मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
Here is the complete Devanagari transcription of the page, line by line:
पान १३० ॥ श्रीगणेशाय नम ॥ गृत्समद उवाच । ततो विनायकस्तत्र काश्यां बालगणैः सह । चिक्रीड प्राकृतो भूत्वा भक्तानंद- विवर्धनः ॥१॥ ततो गणकरूपेण दैत्यो हेमासुरो ययौ । तं मायया गणेशानो मारयामास दैत्यप ॥२॥ ततः कृपाणुरस्तत्र कंदरेण सहागतः । परस्परविभेदेन तौ हतौ गणपेन च ॥३॥ ततोंऽभोसुरनामा यः प्रतापी च तथाऽन्धकः । तुंगासुरस्त्रयः प्राप्ता ब्रह्मलब्धवराः खलाः ॥४॥ खगरूपगणेशेन हता मुक्तिं प्रलेभिरे । विनायकस्य हस्तस्य स्पर्शनादिप्रभावतः ॥५॥ तेषां माता समायाता भ्रमरी नाम राक्षसी । रूपं कृत्वा ह्यदित्याश्च सा हता तेन दैत्यप ॥६॥ परीक्ष्य विस्मितास्तत्र मानवा भोजनार्थिनः । निमंत्र्य तं ययुः सर्वे काशिराजसमन्विताः ॥७॥ एकस्मिन् दिवसे तत्र गेहे गेहे महोत्सवः । भोजनार्थं काश्यपस्य सामग्रीं चक्रिरे जनाः ॥८॥ तत्र शुक्लो महाभक्तः काशीप्रांतनिवासकः । शुक्लवृत्त्याऽचरद्भिक्षां प्रभोः शुश्राव चेष्टितम् ॥९॥ शुक्लो दारिद्र्यसंयुक्तः संतोषी भजने रतः । विद्रुमा तस्य पत्नी सा पतिभक्तियुताऽभवत् ॥१०॥ सर्वस्वदानभावेन चक्रतुस्तौ महोत्सवम् । भोजनार्थं काश्यपस्य मार्जितं स्वांगणं तया ॥११॥ दर्भान् बद्ध्वा महायष्ठ्यां ध्वजं चक्रे महामुनिः । सर्वधान्यस्य पिष्टेन चक्रे वै भास्करीं सती ॥१२॥ तंदुलान्नं जलैर्युक्तं चक्रे परमहर्षिता । प्रयत्न- नाल्पतैलं च शुक्ल आनयदादरात् ॥१३॥ गृहे पलानि शुक्लस्य त्रीणि संचयमानतः । तंदुलानां हि पिष्टस्याऽभवन् पंच पलानि च ॥१४॥ काश्यपस्य च भक्ष्यार्थं पाकं चक्रे च भावतः । शुष्कामलकखंडं सोऽस्थापयन् मुखशुद्धये ॥१५॥ नैवेद्यं वैश्वदेवं च कृत्वा ध्यानपरोऽभवत् । विनायकस्य शुक्लोऽपि महाभक्तिपरायणः ॥१६॥ एतस्मिन्नंतरे तत्र सनकश्च सनंदनः । दर्शनार्थं समायातौ काश्यपस्य महात्मनः ॥१७॥ राज्ञा संमानितौ विप्रौ दृष्ट्वा बालसमन्वितम् । विनायकं तथा तौ निर्भर्त्स्य गंगां प्रजग्मतुः ॥१८॥ विनायको ययौ बालैः शुक्लस्याऽऽदौ गृहं प्रति । कुत्सितान्नं बभक्षैव ददौ संपत्तिमुत्तमाम् ॥१९॥ ततो विनायको देवोऽनंतरूपधरः स्वयम् । स काशिराजतां प्राप्य गेहे गेहे बभक्ष सः ॥२०॥ एतस्मिन् समये तौ तं सनकश्च सनंदनः । भिक्षार्थं वै ददृशतुः पर्यटंतौ च काश्यपम् ॥२१॥ गृहे गृहे च दृष्ट्वा तं भ्रष्टाचारयुतं मुनी । त्यक्त्वा काशीं क्षुधायुक्तौ जग्मतुर्बाहिरेव तौ ॥२२॥ ततो विनायकेनेव सर्वं रूपं प्रदर्शितम् । पुनस्तौ शरणं भ्रांत्यावेव तं जग्मतुर्मुदा ॥२३॥ ततो गाणेशकं ज्ञानं दत्तं तेन महात्मना । गाणपत्यस्वभावेन चेरतुस्तौ गतौ ततः ॥२४॥ काशिराजेन तत्सर्वं न ज्ञातं चेष्टितं महत् । भ्रांतो राजा स तं नेतुं ययौ शुक्लगृहं मुदा ॥२५॥ शिबिकायां गणेशं संस्थापयित्वा ययौ नृपः । स्वगृहं
खं. २ अ. ६२ पान १३१ तत्र दैत्यौ द्वौ विद्युद्रूपौ प्रपेततुः ॥२६॥ विनायकेन तौ त्यक्तौ शिखां संधृत्य दैत्यपौ । प्रजग्मतुः स्ववृत्तांतं कथयित्वा नरांतकम् ॥२७॥ राजाऽपि स्वगृहं प्राप ततो दैत्यः समाययौ । श्रुत्वा वृत्तांतमत्यर्थं ताभ्यां सर्वं नरांतकः ॥२८॥ गुल्मस्था नगरद्वारि काशिराजं ययुर्जनाः । अवदन् दैत्यवृत्तांतं नरांतक उपागतः ॥२९॥ सन्नद्धः सर्वसैन्येन काशिराजः स तं ययौ । युयुधे तेन दैत्येन धृतो राजा क्षणेन वै ॥३०॥ ततो विनायकः क्रुद्धः सिद्धिमाज्ञापयत् प्रभुः । तया सृष्टं महासैन्यं कालरूपं च तद्बभौ ॥३१॥ तत्रैको नायकः क्रूरः प्रणम्य गणनायकम् । ययौ तस्य महासेनां भक्षयन् पश्यतः क्षणात् ॥३२॥ धृत्वा नरांतकं सोऽपि जगाम च विनायकम् । विनायकेन सैन्येशो मुखे लीनः कृतः स्वके ॥३३॥ तस्योदरे गणेशेन रक्षितः काशिपालकः । तेन सार्धं गणेशस्य देहे लीनोऽभवन्नृपः ॥३४॥ तं नृपं जठरे देवो दर्शयित्वा जगत् पुनः । रोममार्गेण पुत्राभ्यां बहिश्चक्रे स विघ्नपः ॥३५॥ प्रधानाभ्यां च पुत्राभ्यां निःसृतं नृपसत्तमम् । विस्मितं मायया तं स मोहितं प्रचकार ह ॥३६॥ तत् दृष्ट्वा दैत्यराजः स विस्मितो तर्कयत् स्वयम् । अयं ब्रह्ममयो देवः कश्यपात्मज एव च ॥३७॥ अस्य हस्तेन मे मृत्युर्भविता चेत् सुमंगलम् । ब्रह्मभूयकरं तस्माद्युद्धेयं हर्षसंयुतः ॥३८॥ नरांतकेन कृत्वा च युद्धं तेन महत्ततः । मोहयित्वा तं जघान विराड्रूपेण विघ्नपः ॥३९॥ ममार दैत्यराजस्तु मस्तकस्तस्य वै गृहे । पतितस्तं विलोक्यैव शुशोच जननी पिता ॥४०॥ शिरो धृत्वा गतौ स्वर्गे दृष्ट्वा देवांतको हि तत् । सोऽपि क्रोधसमायुक्तो ययौ काश्यां स दैत्यपः ॥४१॥ कृत्वा युद्धं महाघोरं तेन सार्धं विनायकः । गजाननस्वरूपं च दर्शयामास शत्रवे ॥४२॥ दृष्ट्वा दैत्येन दंतस्तु भग्नॊ वामोऽस्य तत्क्षणात् । दैत्येंद्रं तेन दंतेन मारयामास विघ्नपः ॥४३॥ ततो हर्षयुतैर्देवैः स्तुतो देवर्षिभिः प्रभुः । प्रविवेश नृपेणाऽसौ काशीं भक्तपरायणः ॥४४॥ राजपुत्रस्य देवेशो विवाहं च चकार ह । राज्ञा संपूजितो ढुंढिः स्वाश्रमं गंतुमुत्सकः ॥४५॥ ततो लोका महा भक्तास्त्यक्त्वा गेहादिकं ययुः । तेभ्यो ज्ञानं ददौ देवः शांतिं प्राप्ता गृहान् ययुः ॥४६॥ राज्ञा रथेन शीघ्रं वै स्वाश्रमं स जगाम ह । काशिराजं च काश्यामप्रेषयद्गणनायकः ॥४७॥ लोकैर्नृपो ढुंढिराजं स्थापयामास वै पुरे । नित्यं तं पूजयामास सर्वैर्भक्तिसमन्वितः ॥४८॥ अदितिं कश्यपं देवस्तौ प्रोवाच विनायकः । भूभारहरणार्थं च जातोऽहं युवयोः सुतः ॥४९॥ तच्च सर्वं कृतं कर्माधुना यामि निजं पुरम् । एवमुक्त्वा ददौ ताभ्यां ज्ञानं सोऽन्तर्हितो- ऽभवत् ॥५०॥ ततस्ताभ्यां गणेशस्य मूर्तिः संस्थापिता प्रभोः । विनायकेति नाम्ना सा विख्याता प्रबभूव ह ॥५१॥
प्रह्लाद काशिराजोऽपि मुद्गलस्योपदेशतः । सदेहः स ययौ राजा स्वानंदे गणनायकम् ॥५२॥ एतत्ते कथितं सर्वं विनायक- चरित्रकम् । संक्षेपेण महाभाग एकदंतावतारजम् ॥५३॥ शृणुयाद्यः पठेद्वाऽपि स लभेदीप्सितं फलम् । अंते स्वानंदवासेने ब्रह्मभूतो भविष्यति ॥५४॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदंतचरिते विनायकचरितं नाम द्विषष्टितमोऽध्यायः ॥
