मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 219, कुल 1023 में से
संदर्भ में पढ़ेंखं. २ अ. ४४ पान ९३ ॥ श्रीगणेशाय नमः ॥ प्रह्लाद उवाच । श्रुतं च्यवनमाहात्म्यं विश्रांतं मे च मानसम् । मदस्य चरितं ब्रूहि किं चकार महामुने ॥१॥ मुद्गल उवाच । एवं पृष्टो गृत्समदो महायोगी प्रतापवान् । गाणपत्यवरिष्ठश्चोवाच तच्छृणु सादरम् ॥२॥ गृत्समद उवाच । शृणु प्रह्लाद माहात्म्यं मदस्य क्रमसंयुतम् । च्यवनेन स संसृष्टो मदः पातालमाययौ ॥३॥ विचार्य बलवान् दैत्यैर्ययौ शुक्रं महामुनिम् । तं प्रणम्य स्थितो दूरं बद्धांजलिपुटो मदः ॥४॥ विनयेन समायुक्तं मदं दृष्ट्वा स भार्गवः । काव्यस्तं मानयामास कुतः कोऽसि वदस्व माम् ॥५॥ ततः स हर्षितो भूत्वा जगाद मुनिसत्तमम् । च्यवनाच्च समुत्पन्नं भार्गवं विद्धि मां मुने ॥६॥ तव भ्रातृसुतोऽहं वै शरणं त्वामुपागतः । शिष्यं मां कुरु योगीश येनाऽहं मानितो भुवि ॥७॥ ब्रह्मांडस्य महद्राज्यं कर्तुमिच्छामि भार्गव । मदोऽहं मदरूपेण जेष्यामि त्वत्प्रसादतः ॥८॥ इति तस्य वचः श्रुत्वा नातिहृष्टेन चेतसा । मदं तं शिष्यभावेन जग्राह मुनिसत्तमः ॥९॥ शक्तिमंत्रं ददौ तस्मै कविः सर्वार्थकोविदः । एकाक्षरविधानेन सहितं भार्गवाग्रणीः ॥१०॥ स ययौ तं नमस्कृत्य वनं तपसि संस्थितः । निराहारयुतो दैत्यः शक्तिध्यानपरायणः ॥११॥ तस्य देहे समुत्पन्नो वल्मीको बहुकालतः । लतातरुसमायुक्तस्तथाऽपि तपसि स्थितः ॥१२॥ अस्थिमात्रावशिष्टोऽभू- दजपन् मनुमादरात् । ध्यानं सांगं चकाराऽसौ स्थिरचित्तेन तापसः ॥१३॥ दिव्यवर्षसहस्राणि पंच वै तपतः किल । गतानि दैत्यराजेंद्रश्चातुरं सर्व तदाऽभवत् ॥१४॥ ततः शक्तिर्ययौ तस्याऽश्रमे भक्तिप्रभाविता । सिंहारूढा महाभागा शक्तिभिः संवृता परा ॥१५॥ पुरुषाकृतिसंस्था तु तदधीनाश्चरंति ताः । पुरतो भक्तिसंयुक्ताः प्रकृतीनां महाबलाः ॥१६॥ बोधयामास सा शक्तिरादिमाया मदं ततः । स्वभक्तं तापसं नैव स बुबोध मदासुरः ॥१७॥ ततस्तया जलेनैव मार्जितांगो महामदः । सावधानोऽभवत्तत्र दृष्ट्वा शक्तिं समुत्थितः ॥१८॥ तां प्रणम्य महाभक्त्याऽपूजयन् भक्तिसंयुतः । कृत्वा करपुटं देवीं तुष्टाव च यथामति ॥१९॥ मद उवाच । नमामि त्वां महामाये सर्वशक्तिसमन्विताम् । त्वदाधारमिदं सर्वं शक्तियुक्तं प्रवर्तते ॥२०॥ अनादिमप्रमेयां त्वां न जानंति महर्षयः । वेदांतेवेद्यरूपां वै नमामि परमेश्वरीम् ॥२१॥ नानाभेदकरीं देवीं नानाभेदविवर्जिताम् । भेदाभेदमयीं त्वाऽहं नमामि सकलेश्वरीम् ॥२२॥ पार्वतीं दक्षपुत्रीं च हिमाचलसुतां तथा । समुद्रतनयां लक्ष्मीं सावित्रीं त्वां नमाम्यहम् ॥२३॥ त्वां स्वाहां त्वां स्वधां चैव वषट्कारात्मिकां शिवाम् । बुद्धिरूपां देवमयीं ज्ञानरूपां नमाम्यहम् ॥२४॥ सिद्धिदां सर्वकार्येषु सिद्धिरूपां तपस्विनीम् । योगिनीं योगदात्रीं वै योगेशीं