मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 231, कुल 1023 में से
संदर्भ में पढ़ेंखं. २ अ. ५० पान १०५ ☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸ सदाशिवम् । चिक्षेप विवरे दैत्यो लोलुपः सर्वलोलुपः ॥५०॥ ततो हाहारवं कृत्वा देवा देवागणा मृधे । शरणं जगदंबां ते ययुः संत्रासतापिताः ॥५१॥ दैत्येंद्रा हर्षिताः सर्वे जगर्जुर्घनवद्भृशम् । कुर्वंतो वाद्यशब्दान् वै जयशब्दकरा भृशम् ॥५२॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदंतचरिते शिवादिदेवपराजयो नामैकोनपंचाशत्तमोऽध्यायः ॥ ❧❧❧ ॥ श्रीगणेशाय नमः ॥ गृत्समद उवाच । शिवविष्णुवादिदेवेषु गृहीतेषु महाबलैः । दैत्यपुत्रैः सुराणां च सैन्ये त्रासः प्रवर्तितः ॥१॥ देवा देवगणाः केऽपि क्षता भग्नास्तथाऽपरे । मृता मुमूर्षवस्तत्र गृहीता दैत्यपैर्मृधे ॥२॥ केचित्तान् शरणं जग्मुर्दैत्यान् केचित् पलायिताः । शशंसुः सर्ववृत्तांतं शक्तये भयविह्वलाः ॥३॥ वृत्तांतमतुलं श्रुत्वा दैत्यानां कर्मसंभवम् । क्रोधयुक्ता महामाया ययौ संग्राममंडलम् ॥४॥ आगतां जगदंबां तां स्वयं ज्ञात्वा मदासुरः । पुत्रैः प्रधानमुख्यैश्च नानावीरैर्वृतो ययौ ॥५॥ समागतं महादैत्यं ज्ञात्वा क्रोधसमन्विता । जगदंबा रणे तत्र धनुः सज्जमथाऽकरोत् ॥६॥ धनुषः शब्दमुग्रं ते श्रुत्वा दैत्या भयातुराः । मूर्च्छिताः केऽपि भीताश्च दुद्रुवुः केऽपि दैत्यपाः ॥७॥ ततः शंखनिनादं वै चकार स मदासुरः । महता तस्य नादेन व्याप्तं सर्वं जगत्त्रयम् ॥८॥ ततः शंखनिनादैश्च देवीनां पूरितं नभः । दैत्येंद्राणां च सर्वत्र महान् कोलाहलो ह्यभूत् ॥९॥ सिंहनादैर्जगर्जुस्ते वीरा वै शक्तयस्तथा । विनेदुर्बहुवाद्यानि सुरा हर्षं समाययुः ॥१०॥ एतस्मिन्नंतरे तत्र कालिका क्रोधसंयुता । शक्तिभिः संवृता क्रूरा दैत्यसैन्यं ममर्द्द ह ॥११॥ त्रिशूलेन तथा पाशैः शस्त्रैर्नानाविधैर्मृधे । शक्तिभिश्च्छेदिता दैत्याः पलायंत दिशो दश ॥१२॥ ततः क्रोधसमायुक्ता दैत्यपुत्राः समाययुः । ववृषुुर्बाणजालानि कालरूपाणि संयुगे ॥१३॥ तेषां बाणैर्हतास्तत्र देवानां शक्तयो गणाः । हाहाकाररवाः सर्वे पलायंत भयाकुलाः ॥१४॥ ततः काली समाक्रुद्धा रूपं कृत्वा भयानकम् । जघान दैत्यसेनां तां समंतात् प्रलयप्रभा ॥१५॥ गृहीत्वा दैत्यपुत्रान् वै बद्ध्वा पाशैर्महामदान् । चिक्षिपुर्विवरे संज्ञालक्ष्मीसावित्र्य आहवे ॥१६॥ ततः क्रोधसमायुक्तो मददैत्यः प्रतापवान् । धनुः सज्जमथो कृत्वा मुमोच शरमुल्बणम् ॥१७॥ संहारास्त्रान् महाघोरा- त्तस्माज्जातो महाबलः । पुरुषः पर्वताकारः शक्तीनां बुभुजे बलम् ॥१८॥ अस्त्रस्य तत्र दैत्येंद्र ज्वालया पीडिता रणे । ☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