मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 265, कुल 1023 में से
संदर्भ में पढ़ेंखं. २ अ. ६६ पान १३९ मंत्रयामास चोदरम् । तस्य मंत्रप्रभावेण दैत्यः संजीर्णतां गतः ॥१०॥ अपानवायुरत्युग्रो निःसृतो धूलिमुद्वहन् । तेन नादेन सर्वे ते विस्मिताः प्रबभूविरे ॥११॥ ततो मुनिः समुत्तस्थौ मुखप्रक्षालनाय च । क्षालयित्वा स हस्तादि संस्थितः स महाधने ॥१२॥ ततो वातापिना भ्रातैहीत्याहूतोऽभवत्तदा । उवाच मुनिशार्दूलस्ततस्तं दैत्यपुंगवम् ॥१३॥ स मृतो मे च मंत्रेण संजीर्णो जठरेऽधुना । अधुना त्वां हनिष्यामि दुष्ट ब्राह्मणहिंसकम् ॥१४॥ पलायत स तच्छ्रुत्वा वातापिर्भय- संकुलः । ततः सराजका विप्राः स्थापिता मुनिनाऽमुना ॥१५॥ तत्रैव स्वयमेनं तमगमत् दैत्यनायकम् । अगस्त्यः पृष्ठगं दृष्ट्वा समुद्रं शरणं ययौ ॥१६॥ वातापिस्तेन दैत्येंद्रः स्थापितः स्वजलेऽभवत् । ततस्तं जलधिं विप्र उवाच क्रोधसंयुतः ॥१७॥ देहि दैत्यं समुद्र त्वं नोचेच्छापं ददाम्यहम् । ततोऽगस्त्यं समुद्रश्च जगाद भयसंकुलः ॥१८॥ स्वभावो मे महाभाग अतो नाऽहं ददामि तम् । दैत्या देवभयाद्विप्र शरणं मामुपागताः ॥१९॥ अन्ये पर्वतभूपाश्च न दत्तास्ते मया मुने । अतस्त्वां प्रार्थयामीह कृपां कुरु दयानिधे ॥२०॥ त्यक्त्वा दैत्यं मुनिश्रेष्ठ गच्छ त्वं प्रणमाम्यहम् । क्षुभितोऽभूत्ततोऽगस्त्यो गर्विष्ठोऽयं महोदधिः ॥२१॥ मदमस्य हरिष्यामि तादृशं न ददर्श ह । ततो मुनिर्विधातारं शरणं वै जगाम ह ॥२२॥ प्रणम्य लोकनाथं तं पप्रच्छ च जगद्गुरुम् ॥२३॥ अगस्त्य उवाच । स्वामिन् समुद्रसंग्रस्तो वातापिर्द्विजहिंसकः । तदर्थं जलधिं नाथ शोषयामि मदान्वितम् ॥२४॥ तत्रोपायं वद ब्रह्मन् तं करिष्यामि यत्नतः । त्वं सर्वज्ञश्च सर्वेषां पितामह विशेषतः ॥२५॥ एवं तस्य वचः श्रुत्वा तं जगाद महामुनिम् । अगस्त्यं लोकनाथस्तु हर्षयुक्तेन चेतसा ॥२६॥ ब्रह्मोवाच । शृणु पुत्र महाभाग गर्विष्ठोऽयं महोदधिः । अधर्मचारिणो दैत्या रक्षितास्तेन निश्चितम् ॥२७॥ वातापिरधुनाऽरक्ष्यः सत्कृतस्तेन पुत्रक । अतस्तच्छोषणार्थाय गणपं शरणं व्रज ॥२८॥ तस्य तद्वचनं श्रुत्वा जगाद स पितामहम् । कथं त्यक्त्वा विधे देवान् गणेशानं प्रशंससि ॥२९॥ ततस्तं मुनिमुख्यं स ब्रह्मोवाच प्रजापतिः । शृणु पुत्र महाभाग कथां पापप्रणाशिनीम् ॥३०॥ विघ्नकर्ता च तद्धर्ता गणेशोऽयं न संशयः । तेन विघ्नेश्वरो नाम्ना वर्तते सर्वमंडले ॥३१॥ विघ्नाः सत्तात्मकाः प्रोक्तास्तेषां स्वामी गणेश्वरः । सर्वसत्ताधरः पूर्णस्तस्मात्तं कथयाम्यहम् ॥३२॥ अन्यच्च शृणु पुत्र त्वं विनायक इति श्रुतिः । नायकैः सेव्यते सर्वैः स्वस्वकार्यार्थमादरात् ॥३३॥ नायकैर्वर्जितः साक्षात्तेन स्वाधीनतां गतः । संसृष्टं सकलं विश्वं कलांशेन महामुने ॥३४॥ स्वस्वाधिकारसंयुक्ता कलांशजविभूतयः । समुद्रस्तासु तं पुत्र चालितुं