मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 294, कुल 1023 में से
संदर्भ में पढ़ेंप्रियं सर्वं करिष्यामि मनोभव ॥५१॥ यादवेषु स्वयं विष्णुः कृष्णो नाम्ना भविष्यति । लक्ष्मीर्वेषेण रुक्मिण्यास्तयोः पुत्रो भविष्यसि ॥५२॥ प्रद्युम्न इति विख्यातः सर्वमान्यः सुदेहभृत् । इयं ते वल्लभा तत्र भार्या देवी भविष्यति ॥५३॥ इत्युक्त्वा तं गणेशानः स्वानंदस्थो बभूव ह । जगाम कामः सस्त्रीको पुनः क्षेत्रे मयूरके ॥५४॥ तत्र यात्राविधानेन पूजयामास विघ्नपम् । वासार्थं गणनाथस्य तपस्तत्र चकार सः ॥५५॥ वर्षेणैकेन संतुष्टस्तं ययौ विघ्ननायकः । पूजितश्च स्तुतस्तेन प्रसन्नो वरदोऽभवत् ॥५६॥ जगाद कामस्तं देवं गणपं भक्तिसंयुक्तः । ज्ञात्वा नश्वररूपं यद्देहादिकमनुत्तमम् ॥५७॥ काम उवाच । भूस्वानंदमिदं क्षेत्रं तत्र वासं करोम्यहम् । स्थानं देहि गणाधीश तव सेवार्थमेव मे ॥५८॥ अत्रैव मरणेऽनाथ ब्रह्मभूतत्वमादरात् । ददासि त्वं गणेशान अतो मां पालय प्रभो ॥५९॥ ततस्तं गणनाथः सः तथेति प्रत्युवाच ह । शक्तिं पश्चिमद्वारस्थां तदोवाच च विघ्नपः ॥६०॥ त्वदीये वामभागे वै दक्षिणांगे जगन्मयि । रतिं कामं कुरुष्व त्वं क्षेत्रेऽस्मिन् वासकारणात् ॥६१॥ तथेति तत्र सस्त्रीकः कृतः कामः स मायया । उवास क्षेत्रे सेवार्थं मयूरे गणपस्य सः ॥६२॥ तदादि सर्वमान्योऽयं कामो जातो महर्षयः । त्रैलोक्यविजयी सर्वं मोहयामास निर्भयः ॥६३॥ एतत् कामस्य यश्चित्रं चरित्रं संशृणोति वै । पठेद्वा तस्य नैवं स्यात् काममोहः कदाचन ॥६४॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे तृतीये खण्डे महोदरचरिते कामचरितं नाम चतुर्थोऽध्यायः ॥
॥ श्रीगणेशाय नमः ॥ ततः कामसमायुक्तः शंकरोऽभूत्तया सह । पार्वत्या पुत्रकामार्थं रेमे हर्षसमन्वितः ॥१॥ ततस्तस्य महेशस्य क्रीडतः प्रगतानि वै । वर्षाणि हि सहस्त्राणां षष्टिर्देवर्षिसत्तमाः ॥२॥ महामायायुतः शंभुर्न बुबोध दिवानिशम् । ततस्तस्य महेशस्य रतिभंगार्थमागताः ॥३॥ देवास्तैः प्रेषितो वह्निर्द्विजरूपधरो ययौ । भिक्षां देहि जगादासौ तच्छ्रुत्वा तौ समुत्थितौ ॥४॥ पपात भूतले वीर्यं शिवस्यैवोत्थितस्य च । तदेव पार्वती विप्रा ददौ वै भिक्षुकाय च ॥५॥ शिववीर्यं ततस्तेन प्राशितं दहनेन वै । अभवद्दाहसंयुक्तो गंगायामक्षिपत् स तत् ॥६॥ कार्तिक- स्नानकार्यार्थं कृत्तिकाभिर्महाद्भुतम् । षड्भिः समागताभिस्तत् पीतमाचमनेन वै ॥७॥ स्नात्वा स्वस्वगृहे ताश्च गताः