मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 243, कुल 1023 में से
संदर्भ में पढ़ें[हेडर] खं. २ अ. ५६ | पान ११७
॥ श्रीगणेशाय नमः ॥ दक्ष उवाच । प्रह्लादेन श्रुतं पूर्णं मदासुरचरित्रकम् । पुनः किं च कृतं योगिंस्तद्वद त्वं महामते ॥१॥ श्रुत्वा कथामृतं पूर्णं हर्षश्चेतसि मुद्गल । जायते नाऽत्र संदेहो न तृप्तोऽहं भवाम्यतः ॥२॥ सूत उवाच । दक्षस्य वचनं श्रुत्वा मुद्गलो हर्षितोऽभवत् । उवाच तं महाभागं तत्त्वं शृणु च शौनक ॥३॥ मुद्गल उवाच । धन्योऽसि दक्ष सारज्ञ गणेशस्य कथामृतम् । श्रुत्वा हृष्यसि ते पुण्यं कथयामि कथानकम् ॥४॥ मदासुरस्य संशांतिं श्रुत्वा पप्रच्छ दैत्यपः । प्रह्लादस्तं गृत्समदं विनयावनतः कथाम् ॥५॥ प्रह्लाद उवाच । महद्भाग्यं मुने मे यद्येन संश्रावितं त्वया । एकदंतस्य माहात्म्यं परमानंददायकम् ॥६॥ तथापि न सुतृप्तोऽहं श्रुत्वा ज्ञानप्रदायकम् । चरितं च पुनस्त्वं मे गणेशस्य कथां वद ॥७॥ कश्यपस्य गृहे देवः कथं पुत्रत्वमागतः । कथं दैत्यौ हतौ योगिन् विस्तरेण वदस्व माम् ॥८॥ कथं स शिवपुत्रोऽभूत् कथं दुर्मतिकं प्रभुः । अहन्तं वदस्व त्वं सर्वज्ञोऽसि कृपानिधे ॥९॥ कथं गणासुरं दैत्यं कापिलो हतवान् पुरा । एतत् सर्वं वद स्वामिन्नेकदंतचरित्रकम् ॥१०॥ भवादृशा महाभागा नौकारूपेण संस्थिताः । संसाराम्धौ नराणां वै मज्जतां तरणाय तु ॥११॥ मुद्गल उवाच । एवं पृष्टो महायोगी तमुवाच सुहर्षितः । गुणैर्युक्तं गृत्समदः प्रह्लादं भावधारकम् ॥१२॥ गृत्समद उवाच । शृणु प्रह्लाद यत् पृष्टं तत्सर्वं कथयामि ते । सुखदं च समासेन एकदंतचरित्रकम् ॥१३॥ पुरा कृतयुगे दैत्य गौडदेशे बभूव ह । नगरे गौडसंज्ञे च रौद्रकेतुस्तपोधनः ॥१४॥ तस्य पत्नी महाभागा शारदा रूपशालिनी । गर्भयुक्ता कदाचित् सा बभूवे हर्षिताऽभवत् ॥१५॥ समये सुषुवे पुत्रौ यमलौ लोकभीतिदौ । नाम्ना चक्रे द्विजातिः स देवांतकनरांतकौ ॥१६॥ कदाचिन्नारदेनाऽपि गत्वा तत्र शिवस्य च । पंचाक्षरेणोपदिष्टौ चेरतुः परमं तपः ॥१७॥ दिव्यवर्षसहस्रैस्तु संतुष्टः स सदाशिवः । अभयं गुणरूपेभ्यो प्रददौ दैत्ययोः परम् ॥१८॥ वरगर्वेण दैत्येंद्रौ जित्वा सर्वं चराचरम् । ततस्तु कर्मनाशं तौ चक्रतुः पृथिवीतले ॥१९॥ न स्वाहा न स्वधा कुत्र न वषट्कार एव च । अभवन्नमराः सर्वे क्षुधितास्तृषितास्ततः ॥२०॥ तैः सर्वैः प्रार्थितो देव एकदंतः प्रतापवान् । तपसोग्रेण संतुष्टो बभूव प्रददौ वरम् ॥२१॥ कश्यपस्य च पुत्रोऽहं भविष्यामि प्रसिद्धये । दैत्येंद्रयोर्वधस्यैवमुक्त्वा गणपतिर्ययौ ॥२२॥ अथ देवजनित्री सा कदाचित् कश्यपं मुनिम् । जगाद हास्यसंयुक्ता ह्यदितिः कृतसंपुटा ॥२३॥ इंद्रो विष्णुश्च सूर्य्यश्च देवाः पुत्राश्च मेऽभवन् । स्वामिन् ब्रह्म कथं पुत्रः संभविष्यति मे परम् ॥२४॥ तदा मे निश्चलं चेतो भवेच्चैव न संशयः । तस्य सेवां कर्तुमीहे तत्रोपायं वद प्रभो ॥२५॥