॥ श्रीगणेशाय नमः ॥ गृत्समद उवाच । शृणु पुष्टिपतेः ख्यातं सर्वपापहरं परम् । भुक्तिमुक्तिप्रदं चैव गणेशस्य महात्मनः ॥१॥ शकुनेश्च महामानी पुत्रोऽभूद् दुर्मतिः पुरा । दैत्यराजस्य तेजस्वी महापर्वतसन्निभः ॥२॥ तताप तप उग्रं स शक्तिं ध्यात्वा महासुरः । नवार्णेन सुमंत्रेण शुक्रशिष्यः प्रतापवान् ॥३॥ सहस्त्रवर्षे प्रगते शक्तिः सा वरदाऽभवत् । आययौ भक्तमुख्यं साऽबोधयत्तं वरं वृणु ॥४॥ तेनाऽपि पूजिता देवी माहात्म्येन च संयुता । शक्तेस्तेन प्रसन्ना सा तस्मै सर्वाऽभयं ददौ ॥५॥ त्रैलोक्यराजमुग्रं च संग्रामे जयमादरात् । आरोग्यं च स्वलोके सा प्रययौ सिंहवाहिनी ॥६॥ तत्र तेन क्रमेणैव जितं सर्वं चराचरम् । विष्णुमुख्याः सुराः सर्वे वने वासं प्रचक्रिरे ॥७॥ शक्तिं शिवेन संयुक्तां पीडयित्वा महाखलः । पत्नीं कर्तुं समुद्युक्तो देवीं दैत्याधिपोऽभवत् ॥८॥ शक्तिर्लोकं परित्यज्य शिवेन सहिता ययौ । अंतर्धाय स्वमात्मानं वने वासं चकार ह ॥९॥ गते कियति काले तौ नारदस्तत्र चागतः । जगाद विघ्नराजस्य ताभ्यां चोपासनां शुभाम् ॥१०॥ पुत्रभावेन देवेशो भविष्यति गणेश्वरः । आराधितो न संदेहो दुर्मतिं स हनिष्यति ॥११॥ एवमुक्त्वा गते चैव नारदे शक्तिशंकरौ । तेपाते तप उग्रं तौ षोडशाक्षरमानतः ॥१२॥ मंत्रं षोडशवर्णाख्यं जपतुर्गणपस्य च । एवं वर्षशते पूर्णे गणेशो वरदोऽभवत् ॥१३॥ आगतं गणपं दृष्ट्वा नेमतुश्चरणांबुजे । गणाधीशं तुष्टुवतुः शिवशक्ती कृतांजली ॥१४॥ शक्तिशिवावूचतुः । नमस्ते गणनाधाय गणानां पतये नमः । भक्तिप्रियाय देवेश भक्तेभ्यः सुखदायक ॥१५॥ स्वानंदवासिने तुभ्यं सिद्धिबुद्धिवराय च । नाभिशेषाय देवाय ढुंढिराजाय ते नमः ॥१६॥ वरदाभयहस्ताय नमः परशुधारिणे । अनामयाय सर्वाय सर्वपूज्याय ते नमः ॥१७॥ सगुणाय नमस्तुभ्यं ब्रह्मणे निर्गुणाय च । ब्रह्मभ्यो
खं. २ अ. ६३ पान १३३ ब्रह्मदात्रे च गजानन नमोऽस्तु ते ॥१८॥ ज्येष्ठाय चादिपूज्याय ज्येष्ठराजाय ते नमः । मात्रे पित्रे च सर्वेषां हेरंबाय नमो नमः ॥१९॥ अनादये च विघ्नेश विघ्नकर्त्रे नमो नमः । विघ्नहर्त्रे स्वभक्तानां लंबोदर नमोऽस्तु ते ॥२०॥ त्वदीय- भक्तियोगेन योगीशाः शांतिमागताः । किं स्तुवो योगरूपं त्वां प्रणमावश्च विघ्नप ॥२१॥ तेन तुष्टो भव स्वामिन्नित्युक्त्वा तं प्रणेमतुः । तावुत्थाप्य गणाधीश उवाचाऽसौ महेश्वरौ ॥२२॥ गणेश उवाच । भवत्कृतमिदं स्तोत्रं मम भक्तिविवर्धनम् । पठते शृण्वते चैव भविष्यति सुखप्रदम् ॥२३॥ भुक्तिमुक्तिप्रदं चैव पुत्रपौत्रादिकं तथा । धनधान्यादिकं सर्वं लभते तेन निश्चितम् ॥२४॥ वरं च वदतं देवौ प्रसन्नोऽहं ददामि तम् । भवतोर्भक्तिभावेन विभुः स्तोत्रेण तोषितः ॥२५॥ शक्तिशिवावूचतुः । यदि प्रसन्नभावेन वरदोऽसि गजानन । तदा नौ पुत्रतां याहि कृतकृत्यौ तया विभो ॥२६॥ भक्तिं देहि दृढां देव त्वदीये पादपंकजे । दुर्मतिं जहि विघ्नेश त्रैलोक्यं च सुखीकुरु ॥२७॥ गृत्समद उवाच । तयोर्वचनमाकर्ण्यामि- त्युक्त्वाऽन्तर्दधे विभुः । शिवौ संतोषयुक्तौ च तत्र संचेतुरभयात् ॥२८॥ एकदा पार्वती शंभुर्वैशाखस्नानमादरात् । चक्रतुर्गणनाथस्य प्रीतये हिमपर्वते ॥२९॥ भागीरथीजले नित्यं स्नात्वाऽपूजयतां च वै । दूर्वादिभिर्मृन्मयं तौ गणनाथं सुभक्तितः ॥३०॥ वैशाखपूर्णिमायां तावुषःकाले तु भक्तितः । स्नात्वा मूर्तिं शिवौ कृत्वा ध्यानं चक्रतुरादरात् ॥३१॥ ध्यात्वा हृद्यावाहयतां गणाधीशं तमंजसा । मूर्तौ सा ह्यचला मूर्तिः सचैतन्या बभूव ह ॥३२॥ चतुर्भुजधरस्तत्र गणराजो बभौ स्वयम् । उवाच पितरौ देवः पुत्रोऽहं वां न संशयः ॥३३॥ वरदानप्रभावेण वैशाखस्नानजेन च । तपसा पुत्ररूपं मां रक्षतं पितरौ सदा ॥३४॥ ततः प्रणम्य तं देवः शंकरः शक्तिसंयुक्तः । तुष्टावाथर्ववेदोक्तोपनिषद्भिर्महायशाः ॥३५॥ ततो गणपतिः प्रीत्या मोहयामास मायया । शिवं सशक्तिकं तत्र पुत्रभावप्रकाशनात् ॥३६॥ ततस्तस्य स संस्कारान् कारयामास वै द्विजैः । शिवश्च जातकर्मादीन् हर्षयुक्तेन चेतसा ॥३७॥ ततो लक्ष्मीसुता पुष्टिस्तपसा च बभूव ह । तां ददौ स गणेशाय विष्णुः परमहर्षितः ॥३८॥ एकदा तत्र संयातो ग्रहोत्तमशनैश्चरः । दर्शनार्थं गणेशस्य सस्त्रीकस्य महामतिः ॥३९॥ प्रणनाम स सस्त्रीकं गणेशं दैत्यनायक। जगाद भक्तिसंयुक्तो वचनं सर्वसन्निधौ ॥४०॥ धन्यं मे जन्म विद्या च तपो विद्यादिकं महत् । येन ते दर्शनं प्राप्तं सस्त्रीकस्य गजानन ॥४१॥ त्वं साक्षायोगरूपश्च पुष्टिः पोषणकारिणी । विश्वंभरा
महाशक्तिस्तस्माद्वां वै नमो नमः ॥४२॥ एतस्मिन्नंतरे तत्र शक्तिः स्वयमुपागता । प्रणतं रविपुत्रं तमुवाच प्रेमनिर्भरा ॥४३॥ पश्य पश्य ग्रहश्रेष्ठ सम्यक् सर्वत्र भावतः । ततस्तां स शनिर्देवीमवोचद् दुःखितो भृशम् ॥४४॥ ॥ ओमिति श्रीमदांद्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खंडे एकदंतचरिते शनिसमागमो नाम त्रिषष्टितमोऽध्यायः ॥ ॥ श्रीगणेशाय नमः ॥ प्रह्लाद उवाच । किमर्थं दुःखितो देवः शनिस्तत्र बभूव ह । तन्मे त्वं सकलं ब्रूहि रविपुत्रस्य चेष्टितम् ॥१॥ गृत्समद उवाच । शृणु तत्रैव संजातं वृत्तांतं साधुसत्तम । तेन ते सर्वसंदेहो नाशं यास्यति निश्चितम् ॥२॥ शनिरुवाच । शृणु शक्ते महामाये एकदाऽहं गृहे स्थितः । सूर्यपूजनसंशीलो ध्याननिष्ठोऽभवं पुरा ॥३॥ निशि तत्र समायाता पत्नी मे वेषधारिणी । भूषणैर्भूषिता सर्वैर्मां जगाद सुविह्वला ॥४॥ ऋतुदानमिदानीं त्वं मह्यं देह्येव भानुज । पश्य मां सर्व- शृंगारयुक्तां भर्तर्नमोऽस्तु ते ॥५॥ अहं ध्यानसमायुक्तो नाऽपश्यं च हि तां प्रियाम् । द्विमुहूर्ते गते सा मां शशाप क्रोधसंयुता ॥६॥ यदि मां पश्यसि न च भर्तस्त्वं विफलं ऋतुम् । करोषि तेन दृष्टं यत्त्वया नष्टं भविष्यति ॥७॥ एवमुक्त्वा गता सा वै तदहादहमंजसा । न पश्यामि कदा कुत्र जगदंब यथायथम् ॥८॥ तस्य तद्वचनं श्रुत्वा जगदंबा तमब्रवीत् । पश्य त्वं ग्रह वै ढुंढिं तेन सर्वं शुभं भवेत् ॥९॥ एवमुक्तः शनिस्तत्र गणेशानमलोकयत् । सर्वांगैः शोभमानं वै सस्त्रीकं साधुसत्तम ॥१०॥ ततस्तस्य गणेशस्य मस्तकं सहसा गतम् । अंतर्धानं च तद् दृष्ट्वा हाहाकारो बभूव ह ॥११॥ मुहूर्ते प्रगते तत्र पुनस्तं देवविप्रपाः । अपश्यन् शिरसा युक्तं सर्वावयवसुंदरम् ॥१२॥ ततो हर्षयुताः सर्वे तुष्टुवुस्तं गजाननम् । शनिः प्रणतभावेन तुष्टाव गणनायकम् ॥१३॥ शनिरुवाच । नमस्ते गणनाधाय पुष्टिकांताय ते नमः । विश्वंभराय सर्वादिपूज्याय तु नमो नमः ॥१४॥ सर्वेषां मातृरूपेण स्थितेयं पुष्टिकारिका । पिता त्वं पुष्टिदाता च सत्तारूपेण संस्थितः ॥१५॥ क्षमस्वैतं चापराधं मदीयं गणनायक । पुत्रोऽहं ते महाभाग प्रार्थये द्विरदानन ॥१६॥ किं स्तौमि त्वां च हेरंब योगरूपं सनातनम् । वेदाद्यैर्यौगिभिः स्तोतुं शक्यते न नमाम्यहम् ॥१७॥ तथापि बुद्धिप्रामाण्यात् स्तुवंति त्वां महेश्वराः । अतोऽहं त्वां महाराज स्तौमि भक्तिसमन्वितः ॥१८॥ नमस्ते बुद्धिकांताय सिद्धिनाथ नमोऽस्तु ते । ब्रह्मणं पतये तुभ्यं हेरंबाय नमो नमः ॥१९॥
