ ततोऽहं क्षुभितोऽत्यंतं गर्वयुक्तः स्वतेजसा । ज्वालयामि विमानं स्म दैत्यौ भूमौ मुमूर्च्छतुः ॥४३॥ दग्धौ तेजःसमूहेन मदीयेन ततः शिवः । आययौ सहसा क्रुद्धः स्मृतस्ताभ्यां विशेषतः ॥४४॥ त्रिशूलेन मदीयं वै शिरश्छिन्नं शिवेन च । पतितोऽहं ततः काश्यां लुलितः स मृतोऽभवम् ॥४५॥ ततः सर्वं जगत् क्षुब्धं सूर्यहीनतया द्विजाः । तद् दृष्ट्वा परमाश्चर्यं ययुस्तत्र महर्षयः ॥४६॥ देवाः सर्वे भयोद्विग्ना विष्णुब्रह्मादयो ययुः । शंकरं सांत्वयामासुर्नानायत्नैः सुरर्षयः ॥४७॥ ततः शिवं समूचुस्ते किं कृतं वृषभध्वज । सूर्य हत्वा सदात्मानं जगद्धारयसे कथम् ॥४८॥ त्वं कालरूपभावेन तमोयुक्तः सदाशिव । अकाले विश्वसंहारे वर्तसे किं महेश्वर ॥४९॥ तेषां वचनमाकर्ण्य शंकरः शोकसंयुतः । जगाद तान् महादेवान् दैवेनेदं सुकारितम् ॥५०॥ निमित्तमात्रं भावेन मां कृत्वा च सुरर्षयः । विघ्नराजेन विघ्नोऽयं दारुणः संप्रकाशितः ॥५१॥ मह्यं पुरा गणेशानो वरदाता बभूव ह । स्मृतमात्रस्तवाग्रेऽहं साक्षाद्वै संभवामि च ॥५२॥ अतोऽहं शरणं तं च गमिष्याम्यधुना विभुम् । जीवयिष्यामि भानुं तं तेजसा गणपस्य च ॥५३॥ इत्युक्त्वा तं हृदि ध्यात्वा मनसाऽपूजयच्च सः । अयाचत विशेषेण जीवनाय रवेरपि ॥५४॥ जगज्जीवनदाताऽयं सूर्यः स्वामिन् मया