भारतकोश
मुद्गल पुराण (अष्टावतार चरितम्)

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

महर्षि मुद्गल द्वारा

स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)

DevanagariSanskritpublished1,023 पृष्ठ

पृष्ठ 230, कुल 1023 में से

संदर्भ में पढ़ें
पृष्ठ 230

यहाँ पृष्ठ का देवनागरी पाठ प्रस्तुत है:

खं. २ अ. ४९ | पान १०४ महावीर्यास्त्रयो देवैः शिवादिभिः ॥२६॥ धनप्रियश्च संग्रामे सूर्यं विव्याध सायकैः । उवाच गर्वसहितो रविं त्रैलोक्यभाविनम् ॥२७॥ धनप्रिय उवाच । शृणु दुष्टार्यमंस्त्वं मे वचनं हितकारकम् । गच्छ शीघ्रं महाबाहो नोचेन् मृत्युमुपेष्यसि ॥२८॥ त्वया दैत्या हताः पूर्वं भुंक्ष्व तेषां फलं महत् । न मुंचामि महादुष्ट जीवंतं त्वां च काश्यप ॥२९॥ ततः सूर्येण खड्गेन हतो दैत्यो महाबलः । पपात मूर्च्छयाऽऽविष्टः पुनः संज्ञां च सोऽलभत् ॥३०॥ आगत्य काश्यपं दैत्य- पुत्रो वेगसमन्वितः । खड्गेन तीक्ष्णधारेण जघान दृढमंजसा ॥३१॥ दृढाघातेन सूर्यः स पतितो मूर्च्छया भृशम् । तं धृत्वा विजयी दैत्यपुत्रश्च स्वस्थलं ययौ ॥३२॥ प्रणम्य पितरं पुत्रो ननंद ह धनप्रियः । पाशैर्बद्ध्वा दृढं सूर्यं चिक्षेप विवरेऽसुरः ॥३३॥ विलासी विष्णुमागत्य क्रोधेन महताऽऽवृतः । बाणजालैः समाच्छाद्योवाच तं दारुणं वचः ॥३४॥ त्वया विष्णो मदीया वै सेना संनाशिता बलात् । गृहीता दैत्यवर्याश्च नाऽहं तत्र स्थितोऽभवम् ॥३५॥ अधुना शस्त्रघातेन हतस्त्वं गच्छसि प्रभो । मृत्योर्भुवनमुग्रं यन्न त्वां मुंचामि कर्हिचित् ॥३६॥ ततः क्रोधसमाविष्टो विष्णुश्चक्रेण दैत्यपम् । विलासिनं जघानाऽथ चक्रे संमूर्च्छितं खलम् ॥३७॥ क्षणेन सावधानोऽभूदागत्य गदया विभुम् । हृदि विव्याध दुष्टोऽसौ पपात गरुडाद्धरिः ॥३८॥ तं धृत्वा दैत्यपुत्रः स ययौ स्वस्थानमुत्तमम् । पितरं प्रणामाऽथ पित्रा संमानितोऽभवत् ॥३९॥ बद्ध्वा पाशैर्महाविष्णुं चिक्षेप विवरे मदः । दैत्या हर्षसमायुक्ता जगर्जुश्च भयानकम् ॥४०॥ लोलुपश्च समागम्य शंकरं वृषभध्वजम् । उवाच कोपरक्ताक्षः शृणु त्वं नीललोहित ॥४१॥ मदीयमतुलं सैन्यं त्वया युधि निपातितम् । अधुना त्वां हनिष्यामि फलदाता भवाम्यहम् ॥४२॥ ब्रुवंतं तं ततो मूर्खं त्रिशूलेन जघान ह । शंकरः क्रोधसंयुक्तः सोऽपतन् मूर्च्छया भृशम् ॥४३॥ शुक्रेण सहसाऽऽगत्य सावधानः कृतोऽसुरः । लोलुपो निर्ममे मायां सर्वदेवविमोहिनीम् ॥४४॥ अकस्माज्जलधिस्तत्र व्याप्तः सर्वभयावहः । अग्निश्च सर्वतः सर्वान् दाहयामास भैरवः ॥४५॥ नानाशास्त्रधरा अन्ये नग्नास्ते शूलपाणयः । नग्नास्त्रियश्च शस्त्रौघैर्मारयामासुरंजसा ॥४६॥ शांकरो विस्मितो भूत्वा पश्चाद्भयसमन्वितः । मोहितो मायया तत्र लोलुपेनासुरेश्वर ॥४७॥ एतस्मिन्नंतरे तत्र समुद्रे सर्वतः स्थिते । ममज्ज तत्र देवेशः शिवः प्रह्लाद मोहतः ॥४८॥ कर्मणा च तपोरूपेणेदं सर्वं कृतं मृधे । मजंतं शंकरं धृत्वा लोलुपः स्वस्थलं ययौ ॥४९॥ पित्राऽसौ मानितोऽत्यंतं पाशैर्बद्ध्वा