मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 238, कुल 1023 में से
संदर्भ में पढ़ेंखं. २ अ. ५३ पान ११२
ययौ मदासुरं तत्र वृत्तांतं चाऽब्रवीत् पुरः ॥ २६ ॥ दूतस्य वचनं श्रुत्वा मूर्च्छितो दैत्यपुंगवः । दैत्यैः सावधानश्च कृतः सोऽपि शुशोच ह ॥ २७ ॥ उवाच दैत्यपान् सर्वान्नारदेन समीरितम् । वाक्यं तदभवत् सत्यं मम शत्रुरयं मतः ॥ २८ ॥ नानाशस्त्रैस्तथास्त्रैस्तं हनिष्यामि न संशयः । कथं कालस्य मे मृत्युर्भविष्यति महासुराः ॥ २९ ॥ एवमुक्त्वा ययौ पापी मदः सर्वसमन्वितः । एकदंतं समुद्दिश्य शस्त्रमुग्रं सुमोच ह ॥ ३० ॥ अनिवार्यममोघं च शस्त्रं दृष्ट्वा गजाननः । परशुं तोलयित्वा स सुमोच यमसंनिभम् ॥ ३१ ॥ परशुं दैत्यपा दृष्ट्वा तेजसा संवृतं परम् । भयभीताः समंतात्ते पलायंत दिशो दश ॥ ३२ ॥ परशुर्दैत्यराजास्त्रं सच्छित्त्वा स्वेन तेजसा । ततो दैत्यांश्च सर्वत्र चिच्छेद यमसंनिभः ॥ ३३ ॥ हताः परशुना दैत्याः सर्वे प्रह्लाद तत्क्षणात् । त्रिपुरादय एवं ते दृष्ट्वा वै दुद्रुवुर्भयात् ॥ ३४ ॥ ततो मदासुरः क्रुद्धो जग्राहास्त्रमनुत्तमम् । संहाराख्यममोघं वै युयोज धनुषि स्वयम् ॥ ३५ ॥ तावत् परशुना विद्धो हृदये दैत्यपुंगवः । पपात स धरापृष्ठे वाताहत इव द्रुमः ॥ ३६ ॥ ततस्तत्र महास्त्रं तत् परशूपस्थितं त्वभूत् । प्रहरार्धेन दैत्येशः सावधानो बभूव ह ॥ ३७॥ अपश्यत् स महास्त्रं तत् परशुं यमसन्निभम् । समीपे दैत्यराजस्तु विस्मितो हृदयेऽभवत् ॥ ३८ ॥ अयं परशुराजः किं तेजःपुंजमयो मया । दृश्यते न च संस्पृष्टो ह्यत आश्चर्यकं त्विदम् ॥ ३९ ॥ ततो हस्तेन दैत्येन गृहीतः परशुर्महान् । तथाऽपि हस्तमध्येऽसौ खवच्छून्यस्तदाऽभवत् ॥ ४० ॥ मदः स हृदि विज्ञाय शस्त्रं ब्रह्ममयं परम् । ज्ञात्वाऽवयवसंहीनं विचारमकरोत्तदा ॥ ४१ ॥ अहो क एकदंतोऽयं ब्रह्माकारो न संशयः । न ब्रह्मांडमयाकारो भवेत्तद्वर्जितो न च ॥ ४२ ॥ अतोऽनेन रणे पूर्णं न भविष्यति किंचन । मारयिष्यति मां नूनं नात्र कार्या विचारणा ॥ ४३ ॥ एवमुक्त्वा हृदि क्षुब्धो दैत्येशश्च मदासुरः । दैवयोगेन सस्मार वेदवाक्यं सुखप्रदम् ॥ ४४ ॥ एकदंतार्थजं ज्ञानं विचार्यैव च विघ्नपम् । बुबोध हृदि दैत्येंद्रो ब्रह्मरूपः प्रधारकम् ॥ ४५ ॥ मायात्मकश्चैकशब्दस्तत्र सर्वं समुद्भवत् । भ्रांतिदं मोहदं पूर्णं नानाखेलमयं जगत् ॥ ४६ ॥ दन्त- सत्तात्मकस्तत्र मायाचालकसंज्ञकः । बिंबेन मोहयुक्तः स स्वयं स्वानंदगोऽभवत् ॥ ४७ ॥ माया भ्रांतिमयी प्रोक्ता सत्ता चालक उच्यते । तयोर्योगे गणेशोऽयमेकदंतः प्रकथ्यते ॥ ४८ ॥ महद्भाग्यं मदीयं तद्येनाऽयं दृष्टिगोचरम् । आयासेन