भारतकोश
मुद्गल पुराण (अष्टावतार चरितम्)

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

महर्षि मुद्गल द्वारा

स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)

DevanagariSanskritpublished1,023 पृष्ठ

पृष्ठ 295, कुल 1023 में से

संदर्भ में पढ़ें
पृष्ठ 295

खं. ३ अ. ५ पान ११ सद्यः समुज्ज्वलाः । पतिभिः परवीर्येण युक्ताः संत्यजिता ययुः ॥८॥ शरस्तंबे महद्वीर्यं त्यक्त्वा स्नात्वा पुनर्गृहम् । ययुस्तत्र समुत्पन्नः षण्मुखो बालको बभौ ॥९॥ स दृष्टो गच्छता तत्र नारदेन शिशुः पुरः । ज्ञात्वा ध्यानेन कैलासे गतोऽभून् मुनिसत्तमः ॥१०॥ तत्र शक्त्यै स वृत्तांतं कथयित्वा महामुनिः । यदृच्छाविचरन् यातः पार्वती बालमाययौ ॥११॥ चकार बालमागृह्य स्तनपानं यशस्विनी । वह्निगंगाकृत्तिकाद्या मातरस्तस्य तं ययुः ॥१२॥ शिवेन मातरः सर्वाः सत्कृताः स्वगृहं ययुः । ब्रह्मेशाद्यैस्ततो देवैर्मुनिभिः सोऽभिषेकितः ॥१३॥ देवसेनापतित्वे स प्रययौ सेनया सह । प्रार्थित- स्तारकस्यैव नाशाय बलवान् स्वयम् ॥१४॥ स्कंदस्य तारकस्यैव युद्धं परमदारुणम् । संजातं च ततः स्कंदो भृशं शक्त्या जघान तम् ॥१५॥ संमूर्च्छितो महादैत्यः पुनः संज्ञायुतोऽभवत् । ताडयामास तं स्कंदं गदया क्रोधसंयुतः ॥१६॥ पतितं वीक्ष्य ते देवाः पलायनमकुर्वत । गृहीत्वा कार्तिकेयं तं दैत्यः स्वस्थानमाययौ ॥१७॥ तत ओषधिभिर्देवैः सावधानः कृतोऽभवत् । स्कंदः परमदुःखार्तः शंकरं शरणं ययौ ॥१८॥ जयोपायं वद ब्रह्मन् शिवशांतिप्रदं तथा । सर्वार्थसाधकं पूर्णं तं भजामि विशेषतः ॥१९॥ ततश्च शंभुना तस्मै गणेशस्य षडक्षरः । मंत्रो दत्तो विशाखाय ज्ञानं संकथितं परम् ॥२०॥ शंभुरुवाच । शृणु स्कंद महायोगं येन शांतो भविष्यसि । चित्ते चिंतामणिं ज्ञात्वा शांता जाता वयं पुरा ॥२१॥ यद्यच्चित्तेन वै पुत्र लभ्यते तत्प्रणश्वरम् । भवेज्जानीहि चित्तं ब्रह्माकारं योगसेवया ॥२२॥ अंतर्बाह्यादिभेदा ये ते सर्वे चित्तसंभवाः । ओंकारोऽर्थसमायुक्तश्चित्तरूपो न संशयः ॥२३॥ स्वकोत्थानं बभौ ब्रह्म परोत्थानकमेव च । चित्तरूपं विजानीहि बुद्ध्या मोहप्रदं कृतम् ॥२४॥ स्वानंदश्च निवृत्तिश्च चित्तरूपे न संशयः । बहुनाऽत्र किमुक्तेन चित्तं सर्वात्मकं बभौ ॥२५॥ ब्रह्माकारं च जानीहि जगदाकारकं तथा । चित्तं पंचविधं पुत्र जहि तद् योगसेवया ॥२६॥ चित्ते यद्बिंबितं ब्रह्म भवति भ्रमसंयुतम् । बिंबभावं परित्यज्य भव चिंतामणिः सुत ॥२७॥ चित्तं त्यक्त्वा महाभाग त्वन्न भिन्नो भविष्यसि । एतदेव परं ज्ञानं शांतिरूपं वदंति च ॥२८॥ रविरुवाच । शिवस्य वचनं श्रुत्वा तं प्रणम्य ययौ वनम् । कार्तिकेयः स विघ्नेशं ध्यायंश्च विधिपूर्वकम् ॥२९॥ षडक्षरविधानेन पूजति स्म निरंतरम् । मंत्रं जजाप वै स्कंदस्तताप तप उत्तमम् ॥३०॥ वायुभक्षः सदा भूत्वा जपध्यानपरायणः । दंडकारण्यदेशे स गजाननमतोषयत् ॥३१॥ ततो वर्षसहस्रेण शांतियोगमवाप ह । कार्तिकेयः स विघ्नेशमभजत्तदपि द्विजाः ॥३२॥ ततस्तुष्टो गणेशानो ययौ तं भक्तमुत्तमम् । तं दृष्ट्वा प्रणनामाथ पूजयन् भक्तिसंयुतः ॥३३॥