भारतकोश
मुद्गल पुराण (अष्टावतार चरितम्)

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

महर्षि मुद्गल द्वारा

स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)

DevanagariSanskritpublished1,023 पृष्ठ

पृष्ठ 233, कुल 1023 में से

संदर्भ में पढ़ें
पृष्ठ 233

खं. २ अ. ५१ पान १०७ ❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖ ततः पातालविवरे प्रेषयामास दैत्यपः । त्रिपुरं शेषनागेंद्रजयाय महाबलम् ॥४५॥ शेषो ज्ञात्वा च वृत्तांतं साम चक्रे पुरैव च । दैत्येन वार्षिकं भागं ददौ जग्राह शासनम् ॥४६॥ एवं मदासुरो दुष्टो जित्वा ब्रह्मांडमंडलम् । राज्यं चकार सर्वेषां भुवनानां प्रतापवान् ॥४७॥ अनुत्तमान् विचित्रांश्च देवादीनां सुदुर्लभान् । भोगान् सर्वान् स आहृत्य बुभुजे ज्ञातिभिः सह ॥४८॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खंडे एकदंतचरिते मदासुरविजयो नाम पंचाशत्तमोऽध्यायः ॥ ❧❖❧ ॥ श्रीगणेशाय नमः ॥ गृत्समद उवाच । शृणु प्रह्लाद दैत्यस्य चेष्टितं परमाद्भुतम् । मदासुरस्य सर्वं यन् मदमोहकरं महत् ॥१॥ ततः कियति काले स गते दुष्टैर्महासुरः । बभौ परिवृतो दैत्यैर्महाबलपराक्रमैः ॥२॥ तत्र तं त्रिपुरो दुष्ट उक्तवान् दैत्यपैः सह । कृतांजलिपुटो भूत्वा वचनं साहसं खलः ॥३॥ त्रिपुर उवाच । शृणु प्रभो महाराज दैत्यानां हितकारकम् । वचनं सुखदं साध्यमखंडानंददायकम् ॥४॥ जित्वा त्रिभुवनं पूर्वे दैत्याः संतोषमाययुः । हिरण्यकशिपुस्तत्राद्यो महान् परमद्युतिः ॥५॥ मृत्युभीतिविहीनोऽयमानंदेन समावृतः । अखिलं बुभुजे राज्यं त्रिलोकस्य न संशयः ॥६॥ वने गिरिगुहासंस्था देवाश्छद्मप्रदर्शिनः । शत्रवस्तत्र कालेन ससृजुर्नरसिंहकम् ॥७॥ नृसिंहेन हतो नूनं हिरण्यकशिपुः प्रभुः । एवं क्रमेण श्रेष्ठा ये ते हता दैत्यपाः क्रमात् ॥८॥ अधुना त्वं तथा जातो ब्रह्मांडाधिपतिः स्वयम् । देवान् मुक्त्वा महाराज किं स्थितोऽसि विचारय ॥९॥ अस्माकं शत्रवो नित्यं देवा वेदे प्रतिष्ठिताः । कथं मित्राणि ते राजन् भविष्यंति वद प्रभो ॥१०॥ अतस्तेषां विनाशाय यतस्व नृपसत्तम । नोचेत्त्वां कालयोगेन हनिष्यंति न संशयः ॥११॥ शस्त्रास्त्रैः पीडिता देवा न मरिष्यंति कर्हिचित् । अमराः कथिता वेदे घोररूपा न संशयः ॥१२॥ तेषां मरणमत्युग्रं वेदे पश्य प्रतिष्ठितम् । कर्मनाशाद् भवेत् पूर्णं कर्मान्ना देवता यतः ॥१३॥ तस्मात् कर्मकरा विप्रास्ताडनीया न संशयः । आसुरं कर्म कुर्वंतो मंतव्यास्ते त्वया- ऽनिशम् ॥१४॥ अन्ये वर्णाश्रमस्था ये ब्राह्मणाः कर्मकारकाः । नष्टेषु विप्रजातेषु सर्वे नष्टा भवंति ते ॥१५॥ अत आज्ञापय प्राज्ञ असुरान् कर्मखंडने । सर्वत्रासुरभावेन कर्म सर्वं प्रवर्तताम् ॥१६॥ एवमुक्त्वा महादैत्यं तूष्णीं भावेन संस्थितम् ।