सगुणत्वे सरूपाय नैर्गुण्ये गजरूपिणे । तयोर्योगे च योगाय शांतिरूपाय ते नमः ॥२०॥ पुन्नामनरकान्त्राता पुत्रस्तेन प्रकीर्तितः । शिवपुत्राय वै तुभ्यं गणेशाय नमो नमः ॥२१॥ सिद्धिर्माया च वामांगे मायिके दक्षिणे च धीः । तयोर्भेद- योगे त्वमेकदंताय ते नमः ॥२२॥ एवमुक्त्वा प्रहर्षेण सरोमांचो बभूव ह । प्रणनाम स साष्टांगं भक्तिभावेन संप्लुतः ॥२३॥ तमुत्थाप्य गणाधीशो जगाद स शनैश्चरम् । वरं वरय दास्यामि यस्ते चित्ते प्रवर्तते ॥२४॥ त्वया कृतमिदं स्तोत्रं मम प्रीतिकरं भवेत् । यः पठिष्यति यो मर्त्यः शृणुयात् सर्वदं भवेत् ॥२५॥ ततस्तं गणनाथं स उवाच रविनंदनः । भक्तिं देहि त्वदीयां मे शापान् मोचय मां प्रभो ॥२६॥ ततस्तं गणराजश्च स जगादासुरेश्वर । भक्तिर्मदीया भविता दृढा सौरे न संशयः ॥२७॥ क्रूरदृष्ट्या च यं कंचित् पश्यसि त्वं शनैश्चर । स एव नाशमायातु निःशापो भव सर्वदा ॥२८॥ ततो विष्णुं जगामाऽसौ तं प्रणम्य च भानुजः । उवाच देहि मे नाथ गणेशोपासनां शुभाम् ॥२९॥ ततस्तेन समाख्यातं कवचादिक- मुत्तमम् । गीतासारं ददौ तस्मा एकाक्षरमनुं प्रभोः ॥३०॥ ततस्तं प्रययौ गेहे प्रणम्य स शनैश्चरः । योगं च साधयामास गाणपत्यो बभूव ह ॥३१॥ ततः कियति काले च गते शंकरमब्रवीत् । गणेशो भावयुक्तं यद्वचनं भक्तवत्सलः ॥३२॥ किं तात देवदेवेशैर्मुनिभिश्च सदाशिव । वनवासं करोषि त्वं वद कारणमत्र माम् ॥३३॥ जगाद शंकरो हृष्टस्ततस्तं भक्ति- भावितः । जगत् सर्वं दुर्मतिनाऽसुरेशेन पराजितम् ॥३४॥ ब्रह्मांडाधिपतिः सोऽपि प्रजातो वरदानतः । अस्माकं सकलैश्वर्यं हृत्वा श्रेष्ठोऽभवत् स्वयम् ॥३५॥ गृत्समद उवाच । शिवस्य वचनं श्रुत्वा क्रोधयुक्तो बभूव ह । गजाननो जगादेदं वचनं हितकारकम् ॥३६॥ गणेश उवाच । मयि ते पुत्रतां याते दुर्लभं किं च ते भवेत् । हनिष्यामि महादैत्यं पश्य मे पौरुषं शिव ॥३७॥ एवमुक्त्वा महादेवं सन्नद्धः स गजाननः । मूषकारूढको भूत्वा त्वगमद्दैत्यनायकम् ॥३८॥ तमनु प्रययुर्देवा मुनयो भक्तितत्पराः । नगरप्रांतभागे च स गत्वा संस्थितोऽभवत् ॥३९॥ दूतं संप्रेषयामास विष्णुं देववरं ततः । स गत्वा दुर्मतिं दुष्टमबोधीद्युक्तिभिश्च तम् ॥४०॥ विष्णुरुवाच । स्वानंदवासकारी यो गणेशो ब्रह्मनायकः । शिवेन तपसा सोऽपि याचितः पुत्रकाम्यया ॥४१॥ स एव पुत्रतां प्राप्तः पुष्टीशो यः समागतः । त्वां बोधितुं च मां सोऽपि प्रेषयामास दुर्मते ॥४२॥ देवानां द्वेषमुत्सृज्य वस पातालमंडले । स्वस्वधर्मरता लोका भवंतु विगतज्वराः ॥४३॥ एवमुक्तो महादैत्यस्तमुवाच जनार्दनम् । दूत्येन त्वं समायातो नो चेद्धन्मि प्रभावतः ॥४४॥ कः स्वानंदपतिः सोऽपि देवपक्षधरो-
ऽभवत्। तं हनिष्यामि वेगेन द्रक्ष्यसि त्वं गजाननम् ॥४५॥ ततो विष्णुः समायातो गणेशं तस्य दुर्मतेः। वृत्तांतमवदत्तीव्रं श्रुत्वा चुक्रोध विघ्नपः ॥४६॥ बभूव मूषकारूढो तं हंतुं शस्त्रधारकः। देवाः सर्वे च सन्नद्धा बभूवुरसुरेश्वर ॥४७॥ ॥ ओमिति श्रीमदान्द्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खंडे एकदंतचरिते विष्णुदौत्यवर्णनं नाम चतुःषष्टितमोऽध्यायः ॥
॥ श्रीगणेशाय नमः ॥ गृत्समद उवाच । ततः स दैत्यराजोऽपि स्वसेनासंवृतो ययौ । रथारूढो महातेजाः शस्त्रास्त्रैः संयुतो बभौ ॥१॥ दुर्मतिर्गणपं दृष्ट्वा चुकोपाऽतितरां खलः । आज्ञापयत् स्वसेनां वै देवानां कदनाय च ॥२॥ ततो दैत्याश्च देवास्ते युयुधुश्चातिदारुणम् । असंबद्धं महाक्रोधा जग्मुः सप्त च वासराः ॥३॥ देवसेना ततो भग्ना पलायत दिशो दश । भयभीता ततः क्रोधाद्युयुधे शंकरो भृशम् ॥४॥ ततो दुर्मतिना तत्र कृतं युद्धं महाद्भुतम् । मूर्च्छिताः पतिताः केचिद्देवेशाः खंडिताः शरैः ॥५॥ शंभुं विष्णुं च देवेंद्रं सर्वानन्यान् सुमूर्च्छितान् । तान् दृष्ट्वा गणराजस्तु क्रोधयुक्तो बभूव ह ॥६॥ मूषकारूढ एवाऽसौ संग्रामाय समाययौ । तं दृष्ट्वा दुर्मतिः प्राह क्रोधारुणविलोचनः ॥७॥ दुर्मतिरुवाच । किमर्थं मूर्खभावेन युद्धाय समुपागतः । बाणेनैकेन हन्मि त्वां पश्य मे पौरुषं खल ॥८॥ ब्रह्मांडं निर्जितं येन तेन युद्धं करिष्यसि । अज्ञानेनावृतो नूनं गच्छ त्वां नैव हन्म्यहम् ॥९॥ एवं वदंतमुग्रं तं दैत्येशं दुर्मतिं प्रभुः । जगाद हास्यसंयुक्तः पतिः पुष्टेः प्रतापवान् ॥१०॥ पुष्टिपतिरुवाच । मा गर्वं कुरु दैत्येश दुर्मते शृणु मे वचः । त्वां हनिष्यामि नूनं च पश्य मे पौरुषं महत् ॥११॥ इत्युक्तवंत- मप्येनं दुर्मतिः सहसा ययौ । दंतं धृत्वा गणेशस्याकर्षयत् क्रोधसंयुतः ॥१२॥ महाबलेन दैत्येन वामदंतः प्रपातितः । भंक्त्वा स धरणी पृष्ठे तं दंतं गणपोऽग्रहीत् ॥१३॥ दंतेन शिरसि प्रोतो दुर्मतिः स ममार ह। ततः पुष्टिपतिर्देवान् सावधानांश्चकार ह ॥१४॥ ततो दैत्यगणाः सर्वे पलायंत दिशो दश । पातालं जग्मुरत्यंतं भयभीताः समंततः ॥१५॥ ततो देवेश्वरास्तत्र मुनयो हर्षसंयुताः । अपूजयंस्तथा पुष्टिपतिं ते तुष्टुवुः पुनः ॥१६॥ देवर्षय ऊचुः । जय देव गणाधीश जय विघ्नहराव्यय । जय पुष्टिपते ढुंढे जय सर्वेश सत्तम ॥१७॥ जयानंत गुणाधार जय सिद्धिप्रद प्रभो । जय योगेन योगात्मन् जय शांतिप्रदायक ॥१८॥ जय ब्रह्मेश सर्वज्ञ जय सर्वप्रियंकर । जय स्वानंदपस्थायिन् जय वेदविदांवर ॥१९॥
खं. २ अ. ६५ | पान १३७
जय वेदांतवादज्ञ जय वेदांतकारण । जय बुद्धीश्वर प्राज्ञ जय सर्वामरप्रिय ॥२०॥ जय मायामये खेलिन् जयाव्यक्त गजानन । जय लंबोदरः साक्षिन् जय दुर्मतिनाशन ॥२१॥ जयैकदंतहस्तस्त्वं जयैकरदधारक । जय योगिहृदिस्थ त्वं जय ब्राह्मणपूजित ॥२२॥ जय कर्म तपोरूप जय ज्ञानप्रदायक । जयामेय महाभाग जय पूर्णमनोरथ ॥२३॥ जयानंद गणेशान जय पाशांकुशप्रिय । जय परशुधर त्वं वै जय पावनकारक ॥२४॥ जय भक्ताभयाध्यक्ष जय भक्तमहाप्रिय । जय भक्तेश विघ्नेश जय नाथ महोदर ॥२५॥ नमो नमस्ते गणनायकाय नमो नमस्ते सकलात्मकाय । नमो नमस्ते भव- मोचनाय नमो नमस्तेऽतिसुखप्रदाय ॥२६॥ इति स्तुत्वा गणाधीशं प्रणेमुस्तं महामते । उत्थाय ननृतुः सर्वे हर्षयुक्ताः सुरर्षयः ॥२७॥ तेषां महोत्सवं दृष्ट्वा तान् जगाद महाप्रभुः । प्रसन्नात्मा पुष्टिपतिर्भक्तान् भक्तप्रियंकरः ॥२८॥ पुष्टिपतिरुवाच । भवत्कृतमिदं स्तोत्रं यः पठिष्यति नित्यशः । श्रोष्यते सकलं तस्य जयरूपं भविष्यति ॥२९॥ पठनाच्छ्रवणादस्य सर्वं जयति मानवः । अंते मदीयसायुज्यं प्राप्नोत्यत्र न संशयः ॥३०॥ एवमुक्तवांतर्दधेऽसौ पतिः पुष्टेर्गणेश्वरः । देवाश्च मुनयः सर्वे विस्मिता अभवंस्तदा ॥३१॥ स्वे स्वे पदे च ते जग्मुर्यथा सुखरताः पुरा । तथा पुनः स्वलोकस्था मोदंते स्म च तत्पराः ॥३२॥ स्वाचारं मुनयश्चकुर्वर्णाश्रमरता जनाः । बभूवुरभजंस्तं ते स्वधर्मेण गजाननम् ॥३३॥ शिवश्च शक्तिसंयुक्तस्तमेव हृदये स्थितम् । अभजत् भावयुक्तश्च गाणपत्यः प्रतापवान् ॥३४॥ मूर्ति चक्रुर्गणेशस्य स्थापयामासुरादरात् । वैशाखपूर्णिमायां चाभवत्तत्र महोत्सवः ॥३५॥ तत्र सिद्धिरनुप्राप्ता शिवेन ननु मानद । चक्रुः सिद्धाश्रमं नाम्ना क्षेत्रं देवर्षयः परम् ॥३६॥ तत्रैव सिद्धिमापन्ना देवा ब्रह्मर्षयः पुरा । सनकाद्या महात्मानो गाणेशास्तेऽभवंस्ततः ॥३७॥ अत्र ते वर्णयिष्येऽहमितिहासं पुरातनम् । अगस्त्यस्य च संवादयुक्तं च ब्रह्मणः पुरा ॥३८॥ एकदा वनगो भूत्वाऽगस्त्यस्तपसि संस्थितः । लोपामुद्रा च सेवायां रता पत्नी तथाऽभवत् ॥३९॥ राजपुत्री महाभागा पातिव्रत्यपरायणा । सुकुमाराऽभवत्तत्र कर्षिता सेवनोत्सुका ॥४०॥ घर्मेण सकलं व्याप्तं वपुस्तस्या रजोयुतम् । शिरो जटायुतं वीक्ष्य तुतोष मुनिसत्तमः ॥४१॥ तामुवाच वरं ब्रूहि दास्येऽहं भावयंत्रितः । सोवाच राजभोगेन युक्तं देहि मुने ऋतुम् ॥४२॥ ततः स राजभोगार्थं द्रव्येप्सुश्च समागतः । राजानं याचनार्थाय सार्वभौमं ययाच वै ॥४३॥ दिलीपस्तमुवाचाथ कियन्मानं धनं वद । दास्यामि भाव- संयुक्तस्तुभ्यं तत्तापसोत्तम ॥४४॥ राज्ञो वचनमाकर्ण्यावाच तं मुनिसत्तमः । व्ययादुवरितं यन् मे धनं देहि सुपुष्कलम् ॥४५॥
अ. ६६ | पान १३८ ततो दिलीपो राजा तं जगाद व्ययमानकम् । द्रव्यं मेऽस्ति महाभाग तस्मात् संख्यां वदस्व भो ॥४६॥ जगाद मुनिशार्दूलः ततस्तं विस्मयान्वितः । न ग्रहीष्यामि ते द्रव्यं दरिद्रस्य न संशयः ॥४७॥ मया द्रव्यं त्वदीयं वै गृहीतं चेन्नराधिप । तदा सर्वे जना राजन् भवंति च निपीडिताः ॥४८॥ अतस्त्वं राजभिर्युक्तश्चल शीघ्रं नराधिप । मया सार्धं महद् द्रव्यं यत्र वै संचितं भवेत् ॥४९॥ ततो राजा च वृत्तांतं कथयामास तं मुनिम् । वातापिर्दैत्यपोऽगस्त्यद्रव्ययुक्तो भवत्यपि ॥५०॥ देवैरवध्यतां प्राप्य हंति विप्रांश्च नित्यशः । पशुं कृत्वाऽनुजं दुष्ट इल्वलं श्राद्धकर्मणि ॥५१॥ देवानां निधनार्थाय कर्ममूल- निकृंतनः । अखिलं ब्राह्मणाधारं कर्म तेन हिनस्ति तत् ॥५२॥ इल्वलश्चाऽपि योगींद्र वरयुक्तप्रभावतः । गत्वोदरे कामरूपो वाताप्याहूत एव सः ॥५३॥ तदा तेषां नखेनैव स्फोटयित्वा महोदरम् । निर्गत्य पूर्वदेहसंयुक्तो भवतीत्यहो ॥५४॥ अतस्त्वं गच्छ योगींद्र तं हत्वा द्रव्यसंचयम् । गृहाणास्माभिरत्यंतं वातापिं भ्रातृसंयुक्तम् ॥५५॥ दिलीपस्य वचः श्रुत्वा हर्षयुक्तो महामुनिः । राजभिर्ब्राह्मणैर्युक्तस्तत्र गंतुं मनो दधे ॥५६॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदंतचरिते पुष्टिपत्युपाख्याने अगस्त्यस्य द्रव्यप्रयत्नो नाम पंचषष्टितमोऽध्यायः ॥
॥ श्रीगणेशाय नमः ॥ गृत्समद उवाच । अगस्त्यो राजभिर्युक्तो ब्राह्मणैश्च समन्वितः । वातापेः सुस्थलं रम्यं ययौ क्रोधसमन्वितः ॥१॥ तमागतं स विज्ञाय वातापिर्हर्षितो ययौ । प्रणम्य प्रत्युवाचेदं वचनं विनयान्वितः ॥२॥ वातापिरुवाच । स्वामिंस्ते स्वागतं मेऽद्य भाग्यं सुफलितं महत् । ब्राह्मणै राजभिः सार्धं प्रपश्यामीऽह तापसम् ॥३॥ श्राद्धं मे भगवन्नद्य पितुरत्र समागतम् । निमंत्रयाम्यहं सर्वैस्त्वां महाभाग वै सह ॥४॥ जगाद तं तथेत्येव दैत्यः संहर्षितो- ऽभवत् । इल्वलं पशुभावस्थं कृत्वा संछिद्य दैत्यपः ॥५॥ पपाच विधिवन्मांसं ब्राह्मणार्थं विधानवित् । ततोऽगस्त्यं समायातं भोजनार्थं सहानुगम् ॥६॥ विधिवत् पूजयित्वा तं स्थापयामास चासने । तेनांगुष्ठेन भूमिः सा पीडिता मुनिना कृतः ॥७॥ गर्तस्तत्र च सर्वान्नं पूरितं दैत्यदेहजम् । तज्ज्ञात्वा विस्मितो दैत्यो न किंचित्तमुवाच ह ॥८॥ अन्यान् सर्वान् सुभोज्येन भोजयामास चांधसा । अगस्त्यः सकलं भुक्त्वा चान्नमाल्वलजं महत् ॥९॥ मंत्रेण वैदिकेनाऽसौ
खं. २ अ. ६६ पान १३९ मंत्रयामास चोदरम् । तस्य मंत्रप्रभावेण दैत्यः संजीर्णतां गतः ॥१०॥ अपानवायुरत्युग्रो निःसृतो धूलिमुद्वहन् । तेन नादेन सर्वे ते विस्मिताः प्रबभूविरे ॥११॥ ततो मुनिः समुत्तस्थौ मुखप्रक्षालनाय च । क्षालयित्वा स हस्तादि संस्थितः स महाधने ॥१२॥ ततो वातापिना भ्रातैहीत्याहूतोऽभवत्तदा । उवाच मुनिशार्दूलस्ततस्तं दैत्यपुंगवम् ॥१३॥ स मृतो मे च मंत्रेण संजीर्णो जठरेऽधुना । अधुना त्वां हनिष्यामि दुष्ट ब्राह्मणहिंसकम् ॥१४॥ पलायत स तच्छ्रुत्वा वातापिर्भय- संकुलः । ततः सराजका विप्राः स्थापिता मुनिनाऽमुना ॥१५॥ तत्रैव स्वयमेनं तमगमत् दैत्यनायकम् । अगस्त्यः पृष्ठगं दृष्ट्वा समुद्रं शरणं ययौ ॥१६॥ वातापिस्तेन दैत्येंद्रः स्थापितः स्वजलेऽभवत् । ततस्तं जलधिं विप्र उवाच क्रोधसंयुतः ॥१७॥ देहि दैत्यं समुद्र त्वं नोचेच्छापं ददाम्यहम् । ततोऽगस्त्यं समुद्रश्च जगाद भयसंकुलः ॥१८॥ स्वभावो मे महाभाग अतो नाऽहं ददामि तम् । दैत्या देवभयाद्विप्र शरणं मामुपागताः ॥१९॥ अन्ये पर्वतभूपाश्च न दत्तास्ते मया मुने । अतस्त्वां प्रार्थयामीह कृपां कुरु दयानिधे ॥२०॥ त्यक्त्वा दैत्यं मुनिश्रेष्ठ गच्छ त्वं प्रणमाम्यहम् । क्षुभितोऽभूत्ततोऽगस्त्यो गर्विष्ठोऽयं महोदधिः ॥२१॥ मदमस्य हरिष्यामि तादृशं न ददर्श ह । ततो मुनिर्विधातारं शरणं वै जगाम ह ॥२२॥ प्रणम्य लोकनाथं तं पप्रच्छ च जगद्गुरुम् ॥२३॥ अगस्त्य उवाच । स्वामिन् समुद्रसंग्रस्तो वातापिर्द्विजहिंसकः । तदर्थं जलधिं नाथ शोषयामि मदान्वितम् ॥२४॥ तत्रोपायं वद ब्रह्मन् तं करिष्यामि यत्नतः । त्वं सर्वज्ञश्च सर्वेषां पितामह विशेषतः ॥२५॥ एवं तस्य वचः श्रुत्वा तं जगाद महामुनिम् । अगस्त्यं लोकनाथस्तु हर्षयुक्तेन चेतसा ॥२६॥ ब्रह्मोवाच । शृणु पुत्र महाभाग गर्विष्ठोऽयं महोदधिः । अधर्मचारिणो दैत्या रक्षितास्तेन निश्चितम् ॥२७॥ वातापिरधुनाऽरक्ष्यः सत्कृतस्तेन पुत्रक । अतस्तच्छोषणार्थाय गणपं शरणं व्रज ॥२८॥ तस्य तद्वचनं श्रुत्वा जगाद स पितामहम् । कथं त्यक्त्वा विधे देवान् गणेशानं प्रशंससि ॥२९॥ ततस्तं मुनिमुख्यं स ब्रह्मोवाच प्रजापतिः । शृणु पुत्र महाभाग कथां पापप्रणाशिनीम् ॥३०॥ विघ्नकर्ता च तद्धर्ता गणेशोऽयं न संशयः । तेन विघ्नेश्वरो नाम्ना वर्तते सर्वमंडले ॥३१॥ विघ्नाः सत्तात्मकाः प्रोक्तास्तेषां स्वामी गणेश्वरः । सर्वसत्ताधरः पूर्णस्तस्मात्तं कथयाम्यहम् ॥३२॥ अन्यच्च शृणु पुत्र त्वं विनायक इति श्रुतिः । नायकैः सेव्यते सर्वैः स्वस्वकार्यार्थमादरात् ॥३३॥ नायकैर्वर्जितः साक्षात्तेन स्वाधीनतां गतः । संसृष्टं सकलं विश्वं कलांशेन महामुने ॥३४॥ स्वस्वाधिकारसंयुक्ता कलांशजविभूतयः । समुद्रस्तासु तं पुत्र चालितुं
