भारतकोश
मुद्गल पुराण (अष्टावतार चरितम्)

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

महर्षि मुद्गल द्वारा

स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)

DevanagariSanskritpublished1,023 पृष्ठ

पृष्ठ 218, कुल 1023 में से

संदर्भ में पढ़ें
पृष्ठ 218

पान ९२

॥ श्रीगणेशाय नमः ॥ गृत्समद उवाच । भृगोर्वचनमाकर्ण्य लज्जितश्च्यवनोऽभवत् । तं प्रणम्य महाभक्त्या प्रपच्छ स कृतांजलिः ॥१॥ च्यवन उवाच । क्षमस्व मेऽपराधं च यत्कृतं सर्जनं मया । मदस्य भागहीनौ तावश्विनौ भागसंयुक्तौ ॥२॥ अधुना गणनाथस्य ज्ञानं मे वद शांतिदम् । मदादिकं समुत्सृज्य येन शांतो भवाम्यहम् ॥३॥ गृत्समद उवाच । तदीयं वाक्यमाकर्ण्य भृगुस्तं प्राह सिद्धिदम् । योगं पूर्णं गणेशाख्यं तं शृणुष्व वदाम्यहम् ॥ ४ ॥ भृगुरुवाच । गणेशो ब्रह्मरूपोऽयं पूर्णशांतिमयः स्मृतः । भेदाभेदादियोगेन गणेशः प्राप्यते नरैः ॥५॥ मायामयमिदं सर्वं भेदाभेदमयं सुत । त्यक्त्वा गणेश्वरत्वेन न चित्तं संभवेत् कदा ॥६॥ तदा चित्तस्य वृत्तीनां पंचानां नाश एव च । जायते नाऽत्र संदेहो योगशांतिमयो भवेत् ॥७॥ अतस्त्वं गणराजं तं भज योगस्य सेवया । मयोक्तेन विधानेन शांतियुक्तो भविष्यसि ॥८॥ इत्युक्त्वा विररामाऽथ भृगुः शांतिसम- न्वितः । तं प्रणम्य ययौ सोऽपि च्यवनः परामाहृतः ॥९॥ वने गत्वा तपस्तप्तं तेन योगप्रदायकम् । क्रमेण चित्तभूमीनां शोधनं च कृतं बलात् ॥१०॥ शमश्चैव दमस्तेन सेवितौ भूमिनाशनात् । सर्वं सुसुलभं प्राप्तं ततो ब्रह्मविचारतः ॥११॥ शांतियोगं समासाद्य तदाकारेण संस्थितः । गणेशमभजन्नित्यं गाणपत्यस्वभावतः ॥१२॥ तं गणेशो ययौ दैत्य मूषकोपरि संस्थितः । गजाननश्चतुर्बाहुः प्रतापी च महोदरः ॥१३॥ तं दृष्ट्वा दंडवद्भूभौ पतितश्च्यवनो मुनिः । पूजयित्वा विधानेन ततः स्तोतुं प्रचक्रमे ॥१४॥ हेरंबस्योपनिषदा संस्तुतो गणनायकः । ततः प्रसन्नतां यातः प्रददौ वरमुत्तमम् ॥ १५ ॥ गणेश उवाच । यद्यदिच्छसि विप्रेन्द्र तत्तत्ते सफलं भवेत् । योगशांतिस्वभावेन सदा तिष्ठसि मानद ॥१६॥ भक्तिर्मदीयपादे वै दृढा तव भविष्यति । स्मृतोऽहं पुरतो विप्र तुभ्यं दास्यामि दर्शनम् ॥१७॥ एवमुक्त्वा गणाधीशोंतर्धानमगमत् प्रभुः । तेनाऽपि स्थापिता मूर्तिर्गणेशस्य चतुर्भुजा ॥१८॥ च्यवनाश्रमवासी स तद्दहात् गणपोऽभवत् । दर्शनात् स्मरणात् सद्यो मुक्ति- र्मुक्तिश्च जायते ॥१९॥ एतत्ते कथितं पुण्यं च्यवनस्य महात्मनः । आख्यानं सर्वदोषघ्नं नानासिद्धिप्रदम् ॥२०॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदंतचरिते च्यवनमाहात्म्यं नाम त्रिचत्वारिंशोऽध्यायः ॥