मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 298, कुल 1023 में से
संदर्भ में पढ़ेंखं. ३ अ. ६ पान १४ मृत्युर्न मे भवेत् । राज्यं त्रैलोक्यसंस्थं यद्देहि तज्जगदीश्वर ॥२६॥ आरोग्यादिसमायुक्तां देहसत्तां महाप्रभो । सर्वातिगां च मे देहि संग्रामे विजयं तथा ॥२७॥ यद्यदिच्छामि देवेश तत्तन्मे सुलभं भवेत् । त्वदीयपादपद्मे ते भक्तिं देहि महाप्रभो ॥२८॥ एवमुक्त्वा महादेवं भास्करं प्रणनाम सः । उत्थाय तस्य सामीप्ये संस्थितो विनयान्वितः ॥२९॥ ततः स सविता तत्र विस्मितस्तमुवाच ह । त्वया यत् प्रार्थितं दैत्य तत् सर्वं लभसे महत् ॥३०॥ त्वया कृतमिदं स्तोत्रं मम प्रीति- विवर्धनम् । सर्वकामप्रदं चैव भविष्यति सुशृण्वते ॥३१॥ इत्युक्त्वांतर्दधे देवः सविता स्वस्थलं ययौ । दैत्योऽपि हर्षितो भूत्वा स्वगृहं प्रजगाम ह ॥३२॥ मातरं पितरं तत्र प्रणनाम महासुरः । सुहृदो मानयामास यथा संबंधपूर्वकम् ॥३३॥ ततः शुक्रं जगामाऽसौ तं प्रणम्य महासुरः । मोहः संकथयामास वृत्तांतं तस्य सन्निधौ ॥३४॥ उपचारैः प्रपूज्याऽसौ प्रणम्य स्वगृहं पुनः । आययौ हर्षसंयुक्तो नगरं निर्ममे ततः ॥३५॥ विषयावासकं नाम मुनिस्तस्य चकार वै । शुक्रः परमतेजस्वी तत्र वासं चकार सः ॥३६॥ असुरादय एवं वै वृत्तांतं यत्र तत्र ते । श्रुत्वा समागतास्तस्य नगरे चक्रिरे स्थितिम् ॥३७॥ चातुर्वर्ण्यसमायुक्तं नगरं शुशुभे द्विजाः । सर्वातिगं चानुपमं पृथिव्यां पूर्णभोगदम् ॥३८॥ ततो दैत्यगणाः सर्वे श्रेष्ठास्तत्र समागताः । शुक्रेण प्रेरितास्तं ते प्रणेमुर्भावसंयुताः ॥३९॥ प्रचंडश्चैव चंडश्च महाकालश्च वीर्यवान् । कालांतकादयश्चान्ये बहवो दैत्यनायकाः ॥४०॥ मिलिता दैत्यसंयुक्तास्तदाज्ञावशवर्तिनः । भूत्वा ते नगरे तस्य समीपे संस्थिता बभुः ॥४१॥ ततो द्विजैः स्वयं काव्यस्तं चकार महर्षयः । दैत्याधिपं स सिषेच तदर्थं राज्यसंपदि ॥४२॥ ततस्ते मुदिताः सर्वे दैत्याः स्वस्वस्थलं ययुः । मुख्यास्तत्र स्थिता विप्राः सेवार्थं लालसायुताः ॥४३॥ एवं मोहासुरः श्रेष्ठोऽसुराणां नायकोऽभवत् । तमाश्रित्य महादैत्या हर्षिता अचरन् धराम् ॥४४॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे तृतीये खण्डे महोदरचरिते मोहासुरराज्याभिषेको नाम षष्ठोऽध्यायः ॥