न क्षमा वयम् ॥३५॥ अत्र ते वर्णयिष्येऽहमितिहासं पुरातनम् । श्रवणात् संशयस्ते च नाशमेष्यति निश्चितम् ॥३६॥ गोलोके राधया युक्तः कृष्णो गोलोकवासिभिः । उवास तत्र देवेशः सर्ववंद्यः प्रतापवान् ॥३७॥ सर्वेषां मदहंता स जातः स्वस्यैव तेजसा । अस्माकं पालको भूत्वा विघ्नहीनः स्वभावतः ॥३८॥ तथा राधाऽपि देवीनां मदस्य हरणं बलात् । कृत्वा वंद्या स्वयं भूत्वोवास विघ्नविवर्जिता ॥३९॥ त्रिपुरादिभिरुग्रैश्च परस्परविरोधतः । विघ्नयुक्ताः शिवाद्यास्ते शरणं त्वगमन् परम् ॥४०॥ अन्याशरणकृष्णस्य हृदि गर्वः समागतः । सततं मदयुक्तः स बभूव परमाद्भुतः ॥४१॥ अहं ब्रह्मेति यत् प्रोक्तं तदेवाऽहं न संशयः । मदाधारमिदं सर्वं तस्मान्नान्योऽस्ति मत्परः ॥४२॥ मदनुग्रहमात्रेण देवाः शंभुपुरोगमाः । शक्ताः स्वव्यवहारेषु तस्मान्नान्योऽस्ति मत्परः ॥४३॥ एवं मनसि गर्वेण मदेन च समाकुलः । मदयुक्ता तथा राधा बभूव मुनिसत्तम ॥४४॥ ततो विघ्नकरो विघ्नं चकार परमाद्भुतम् । स्वभक्तिभावदानार्थं शांतियोगार्थ- मादरात् ॥४५॥ विररामैकदा युक्तो राधया वनमंडले । रतिक्रीडासमायुक्तो बभूवे कामसंयुतः ॥४६॥ तत्रैका नायिका तस्य प्रीतिदा विरजाऽभवत् । तया संस्मरणं सद्यः कृतं कृष्णस्य तत्क्षणे ॥४७॥ अधः स्थितां परित्यज्य राधां कृष्णो ययौ मुने । विरजां स तया सार्धं क्रीडासक्तो बभूव ह ॥४८॥ ततः संकुपिता राधा रतिभंगेन मानद । जगाद याः समीपस्था गोपिका वचनं तदा ॥४९॥ कुत्र दृष्टो महामानी कृष्णः स्त्रीलंपटाग्रणीः । तं मां वदत वै देव्यस्त्यजामि मनसा पतिम् ॥५०॥ ततस्तां गोपिका काचिदुवाच विनयान्विता । विरजाया मया राधे दृष्ट आश्रमसन्निधौ ॥५१॥ ततः सा क्रोधताम्राक्षी रथोपरि ययौ स्थिता । विरजाश्रमसांनिध्यं गोपीभिः संवृता मुने ॥५२॥ तामागतां समाज्ञाय कृष्णश्चांतर्दधे भयात् । विरजा जलरूपा सा जाता भयसमन्विता ॥५३॥ तया न दृष्टः सस्त्रीको देवेशस्तत्र राधया । पुनः स्वमंदिरे गत्वाऽतिष्ठच्च क्रोधसंयुता ॥५४॥ ततः स प्रकटः कृष्णो बभूव ह चकार ताम् । स्त्रीरूपां जलभावस्थां चिक्रीड भृशहर्षितः ॥५५॥ संतोषणे समायुक्तां कृत्वा स विरजां ययौ । राधां द्वारसमीपे चागतं वीक्ष्य जगाद सा ॥५६॥ राधोवाच । किमर्थं लंपटोऽत्यंतमागतोऽसि ममांतिकम् । गच्छ तां विरजां देव कदा न त्वां स्पृशाम्यहम् ॥५७॥ मदीयसत्तया लोको रचितोऽयं मया पुरा । त्यक्त्वा लोकं मदीयं वै गच्छ त्वं यत्र ते रुचिः ॥५८॥ इत्यादि विविधैर्वाक्यैः पतिं निर्भर्त्स्य राधिका । शशाप क्रोधसंयुक्ता मृत्युलोके पतेति तम् ॥५९॥ ततः शप्तं च तं ज्ञात्वा श्रीदामा गोपनायकः ।
[Header] खं. २ अ. ६७ | पान १४१
न्यभर्त्सयत् स तां क्रुद्धः कृष्णमित्रं प्रतापवान् ॥६०॥ तमतिक्रोधसंयुक्ता राधिका ह्यसुरो भव । शशाप सा मुनिश्रेष्ठ सोऽपि क्रोधयुतोऽभवत् ॥६१॥ राधां शशाप मर्त्येषु भव नारी त्वमंजसा । शतवर्षाणि कृष्णस्य वियोगेन समन्विता ॥६२॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खंडे एकदंतचरिते कृष्णराधाशापवर्णनं नाम षट्षष्टितमोऽध्यायः ॥
॥ श्रीगणेशाय नमः ॥ ब्रह्मोवाच । एवं परस्परं शप्त्वा खेदयुक्ता बभूविरे । गतगर्वाश्च सर्वे ते विचारं चक्रुरादरात् ॥१॥ अहं गोलोकराजोऽहं सर्वाधीशो न संशयः । इयं प्रकृतिरूपा मे कृतौ केनापराधिनौ ॥२॥ कृष्णोऽहं सर्वदेवेश अपि मां विघ्न उत्थितः । अतो वै विघ्नराजः स गणेशः कुरुतेऽखिलम् ॥३॥ हिताहितं न संदेहस्तदाधारमिदं जगत् । सस्त्रीकः शरणं यामि ब्रह्माकारमतश्च तम् ॥४॥ एवं विचार्य देवेशः सस्त्रीको मित्रसंयुतः । पपात भगवान् कृष्णो मृत्युलोके महामुने ॥५॥ मथुरायां च देवक्यां वसुदेवात् समुद्भवः । कृष्णो यादववंशे वै तेषां स सुखदोऽभवत् ॥६॥ वृषभानुसुता जाता राधा सा गोकुले मुने । शंखचूडो बभूवाऽथ श्रीदामाऽसुरसत्तमः ॥७॥ ततश्च गोकुलं कृष्णः कंसस्यैव भयाद्ययौ । तत्र राधासमायुक्तो बभूव स जनार्दनः ॥८॥ ततो विघ्नेशमत्यंतं भेजतुस्तौ स्वभावतः । षोडशाक्षरमंत्रेण परे तपसि संस्थितौ ॥९॥ पुरश्चरणमेकं तौ चक्रतुः परमादरात् । बभूवतुस्ततो ध्यानसमायुक्तौ निरंतरम् ॥१०॥ तपस्त्यक्त्वा तस्य हृदि ध्यानयुक्तौ विशेषतः । तपसोऽधिकमुग्रं वै ध्यानं शास्त्रेषु संमतम् ॥११॥ संवत्सरान् स तत्रैव कृष्णश्चैकादश स्थितः । ततश्च मथुरायां स जगामाक्रूरसंयुतः ॥१२॥ शतवर्षं वियोगेन राधाकृष्णौ बभूवतुः । युक्तौ परमदुःखात्तौ ध्यायंतौ गणनाय कम् ॥१३॥ ततस्तयोश्च संप्राप्तो योगः शांतिप्रदायकः । तेन संतोषमापन्नौ गाणपत्यौ बभूवतुः ॥१४॥ गते वर्षशते विप्र जग्मतुस्तौ सहानुगौ । वैशाखपूर्णिमायां वै मुने बदरिकाश्रमम् ॥१५॥ तत्र शंभुमुखा देवाः सस्त्रीकाश्च समागताः । यात्रार्थं गणनाथस्य मुनयश्च ययुर्मुदा ॥१६॥ शेषादयो महानागा राजानश्च विशेषतः । त्रिलोकस्था जनाः सर्वे जग्मुस्तत्र महामुने ॥१७॥ योगिनः कपिलाद्याश्च तत्राऽहं संगतो मुने । सर्वैर्महोत्सवस्तत्र वार्षिकः क्रियते सदा ॥१८॥ ततस्तं पूजयित्वा ते सर्वे चोपोषणान्विताः । स्थिताश्चक्रुः प्रतिपदि पारणं ते महामुने ॥१९॥ तत्र राधा च कृष्णश्च
