मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 232, कुल 1023 में से
संदर्भ में पढ़ेंखं. २ अ. ५० पान १०६ शक्तयश्च मृता दग्धा दुद्रुवुर्यंत्र तत्र ताः ॥१९॥ निःसहाया भयोद्विग्नाः कालीमुख्याः प्रदुद्रुवुः । महामायासमीपे ताः संस्थिताः संजगुः कथाः ॥२०॥ ततः क्रोधसमाविष्टां स्वयं शक्तिं समागताम् । सिंहारूढां स तां दृष्ट्वा दैत्येंद्रः प्रणनाम च ॥२१॥ उवाच शक्तिं गर्वेण पूरितोऽसौ महासुरः । देवांत्यक्त्वा जगन्मातरस्माकं पक्षमाश्रय ॥२२॥ नोचेत्त्वां कर्मणां देवीं हनिष्यामि न संशयः । सदेवां सपरीवारां पश्य मे पौरुषं महत् ॥२३॥ ततः क्रोधसमायुक्ता शूलं चिक्षेप वै रणे । वधाय दैत्यराजस्य महामाया प्रभावतः ॥२४॥ त्रिशूलेनऽऽहतो दुष्टः प्रह्लाद न चचाल ह । मदासुरो जगर्जासावतिक्रोध- युतोऽभवत् ॥२५॥ शस्त्राणि सहसा त्यक्त्वा मल्लयुद्धाय दैत्यपः । ययौ शक्तिर्महद्रूपं कृत्वा प्रययुधे ततः ॥२६॥ न शक्यते वर्णयितुं युद्धं घोरं तयोर्महत् । बाहुभिर्हस्तपादैश्च प्रवृत्तं दारुणं परम् ॥२७॥ परस्परं जयंतौ तौ जल्पंतौ साधु साध्विति । दिवसानि गतान्येव त्रीणि तत्रासुरेश्वर ॥२८॥ वरदानबलेनैव तेन क्षीणबला कृता । शक्तिस्त्वशक्तिरूपा च जाता कर्मप्रभावतः ॥२९॥ ममर्द्द देहपातेन महाशक्तिं महासुरः । मूर्च्छितां तां समादाय ययौ हर्षसमन्वितः ॥३०॥ अन्याश्च शक्तयस्तेन धृताः काश्चित्पलायिताः । हाहाकारश्च सर्वत्राऽभवच्छक्तिबले महान् ॥३१॥ दैत्येंद्रो वारयामास शक्तीनां कदने रतान् । उवाच कुलदेव्यश्च शक्तयो नो न संशयः ॥३२॥ ततो मदासुरेणैव मोचिताः स्वसुतास्त्रयः । प्रधानादि महादैत्या धृता देवै रणे पुरा ॥३३॥ शक्तिलोकं समासाद्य गर्वितः स मदासुरः । भोगांश्च विविधांस्तत्र बुभुजे ज्ञातिभिः सह ॥३४॥ न ममर्ष निजात्मानं मोहितो दैत्यनायकः । स्त्रीमांसमदिरासक्तः प्रबभूवासुरेश्वर ॥३५॥ ततः शक्तिं समानीयोवाच गर्वसमन्वितः । देवैः सह महाशक्ते गच्छ यत्र च ते रुचिः ॥३६॥ उवाच मोहितो वाक्यं शिवादीन् समदासुरः । गच्छंतु यत्र कुत्राऽपि ममाज्ञा वशगाः सुराः ॥३७॥ शक्तिं प्रणम्य दैत्येंद्र ऊचि्वान् भक्तिसंयुतः । अस्माकं पक्षमाश्रित्य वस त्वं पूजिता मया ॥३८॥ ततस्तं शक्तिराहत्योवाच म्लानमुखश्रिया । देवैः सह गमिष्यामि यत्र कुत्र महासुर ॥३९॥ ततस्तां दैत्यराजस्तु मुक्तवान् गर्वमोहितः । अनादृत्य महामायां साऽऽगता देवसंयुता ॥४०॥ वनेषु गिरिदर्यां च संस्थिता भयसंकुला । देवैः सह जगन्माता निःसृता दारुणाद्भयात् ॥४१॥ दैत्योऽपि दैत्यपैस्तत्र संवृतो बुभुजे सुखम् । शक्तिलोकभवं वीरः कर्मणा निर्मितं परम् ॥४२॥ ततो बाणादयस्तेनाऽभवंश्च स्थापिताः सुताः । देवानां च पदे मुख्याः शक्तिलोके तथा कृताः ॥४३॥ पृथिव्यां नगरे दुष्ट आययौ स विलासदे । तत्र स्थित्वा त्रिलोकस्य राज्यं चक्रे मदासुरः ॥४४॥