भारतकोश
मुद्गल पुराण (अष्टावतार चरितम्)

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

महर्षि मुद्गल द्वारा

स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)

DevanagariSanskritpublished1,023 पृष्ठ

पृष्ठ 234, कुल 1023 में से

संदर्भ में पढ़ें
पृष्ठ 234

खं. २ अ. ५१ पान १०८ सदसि त्रिपुरं वीक्ष्य तमुवाच मदासुरः ॥१७॥ मदासुर उवाच । समीचीनं त्वया प्रोक्तमसि त्रिपुर बुद्धिमान् । यादृशं कथितं वाक्यं तादृशं कुरु दैत्यपैः ॥१८॥ ततो दैत्यगणैर्युक्तस्त्रिपुरो निर्गतोऽसुरः । पृथिव्यां यत्र तत्राऽपि कर्मखंडनकोऽभवत् ॥१९॥ धूता मुनिगणास्तेन ताडिता वधिता बहु । केचित्तदाज्ञया युक्ताः संस्थिताः कर्मदूषकाः ॥२०॥ केचिन् मुनिगणा दुष्टं शरणं तं ययुस्ततः । तस्याज्ञावर्तिनो भूत्वा संस्थिता ब्राह्मणाधमाः ॥२१॥ केचिच्च दुद्रुवुस्तस्य वनेषु ब्राह्मणा भयात् । तत्र स्थिताः स्वधर्मस्थं कर्म चक्रुर्गतज्वराः ॥२२॥ सिंहादिभयमुत्सृज्य मरणे कृतनिश्चयाः । सिंहादीनां समीपस्था अवसन् कर्मसिद्धये ॥२३॥ एवं द्विजाः स्थितास्तत्र न ज्ञाता दैत्यपेन ते । कर्मभ्रष्टाः स्वभावेन ब्राह्मणा बहवोऽभवन् ॥२४॥ तीर्थानि यज्ञवृक्षाश्च देवतायतनानि ते । बभंजुर्दैत्यचाराश्च यत्र तत्रासुरेश्वर ॥२५॥ आसुरं कर्म सर्वत्र स्थापितं त्रिपुरेण च । वर्णेषु ब्राह्मणाद्येषु दुष्टसंकरकारकम् ॥२६॥ ततो हाहाऽकरोत् सर्वं जगत्तेन दुरात्मना । स्वधर्मवर्जितं दुःखाज्जातं दुष्टप्रपीडितम् ॥२७॥ न स्वाहा न वषट्कारो न स्वधादिकमुत्तमम् । तेन देवगणाः सर्वे दैत्यस्य वधकांक्षिणः ॥२८॥ उपोषणैश्च संयुक्ता जाताः कालेन देवपाः । सगणाः परिवारेण निस्तेजस्का बभूविरे ॥२९॥ ततो देवगणाः सर्वे दैत्यस्य वधकांक्षिणः । मिलितास्तत्र चोपायं लेभिरे न वधस्य च ॥३०॥ सनत्कुमारश्च महायोगी तत्रादराद्ययौ । सहसा भाग्ययोगेन सर्वेषां हितकारकः ॥३१॥ तं दृष्ट्वा देवपाः सर्वे समुत्तस्थुः प्रणम्य तम् । पूजयामासुरत्यंतमुपचारैर्मनोहरैः ॥३२॥ कंदमूलादिकं तत्र निवेद्य च सुभक्तितः । पप्रच्छुस्तं मदस्यैते मरणोपायमंजसा ॥३३॥ देवा ऊचुः । धन्यं जन्म तपो विद्या ज्ञानं देहाश्च पूर्वजाः । तवांघ्रिदर्शनाद्योगिन् कृतकृत्या वयं ततः ॥३४॥ मदासुरेण बलिना जिताः सर्वे महामुने । अतस्तस्य वधार्थं नो वदोपायं महामते ॥३५॥ साधवो देवता विप्राः पीडितास्तेन योगिप । अतः साध्वादिरक्षार्थं वद सर्वज्ञ ते नमः ॥३६॥ समशीलो भवान् साक्षात् मूर्तं ब्रह्मेव संस्थितः । तथापि दोषसंयुक्तमेकं हंता भव प्रभो ॥३७॥ अतिदुष्टमनाहत्य जगत्सर्वं सुखी कुरु । न हत्वा त्वं स्वयं साक्षात् मार्गदर्शी भवस्व नः ॥३८॥ साधवः समशीलाश्च मार्गं संदर्शयंति ते । दीनानां धर्मनिष्ठानामनाथानां महामुने ॥३९॥ सत्कर्मनिरतान् जंतून् सदा कुर्वंति साधवः। विकर्मणश्च संहारस्तत्र संजायते यथा ॥४०॥ न हिंसा सा महायोगिन् विकर्महितकारिका । भवज्ज्ञा- नेन चाज्ञानं नाशयंति सुसाधवः ॥४१॥ अतस्त्वं वद नाशार्थमुपायं करवामहै । धर्मसंस्थापनार्थं तं धर्मान्नाश्च वयं यतः ॥४२॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खंडे एकदंतचरिते सनत्कुमारदेवसमागमो नामैकपंचाशत्तमोऽध्यायः ॥

मुद्गल पुराण (अष्टावतार चरितम्) · पृष्ठ 234, कुल 1023 में से · BharatKosha