पान १४२ मिलितौ गणपं निशि । ध्यायन्तौ भावसंयुक्तौ जेपतुर्मन्त्रमुत्तमम् ॥२०॥ ततस्तयोर्गणेशानो दर्शयामास चोत्तमम् । रूपं चतुर्भुजं साक्षाद्गजवक्रादिचिह्नितम् ॥२१॥ तं दृष्ट्वा सहसोत्थाय नेमतुश्चरणाम्बुजे । सरोमांचौ तुष्टुवतुः साश्रुनेत्रौ गणेश्वरम् ॥२२॥ राधाकृष्णावूचतुः । नमस्तुभ्यं पुष्टिफ्ते नमः शंकरसूनवे । ब्रह्मभूताय देवाय सर्वसिद्धिप्रदाय ते ॥२३॥ स्वानंदवासिने तुभ्यं ब्रह्मपुत्राय ते नमः । सिद्धिबुद्धिपते ते वै गणेशाय नमो नमः ॥२४॥ हेरंबाय नमस्तुभ्यं नमो योगमयाय च । सर्वाद्ये च सर्वेश सर्वज्ञाय नमो नमः ॥२५॥ निर्गुणाय नमस्तुभ्यं सगुणाय नमो नमः । गजाननाय वै तुभ्यमभेदाय तयोर्नमः ॥२६॥ शांतिरूपाय शांताय शांतिदाय महोदर । मूषकश्रेष्ठयानाय गाणपत्यप्रियाय ते ॥२७॥ अनंतानन्तरूपाय भक्तसंरक्षकाय च । भक्तिप्रियाय देवाय भक्त्यधीनाय ते नमः ॥२८॥ चतुर्बाहुधरायैव नागयज्ञोपवीतिने । शूर्पकर्णाय शूराय परशोधर ते नमः ॥२९॥ विष्णुपूत्राय सर्वेषां पित्रे मात्रे नमो नमः । विनायकाय विप्राणां पुत्राय च नमो नमः ॥३०॥ सर्वेषां गर्वहंत्रे च सर्वेभ्यः सुखदाय ते । लंबोदराय विघ्नेश ब्रह्मनायक ते नमः ॥३१॥ किं स्तुवस्त्ववां गणाधीश यत्र वेदादयः प्रभो । शंभुः शुकादयश्चैव बभूवुः कुंठिताः परम् ॥३२॥ आवां गर्वयुतौ जातौ ब्रह्माकारौ वृथा प्रभो । तव तत्र च विघ्नेन कृतं गर्वस्य खंडनम् ॥३३॥ साधूनां विघ्नदाता त्वं शांतियोगार्थमंजसा । असाधूनां विनाशाय ह्यतस्त्वां प्रणमावहे ॥३४॥ विघ्नयुक्ततया ढूंढे आवाभ्यां योगसेवया । साक्षात्कारकृतस्त्वं वै समीचीनमिदं कृतम् ॥३५॥ हृदि चिंतामणिं त्वां च पश्यावः सततं प्रभो । अतः स शुभदो विघ्नः संजातो नौ गजानन ॥३६॥ अधुना देहि विघ्नेश भक्तिं ते चरणाम्बुजे । दृढां यया च गर्वेण न भवावः समायुतौ ॥३७॥ इत्युक्त्वा तं ननृततुः प्रणम्यैव मुदान्वितौ । धन्यौ धन्यौ प्रब्रुवंतौ दर्शनाद्गणपस्य तौ ॥३८॥ ब्रह्मोवाच । जगाद गणनांथस्तौ ततो वै भक्तिभावितः । दृष्ट्वा ब्रह्मरसा- ह्लादयुतौ राधाजनार्दनौ ॥३९॥ पुष्टिपतिरुवाच । भो राधे कृष्ण मे वाक्यं शृणुतं जगदीश्वरौ । मदीयां भक्तिमत्यंतं संशयो न करिष्यथः ॥४०॥ संकटे स्मरणेनैव प्रकटः संभवाम्यहम् । यं यमिच्छथ आनंदं सफलः स भविष्यति ॥४१॥ भवत्कृतमिदं स्तोत्रं पठतां शृण्वतां नृणाम् । सर्वसिद्धिप्रदं पूर्णं भविष्यति सुरेश्वरौ ॥४२॥ मत्प्रीतिवर्धनं नित्यं वाञ्छितार्थकरं भवेत् । अंते स्वानंददं कृष्ण भविष्यति न संशयः ॥४३॥ एवमुक्त्वाऽंतर्दधेऽसौ गणेशो ब्रह्मनायकः । तौ तं हृदि विशेषेण पश्यंतौ तस्थतुर्निशि ॥४४॥ ततः पुनश्च गोलोके गतौ राधाहरी स्वके । बभूवतुरखंडैश्वर्यसंयुक्तौ
खं. २ अ. ६८ पान १४३ महामुने ॥४५॥ अतस्त्वं मदहीनश्च शरणं गणपं व्रज । अगस्त्य तेन ते वाञ्छां पूरयिष्यति स प्रभुः ॥४६॥ ब्रह्मांडं वर्तते तस्याऽऽधारेण मुनिसत्तम । सर्वत्र गणनाथोऽयं क्रीडति स्वेच्छया स्वयम् ॥४७॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदंतचरिते राधाकृष्णगोलोकप्राप्तिवर्णनं नाम सप्तषष्टितमोऽध्यायः ॥ ॥ श्रीगणेशाय नमः ॥ गृत्समद उवाच । श्रुत्वा कथां महारम्यामगस्त्यस्तमुवाच ह । प्रणयावनतो भूत्वा ब्रह्माणं सर्ववेदिनम् ॥१॥ अगस्त्य उवाच । भगवन् सर्वतत्त्वज्ञ कथितं सर्वमंजसा । त्वया तेनाहमत्यंतं सुतुष्टो ब्रह्मवित्तम ॥२॥ एतादृशो गणेशोऽयं तस्य ज्ञानं कथं भवेत् । तद्वदस्व दयासिंधो भवेयं दुःखवर्जितः ॥३॥ ततस्तं प्रत्युवाचेदं वचनं स पितामहः । ज्ञानयुक्तं गणेशस्य भक्तिदं परमाद्भुतम् ॥४॥ ब्रह्मोवाच । शृणु पुत्र प्रवक्ष्यामि ज्ञानं योगात्मकं महत् । यस्य त्वं गाणपत्यो वै भविष्यसि सुसेवनात् ॥५॥ देहदेहिमयं ब्रह्म स्वत उत्थानवाचकम् । जानीहि सर्वभावेन बोधरूपं विशेषतः ॥६॥ सांख्यं यद्वदति ब्रह्म परतोत्थानवाचकम् । बोधहीनस्वभावेन लभते स्वसुखस्थितम् ॥७॥ तयोर्भेदयोगे वै स्वसंवेद्यमतः परम् । जानीहि सर्वसंयोगकारकं योगसेवया ॥८॥ पंच भेदा मतास्तस्य ताञ्छृणुष्व महामते । जानीहि भेदरूपं यदसत्यं शक्तिवाचकम् ॥९॥ सत्यं भानुमयं प्रोक्तमात्माकारेण तत्र तु । जानीहि संस्थितं पुत्र सदा भेदादि- वर्जितम् ॥१०॥ तयोः संयोगकर्ता स विष्णुरानंदवाचकः । समात्मकं मतं ब्रह्म जानीहि सुखदं परम् ॥११॥ त्रयाणां नेति कर्ता च शंकरः परिकीर्तितः । अव्यक्तं ब्रह्म जानीहि तत् प्रोक्तं मोहवर्जितम् ॥१२॥ त्रिविधं मोहयुक्तं वै तुरीयं मोह- वर्जितम् । तेषां संयोगभावेन स्वानंदः परिलभ्यते ॥१३॥ स्वसंवेद्यात् परं ब्रह्म नास्ति संयोगधारकम् । सर्वत्राऽयं निजानंदः स्वानंदे सकलो भवेत् ॥१४॥ अयोगवाचकं ब्रह्म निजानंदात् परं मतम् । संयोगहीनभावेन लभ्यते नात्र संशयः ॥१५॥ संयोगायोगयोर्योगे तयोर्नाशे महामुने । स एव योग आख्यातः शांतिरूपेण लभ्यते ॥१६॥ स एव गणनाथोऽयं जानीहि ब्रह्मनायकः । गकारश्चैव संयोगो णकारो योग उच्यते ॥१७॥ तयोः स्वामी स वेदेषु विचारय महामते । तमाराधय यत्नेन ततः सौख्यमवाप्स्यसि ॥१८॥ अधुना त्वं सुसंकष्टयुक्तस्तत्र कुरुष्व भो । चतुर्थीं कृष्णपक्षस्य ध्यात्वा हृदि गजाननम् ॥१९॥
यहाँ प्रस्तुत पृष्ठ का देवनागरी में लिप्यंतरण दिया गया है:
खं. २ अ. ६९ पान १४४ समुद्रगर्वं त्वं तेन हरिष्यसि महाद्भुतम् । तपोवनं तात गच्छ व्यवसायं करोम्यहम् ॥२०॥ गृत्समद उवाच। ब्रह्माणं स नमस्कृत्य ययौ स्वकृतपोवनम् । षडक्षरेण विघ्नेशं तोषयन् मुनिसत्तमः ॥२१॥ सदा ध्यानरतो भूत्वा तताप तप उत्तमम् । संकटहरणीं प्राप्तां चतुर्थीं स चकार ह ॥२२॥ त्रिमासे प्रगते तुष्टो गणेशो व्रतसेवया । ध्यानेन तस्य प्रह्लाद तपसा भक्तिभावतः ॥२३॥ पंचम्यां कृष्णपक्षस्य बभूवाकाशवाक् परा । अगस्त्यस्तत्र शुश्राव तां वाणीं सुखदायिनीम् ॥२४॥ गच्छ त्वं पिब विघ्नेशं स्मृत्वा तं जलधिं मुने । वातापिं जहि तत्रस्थं तपस्तेजःसमन्वितः ॥२५॥ ततः स हर्षितो भूत्वा गत्वा जलधिसंनिधौ । गणेशं मनसा ध्यात्वा पपौ तं क्रोधसंयुतः ॥२६॥ शोषयित्वा जलं सर्वं संस्थितो मुनिसत्तमः । तेजसा ज्वालयामास वातापिं विप्रघातिनम् ॥२७॥ ततो देवगणाः सर्वे तुष्टुवुस्तं महामुनिम् । दैत्यांस्तत्र स्थितान् सर्वान् जघ्नुर्देवा उदायुधैः ॥२८॥ पुनर्गंगां समानीयोदधिमापूर्य तज्जलैः । भगीरथेन देवास्ते संस्थिता विगतज्वराः ॥२९॥ ततोऽगस्त्यः समागम्य वातापिनगरं प्रभुः । राजभिः पुष्कलं द्रव्यं गृहीत्वा स्वस्थलं ययौ ॥३०॥ लोपामुद्रां महातेजा- स्तोषयामास यत्नतः । पश्चात्तपसि संस्थोऽसावजपन् मंत्रमुत्तमम् ॥३१॥ जित्वा पंचविधं चित्तं योगींद्रो योगसेवया । ततो महायशाः शांतिमापेदे गणनायके ॥३२॥ पुनर्भक्त्या गणेशानं मयूरे तं समागतः । क्षेत्रे तत्रापूजयत् स नित्यं हर्षसमन्वितः ॥३३॥ एवं पुष्टिपतेश्चैव महिमा ते निरूपितः । संक्षेपेण मया दैत्य शृणु चिंतामणेः कथाम् ॥३४॥ इदं पुष्टिपतेश्चित्रं चरितं यः शृणोति वा । पठेच्च सकलं तस्य हस्तगं प्रभवेत् ध्रुवम् ॥३५॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदंतचरिते पुष्टिपतिकरितं नामाष्टषष्टितमोऽध्यायः ॥ ॥ श्रीगणेशाय नमः ॥ गृत्समद उवाच। स्वायंभुवो ददौ कन्यां कर्दमाय प्रहर्षितः । देवहूतिं च तस्यां स कपिलः संबभूव ह ॥१॥ साक्षाद्विष्णुः स्वयं देवस्तपसा कर्दमेन सः । आराधितश्च पुत्रोऽभूत्तत्त्वज्ञानप्रकाशकः ॥२॥ तं महोत्सवयुक्तश्चा- पूजयत् स महामुनिः । ब्रह्मादयः समायाता दर्शनार्थं गृहे मुनेः ॥३॥ उपवीतयुतं कृत्वा कर्दमो हर्षनिर्भरः । वेदान् सांगान् स्वपुत्राय ह्यध्यापयत यत्नतः ॥४॥ स च श्रवणमात्रेण जग्राह गुरुणोदितम् । स्वल्पकालेन संपूर्णविद्यायुक्तो बभूव ह ॥५॥
