भारतकोश
मुद्गल पुराण (अष्टावतार चरितम्)

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

महर्षि मुद्गल द्वारा

स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)

DevanagariSanskritpublished1,023 पृष्ठ

पृष्ठ 242, कुल 1023 में से

संदर्भ में पढ़ें
पृष्ठ 242

खं. २ अ. ५५ पान ११६ स्तोत्रपाठकः। पुत्रपौत्रादिकं सर्वं कलत्रं धनधान्यकम् ॥२८॥ गजाश्वादिकमत्यंतं राज्यभोगादिकं ध्रुवम् । भुक्तिं मुक्तिं च योगं वै लभते शांतिदायकम् ॥२९॥ मारणोच्चाटनादीनि राज्यबंधादिकं च यत् । पठतां शृण्वतां नृणां भवेत्तद्द्वंध- हीनता ॥३०॥ एकविंशतिवारं यः श्लोकानेवैकविंशतिम्। पठेद्धृदि मां स्मृत्वा दिनानि त्वेकविंशतिम् ॥३१॥ न तस्य दुर्लभं किंचित् त्रिषु लोकेषु वै भवेत् । असाध्यं साधयेन् मर्त्यः सर्वत्र विजयी भवेत् ॥३२॥ नित्यं यः पठति स्तोत्रं ब्रह्मीभूतः स वै नरः। तस्य दर्शनातः सर्वे देवाः पूता भवंति च ॥३३॥ एवं तस्य वचः श्रुत्वा प्रहृष्टा अमरर्षयः । ऊचुः सर्वे करपुटैर्भक्त्या युक्ता गजाननम् ॥३४॥ देवर्षय ऊचुः । धन्या वयं गणेशान एकदंतधर प्रभो। त्वदीयदर्शनादेव भाषणान्नात्र संशयः ॥३५॥ वरं देहि त्वदीया नो भक्तिश्च सुदृढा भवेत् । मायाहीनास्तथा देव कृतकृत्या भवामहे ॥३६॥ यदा संकटयुक्ता वै वयं स्याम गजानन। तदा नो रक्ष देवेश वरमेवं वृणीमहे ॥३७॥ तेषां वचनमाकर्ण्य तानुवाच तथास्त्विति । एकदंतों- ऽन्तर्दधेऽसौ स्वस्वानंदगतोऽभवत्॥३८॥ देवा मुनिगणाः सर्वे ययुः स्वस्वपदेषु च। स्वस्वधर्मयुता नित्यमभजन्नेकदंतकम्॥३९॥ एवं मदासुरस्तेन शांतिरूपधरः कृतः। प्रह्लाद चैकदंतेन कथितं ते चरित्रकम् ॥४०॥ दुष्टसंगतियोगेन त्वं मदोत्सिक्तभावतः। अनादृत्य विधातारं भ्रष्टो ज्ञानान्न संशयः ॥४१॥ एकदंतं गणेशं त्वं भजाऽतो दैत्यनायक। तेन शांतो महाभाग भविष्यसि न संशयः ॥४२॥ स एव एकदंतस्तु भक्तानां कार्यसिद्धये । करोति स्वावतारांश्च नानारूपांस्तु दैत्यप ॥४३॥ परमौ दारुणौ दैत्यौ देवांतकनरांतकौ । संभूतौ तौ हतौ तेन भूत्वा कश्यपवेश्मनि ॥४४॥ तथैव दुर्मतिर्नाम दैत्योऽभूद्धर्मलोपकः । शांतये तस्य विघ्नेशः शिवपुत्रो बभूव ह ॥४५॥ गणासुरेण दुष्टेन धर्मलोपः कृतो यदा । तदा कपिलपुत्रोऽभूत् स एव त्वेकदंतकः ॥४६॥ एवं नानावतारैः पाल्यते सकलं जगत् । एकदंतः कलांशेन धर्मरक्षणतत्परः ॥४७॥ तेषां कथा न शक्या वै गदितुं केनचित् परा। गुणांतं न ययुर्यस्य ब्रह्माद्या मुनयः सुराः ॥४८॥ अतस्त्वमेकदंतं तं भज भावेन दैत्यप । तेन सर्वं च ते ज्ञानं भविष्यति सुशांतिदम् ॥४९॥ एवं मदासुरस्याऽपि कृतं खंडनमंजसा । एकदंतेन संक्षेपाच्चरितं कथितं मया ॥५०॥ पठेद्यः शृणुयात्तस्मै भक्तिं मुक्तिं ददाति सः । एकदंतः प्रसन्नात्मा सदा भवति सौख्यदः ॥५१॥ नासुरेण स्वभावेन मदस्तं पीडयिष्यति । शांतिरूपेण नित्यं स संरक्षेद्दैत्यनायकः ॥५२॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खंडे एकदंतचरिते मदासुरचरितसमाप्तिर्नाम पंचपंचाशत्तमोऽध्यायः ॥