[Header] खं. २ अ. ६९ | पान १४५
ननाम कर्दमः पुत्रमेकदा भक्तिसंयुतः । सस्त्रीकश्च महाभागं पप्रच्छ विनयान्वितः ॥६॥ कर्दम उवाच । त्वं साक्षाद्विष्णुरूपो मां शुक्लः सर्वार्थकोविदः । वद ज्ञानं महाबाहो तारयस्व भवार्णवात् ॥७॥ एवं पृष्टो महात्माऽसौ कपिलस्तमुवाच ह । सर्वसारमयं ज्ञानं गाणेशं तारकः प्रभुः ॥८॥ कपिल उवाच । शृणु तात मया दृष्टमेव तत् शांतिदायकम् । कथयामि महाज्ञानं शांतियोगप्रदं प्रभो ॥९॥ सर्वं मायामयं विद्धि पंचकं पंचकं यतः । त्रिविधं आंतिरूपं यन्नानाभेदमयं भवेत् ॥१०॥ आंतिधारकरूपं यत्तच्चतुर्थं प्रकथ्यते । तेषामभेदसंयोगे ब्रह्मयोगमयं मतम् ॥११॥ पृथ्वी जलं तथा तेजस्त्रिविधं भ्रांतिदायकम् । वायुरांतिधरस्तत्र तुरीयात्मा प्रकथ्यते ॥१२॥ तेषामभेदसंयोग आकाशं ब्रह्म कथ्यते । भूतानां ज्ञानदं कस्माद्भूतं नैव प्रकीर्तितम् ॥१३॥ तथैव पंचकं सर्वं जानीहि मुनिसत्तम । मायामायिकसंयुक्तं ब्रह्म स्वानंदसंज्ञितम् ॥१४॥ कर्मेंद्रियाणि पंचैव पंचज्ञानेंद्रियाणि च । पंचतन्मात्रुकाः प्रोक्ता एवं जानीहि मानद ॥१५॥ पंच देवा निजे देहे कर्मेंद्रियविकाशकाः । तथा ज्ञानेंद्रियाणां च प्रकथ्यंते प्रकाशकाः ॥१६॥ स्थूलं सूक्ष्मं समं चैवात्मप्रतीतिप्रदायकम् । बिंदुः पंचममत्रस्थं देहपंचकमुच्यते ॥१७॥ स्वर्गो मृत्युश्च पातालं ब्रह्मांडं च तुरीयकम् । गुणेशः पंचमः पूर्णोऽडपंचकमुदाहृतम् ॥१८॥ ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चैव महामुने । योगिभिर्वर्णहीनाश्च वर्णपंचकमुच्यते ॥१९॥ ब्रह्मचारी गृहस्थश्च वानप्रस्थो यतिस्तथा । आश्रमैर्हीन रूपश्चाश्रमपंचकमुच्यते ॥२०॥ अंडजः स्वेदजो विप्रैरुद्भिज्जो जारजः स्मृतः । मानसश्चैव विप्रेंद्र योनिपंचकमुच्यते ॥२१॥ रक्तः श्वेतस्तथा श्यामो नीलः पीतश्च पंचमः । एवं कथितुं रंगपंचकं न प्रशक्यते ॥२२॥ देहेषु देहरूपं यदभिमानेन पंचधा । देहिपंचकमेतच्च ज्ञातव्यं मुनिसत्तम ॥२३॥ शक्तिः सूर्यस्तथा ब्रह्मा विष्णू रुद्रो महामते । गुणपंचकमित्युक्तं भिन्नभावधरं पितः ॥२४॥ शक्तिः सूर्यश्च विष्णुश्च शिवश्चाऽत्र तुरीयकः । गणेशः पंचमो विप्रैः पंचायतन- मुच्यते ॥२५॥ प्रकृतिः पुरुषश्चैव स्वत उत्थानसंज्ञितम् । परतोत्थानरूपं च संयोगः पंचमः स्मृतः ॥२६॥ असद्वेदेषु सद्भिैरानंदश्चोभयात्मकः । अव्यक्तश्च निजानंदो नैजं पंचकमुच्यते ॥२७॥ देहो देही च बोधाख्यं सांख्यमत्र चतुर्थकम् । पंचमं च स्वसंवेद्यं भवपंचकमुच्यते ॥२८॥ प्रकृत्यालयसंज्ञश्च विदेहो भवप्रत्ययः । उपायप्रत्ययो योगो योगपंचक- मुच्यते ॥२९॥ एवं सर्वं च जानीहि पंचकं पंचकं परम् । मयाऽशक्यं कथयितुं तस्मान् मुख्यं प्रकीर्तितम् ॥३०॥ तत्र योगे महाशांतिर्लभ्यते योगसेवया । योगाच्च न परं ब्रह्म वेदेषु परिकीर्तितम् ॥३१॥ सर्वब्रह्मसुयोगस्य योगस्तेन महामुने ।
खं. २ अ. ६९ पान १४६ न योगे कस्यचिद्भावो ब्रह्मणश्च प्रजापते ॥३२॥ गृत्समद उवाच । एवं पुत्रं वदंतं स प्रणिपत्य महामुनिः । उवाच कर्दमो यज्ञं योगेप्सुः परमादृतः ॥३३॥ कर्दम उवाच । केनोपायेन भो वत्स योगशांतिः प्रलभ्यते । तदर्थं पूजनीयं किं तद्वदस्व जनार्दन ॥३४॥ कपिल उवाच । गणेशभजनं मुख्यं शांतियोगप्रदं मतम् । योगाकारस्वरूपं तं ब्रह्मेशं भज मानद ॥३५॥ सर्वादिः सर्वपूज्योऽयं सर्वाधारो महामुने । य आदिः प्रलयांते स तिष्ठति श्रुतिसंमतम् ॥३६॥ ज्येष्ठराजं गणेशानं वेदेषु प्रवदंति तम् । गणाः समूहरूपाश्च तेषां स्वामी प्रकथ्यते ॥३७॥ नानाजगत्स्वरूपं वै देहरूपं कृतं मुने । महात्मना तेन कृतं नानाब्रह्ममयं शिरः ॥३८॥ यस्माज्जातंमिदं यन्नांते गच्छति महामते । तद्वेदे गजशब्दाख्यं शिरस्तेन गजाननः ॥३९॥ त्रिविधं भेदयुक्तं यदखंडं वै तुरीयकम् । तयोर्योगे गणेशोऽयं देहमस्तकयोगतः ॥४०॥ चित्तं पंचविधं प्रोक्तं तत्र मोहश्च पंचधा । मोहरूप महासिद्धिर्बुद्धिर्वै मोहधारिका ॥४१॥ तयोः स्वामी गणाधीशश्चित्ते नित्यं प्रतिष्ठितः । चिंतामणिर्महाभागो लभ्यते योगसेवया ॥४२॥ पंचधा चित्तमुत्सृज्य तदैश्वर्यं तथैव च । योगशांतिमयः सद्यः प्राप्यते ब्रह्मणस्पतिः ॥४३॥ तस्मात्तं भज मंत्रेणैकाक्षरेण महामुने । तेन तुष्टो गणेशानो योगं दास्यति शांतिदम् ॥४४॥ एवमुक्त्वा महायोगी कपिलस्तत्त्व- धारकः । विरराम महासाधो विष्णुः प्रह्लाद सोऽव्ययः ॥४५॥ ततः प्रणम्य तं पुत्रं कपिलं कर्दमो मुनिः । ययौ तपोवनं सद्यस्तताप परमं तपः ॥४६॥ एकाक्षरविधानेन परितुष्टो गजाननः । योगं शांतिमयं तस्मै प्रददौ भक्तवत्सलः ॥४७॥ कर्दमः शांतभावेन गणेशमभजत् परम् । विचचार महायोगी धरणीं लोकधारकः ॥४८॥ देवहूतिश्च तत्रैव योगं चासाधयत् परम् । गणेशं हृदि भावेन धृत्वा कपिलसन्निधौ ॥४९॥ क्रमेण शांतिमापन्ना चित्तं त्यक्त्वा महासती । चिंतामणौ तदाकारा बभूव भ्रमवर्जिता ॥५०॥ तां दृष्ट्वा सिद्धिमापन्नां कपिलः स ययौ ततः । गंगाया दक्षिणे तीरेऽभजत्तं गणनायकम् ॥५१॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदंतचरिते देवहूतिकर्दमशांतिप्राप्तिवर्णनं नामैकोनसप्ततितमोऽध्यायः ॥
॥ श्रीगणेशाय नमः ॥ गृत्समद उवाच । एकदा कपिलस्यैवाश्रमं देवपतिर्ययौ । सर्वामरसमायुक्तस्तं ननाम कृतांजलिः ॥१॥ अपराह्ने च संप्राप्तमिंद्रं दृष्ट्वा महामुनिः । न्यमंत्रयत् क्षुधायुक्तं सर्वैर्योगीश्वरो मुदा ॥२॥ सिद्धियुक्तं गणेशानं ध्यात्वा ह्यमृतमुत्तमम् । देवार्थं कल्पयित्वा स भोजयामास तेन तान् ॥३॥ पृथिव्यमृतभोगेन संतुष्टः सुरनायकः । मुनये वायुनाऽऽनाय्य प्रददौ मणिमुत्तमम् ॥४॥ गणेशभूषणं चिंतामणिर्मुख्यं प्रकथ्यते । योगी धृत्वा तमात्मानं मन्यते स्म कृतार्थकम् ॥५॥ कपिलस्तत्र मनसि विचारमकरोत् परम् । गणेशोऽहं न भिन्नश्च योगमार्गपरायणः ॥६॥ अतो गणेश- देवेन प्रेरितोऽयं मणिर्महान् । कंठे च तं बबंधाऽसौ यथा गणपतिस्तथा ॥७॥ तं दृष्ट्वा हर्षिता देवा सेन्द्राः स्वस्वस्थलं ययुः । कपिलः स्वाश्रमे तत्र संस्थितो मणिसंयुतः ॥८॥ प्रह्लाद उवाच । स्वानंदवासकारी च गणेशो ब्रह्मनायकः । तस्येन्द्रेण मणियोंगिन् कथं लब्धो वदस्व माम् ॥९॥ गृत्समद उवाच । शृणु प्रह्लाद माहात्म्यं चिंतामणिसमुद्भवम् । कथयामि च ते प्रीत्या सर्वपापप्रणाशनम् ॥१०॥ एकदा विष्णुना पूर्वं तपस्तप्तं सुदारुणम् । तेन शांतिरनुप्राप्ता षडक्षरविधानतः ॥११॥ तस्मै भक्तिपरीक्षार्थं ददौ चिंतामणिं प्रभुः । गणेशो भक्तिदानार्थं चिंतितार्थप्रदायिनम् ॥१२॥ विष्णुना पूजने क्षिप्तो मणिंश्चितामणिः प्रभो । अहं भक्तो गणेशस्य न योग्यो धारणे मणिः ॥१३॥ भूषणं गणनाथस्य पूजनीयं विशेषतः । न धार्यं देवदासैस्तत् पूजा कार्या च नित्यदा ॥१४॥ शांतियोगेन विघ्नेशो मया हृदि हृतः स्वके । न भिन्नस्तदपि स्वामी स दासोऽहं स्वभावतः ॥१५॥ ततो बहुगते काल इन्द्रस्तपसि संस्थितः । एकाक्षरविधानेनाऽतोषयद्गणनायकम् ॥१६॥ बभूव युक्तो ध्यानेन सततं देवनायकः । योगयुक्तः क्रमेणैव गाणपत्यो बभूव सः ॥१७॥ शांतिं प्राप्य स्वयं देवो गणेशाभेदतां गतः । आययौ स्वगृहं पश्चाद् देवराज्यं चकार ह ॥१८॥ एतस्मिन्नंतरे दैत्यगृहे शुश्राव केशवः । अशरीरां महावाणीं शृणु तत् कथयामि ते ॥१९॥ चिंतामणिं महाविष्णो देहीन्द्राय महामते । शांतियोगधरायाद्य मद्भक्ताय ददाम्यहम् ॥२०॥ श्रुत्वाऽऽकाशभवां वाणीं ययौ विष्णुर्ददौ परम् । महेंद्रायमरावत्यां मणिं तं चिंतितार्थदम् ॥२१॥ मघवा दासभावेन संस्थाप्याऽपूजयन् मणिम् । न योगमदतां प्राप्तो महेंद्रश्च प्रतापवान् ॥२२॥ तं मणिं कपिलं दृष्ट्वा शांतियोगधरं प्रभुम् । ददौ तस्मै महेंद्रः स भावयुक्तेन चेतसा ॥२३॥ अयं सिद्धेश्वरः साक्षाद्योग्यः संधारणे मणेः । वयं गृहस्थसंशीला न योग्या इत्यधारयत् ॥२४॥ एवं क्रमेण जानीहि चिंतामणिसमागमम् । कपिलः स्वगले नित्यं
खं. २ अ. ७० पान १४८
बबंध गणराजवत् ॥२५॥ गते कियति काले वै कपिलस्याश्रमं ययौ । मृगयाभिरतो दैत्यो गणासुर इति स्मृतः ॥२६॥ सेनां बहिः समास्थाप्य एकाकी मुनिमाययौ । कपिलं प्रणनामैव कृतांजलिपुटः स्थितः ॥२७॥ विनीतं तं विलोक्यैव कपिलस्तमुवाच ह । कोऽसि कस्मादिहाऽऽयातो वद सर्वं नरोत्तम ॥२८॥ गणासुर उवाच । गणासुर इति ख्यातो नाम्नाऽहं मुनिसत्तम । मृगयाभिरतो ह्यत्र दैवेनैवोपसादितः ॥२९॥ तवाश्रमे क्षुधायुक्तः श्रांतवाहन एव च । ससैन्यः सहसाऽऽगत्य संतृप्तः सुखदायके ॥३०॥ जलं फलान्यहं पीत्वा भक्षयित्वा ससैनिकः । दर्शनार्थं समायातः सेना मे सरसि स्थिता ॥३१॥ त्वद्दर्शनेन निष्पापो जातोऽहं मुनिसत्तम । आज्ञां देहि गमिष्यामि ससैन्यो नगरं स्वकम् ॥३२॥ तस्य तद्वचनं श्रुत्वा संतुष्टः कपिलोऽवदत् । ससैन्यो भुंक्ष्व किंचित्त्वं महत्तं नृपसत्तम॥३३॥ ममाश्रमे च दैत्येंद्र क्षुधितस्त्वं समागतः । अतस्त्वां प्रार्थये भूप अतिथिं सुसमागतम् ॥३४॥ तथेति संस्थितस्तत्र गणदैत्यः प्रतापवान् । उक्त्वा विनयसंयुक्तः कपिलेन सुसत्कृतः ॥३५॥ ततः कपिलशिष्येण सेनाऽऽनीता गणस्य वै । सेनया सह दैत्येशं पूजयामास तं मुनिः ॥३६॥ चिंतामणिं स संपूज्य प्रार्थयामास भोजनम् । यथारुचि च सर्वेषां तथा देयं महामणे ॥३७॥ ततो मणिप्रसादेन षड्रसैः संयुतं परम् । स्थितं पात्रेषु सर्वत्र प्रेषितं त्वन्नमादरात् ॥३८॥ ततस्तैर्भुक्तमत्यंतं स्वादयुक्तं विशेषतः । ससैन्यो गणदैत्योऽभूद्विस्मितो चेतसा भृशम् ॥३९॥ मुनिं प्रणम्य दैत्येश आर्थयत्तं महामणिम् । न ददौ तं मुनिश्रेष्ठो गाणेशं भूषणं मणिम् ॥४०॥ ततो मुनिं तिरस्कृत्य हस्तात्तस्य प्रगृह्य तम् । मणिं स प्रययौ स्थानं हर्षनिर्भरमानसः ॥४१॥ मुनिः क्षुब्धो महाभाग तस्य नाशाय दुर्मतेः । विचारमकरोचित्ते मणिग्रहणलालसः ॥४२॥ सुसाधुवदहो दैत्योऽविनीतः सुसमागतः । चकार कर्म प्रह्लाद पश्य तत् जातिवत् परम् ॥४३॥ अतो दुष्टोऽविनीतश्च न विश्वास्यः कदाचन । दुष्टसंगतियोगेन ज्ञानभ्रंशः प्रजायते ॥४४॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खंडे एकदंतचरिते चिंतामणिहरणं नाम सप्ततितमोऽध्यायः ॥
खं. २ अ. ७१ पान १४९ ॥ श्रीगणेशाय नमः ॥ प्रह्लाद उवाच । कोऽसौ गणासुरो दैत्यो येन चासत्कृतो मुनिः । समर्थः कपिलः साक्षात् प्रलयाग्नि- समद्युतिः ॥१॥ यस्य क्रोधयुता दृष्टिः सगरान् प्रददाह सा । तं तिरस्कृत्य जीवन् स कथं स्वनगरे गतः ॥२॥ गृत्समद उवाच । शृणु प्रह्लाद यत्नेन गणासुरविचेष्टितम् । सर्वं वदामि पापघ्नं गणेशचरिताश्रितम् ॥३॥ अभिजित्नाम राजर्षिरपुत्रः संबभूव ह । पुत्रार्थं स वनं राजा ययौ त्यक्त्वा स्वराज्यकम् ॥४॥ भ्रमन् ददर्श योगीशं वैशंपायनमंजसा । तं प्रणम्य सपत्नीकः पप्रच्छ विनयान्वितः ॥५॥ पुत्रप्राप्तेरुपायं मे वद सर्वज्ञ ते नमः । मुनिना मंत्रराजस्तु दत्तस्तस्मै प्रजापते ॥६॥ चातुर्मास्यप्रयोगं तं विधियुक्तं नृपस्य सः । उपदिश्य ततस्तीर्थं प्रभासं संस्थितोऽभवत् ॥७॥ अभिजित्तं प्रणम्यैव सस्त्रीकः प्रययौ महत् । तीर्थं तत्र यथायोग्यमनुष्ठानपरोऽभवत् ॥८॥ तत्र ब्रह्मा तपस्तेपे सरस्वत्या समन्वितः । स्नानार्थं सुतया युक्तः कदाचित् स जगाम ह ॥९॥ तत्रैकवस्त्रसंयुक्तां विधिर्दृष्ट्वा सरस्वतीम् । यौवनस्थां कुचाभ्यां तां रूपिणीं विस्मितोऽभवत् ॥१०॥ अकस्माज्जलमध्येऽसौ कामबाणार्दितोऽभवत् । पुत्रीभावं समागृह्य चंचलं चित्तमाददे ॥११॥ कामेनात्यंतमुग्रेण पीडितस्य जगद्गुरोः । वीर्यं तस्यास्खलत्तत्र जलमध्ये सुरेश्वर ॥१२॥ ततः सुमनसा युक्तः सत्यलोकं ययौ विधिः । प्रयोगोऽभिजितः सोऽथ समाप्तस्तद्दिनेऽभवत् ॥१३॥ सस्त्रीकः स्नानसिद्ध्यर्थं ययौ तीर्थं नृपस्तदा । तृषिता तस्य पत्नी सा जलपानरताऽभवत् ॥१४॥ दैवयोगेन तद्वीर्यं ब्रह्मणो वारिणा सह । तस्या उदरगं जातममोघ- मसुरोत्तम ॥१५॥ राजा समाप्य तत् सर्वं मंत्रानुष्ठानमादरात् । ययौ स्वनगरं पूर्णं चक्रे वै राज्यमुत्तमम् ॥१६॥ कालेन सुषुवे राज्ञी पुत्रं सा चारुहासिनी । तेजोयुक्तं महावीर्यं लक्षणैरुपशोभितम् ॥१७॥ जातकर्मादिकं राजा चकार विधिवद् द्विजैः । दत्त्वोपवीतदानं स वेदाभ्यासे मतिं ददौ ॥१८॥ स्वल्पकालेन पुत्रोऽसौ गणो नाम्ना महाबलः । वेदशास्त्रनिधि- र्जातस्ततोऽयात् स वनं स्वयम् ॥१९॥ मार्गे च सहसाऽऽगत्य शुक्रः पंचाक्षरीं ददौ । तस्मै दीक्षां शिवस्याऽसौ तथा चक्रे स भावतः ॥२०॥ शिवं ध्यात्वा तपस्तेपे महोग्रं वायुभक्षकः । दशवर्षसहस्रैस्तं ययौ भक्त्या सदाशिवः ॥२१॥ आगतं शंकरं दृष्ट्वाऽपूजयद् भक्तिभावतः । तुष्टाव विविधैस्तोत्रैर्वरदं तं जगाद सः ॥२२॥ आरोग्यादिसमायुक्तं त्रिगुणान्न भयं च मे । त्रैलोक्यराज्यमुग्रं वै देहि मे त्वं सदाशिव ॥२३॥ ओमित्युक्त्वा महादेवः स्वस्थानं प्रजगाम ह । गणश्च स्वगृहं दैत्य ययौ परमहर्षितः ॥२४॥ सर्वानानंदयामास सुहृदः पितरौ स्वकौ । ततो विजिग्ये पृथिवीं सेनया स्वेन तेजसा ॥२५॥